________________ प्रमाणविभागः] न्यायभाष्यम् / त्रिविधा चास्य शास्त्रस्य प्रवृत्तिः- उद्देशो लक्षणं परीक्षा चेति. तत्र नामधेयेन पदार्थमात्रस्याभिधानम् उद्देशः तत्रोद्दिष्टस्य तत्त्वव्यवच्छेदको धर्मो लक्षणम्. लक्षितस्य यथालक्षणमुपपद्यते न वेति प्रमाणैरवधारणं परीक्षा / तत्रोद्दिष्टस्य प्रविभक्तस्य लक्षणमुच्यते यथा प्रमाणानां प्रमेयस्य च, उद्दिष्टस्य लक्षितस्य च विभागवचनं यथा छलस्य " वचनविघातोऽर्थविकल्पोपपत्त्या छलम् 1-2-10" " तत् त्रिविधम् 1-2-11" इति। अथोद्दिष्टस्य विभागवचनम् - प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि // 3 // अक्षस्याऽक्षस्य प्रतिविषयं वृत्तिः प्रत्यक्षम् . वृत्ति स्तु संनिकों ज्ञानं वा. यदा संनिकर्षस्तदा ज्ञानं प्रमितिः. यदा ज्ञानं तदा हानोपादानोपेक्षाबुद्धयः फलम् / अनुमानम्- मितेन तथा सांसारिकं सुखमपि दुःखानुषक्तम्= अनेकदुःखमिश्रितमस्तीति त्याज्यमेव अपवर्गश्च सर्वदुःखरहितत्वात् संपाद्य इत्यर्थः, स्पष्टमन्यत् // 2 // ___ एतच्छास्त्रस्य पदार्थप्रतिपादनप्रकारमाह-त्रिविधेति, प्रवृत्तिः= पदार्थप्रतिपादनशैली / उक्तत्रैविध्यमाह- उद्देश इति / उद्देशस्वरूपमाह- तत्रेति, पदार्थानां नामधेयमात्रस्य कथनमुद्देशो यथा प्रथमसूत्रे प्रमाणादिषोडशपदार्थानां नाममात्रकीर्तनम् / लक्षणस्वरूपमाह- तत्रेति, तत्र उद्देशवाक्ये उद्दिष्टस्य= नामधेयमात्रेणोक्तस्य पदार्थस्य तत्त्वव्यवच्छेदकः= पदार्थान्तरेभ्यः स्वरूपव्यवच्छेदको धर्मो लक्षणं यथाप्रमाणस्य प्रमितिजनकत्वमितिलक्षणं प्रमितिजनकत्त्वं च प्रमाणातिरिक्तेषु प्रमेयेषु प्रमाणाभासेष्वपि च नास्तीति प्रमाणस्य स्वरूपव्यवच्छेदको धर्मः / लक्षणलक्षणं च " अव्यात्यतिव्यात्यऽसंभवेतिदोषत्रयरहितत्वम् / तदेतद् दोषत्रयरहितत्वं प्रमितिजनकत्वेऽस्त्येव-सर्वेषु प्रमाणेषु प्रमितिजनकत्वस्य सत्त्वादन्यत्र चाऽसत्त्वात्, लक्ष्यविशेषे लक्षणस्याऽसमन्वयोऽव्याप्तिः, अलक्ष्ये लक्षणसमन्वयोतिव्याप्तिः, सर्वेष्वपि लक्ष्येषु लक्षणाऽसमन्वयोऽसंभव इत्यलम् / परीक्षास्वरूपमाह- लक्षितस्येति, लक्षितस्य= कृतलक्षणस्य पदार्थस्य यथालक्षणम्= लक्षणानुसारेण स्वरूपमुपपद्यते न वेति प्रमाणैरवधारणं परीक्षा यथात्र द्वितीयाध्याये संशयादीनां परीक्षा कृता / उद्देशलक्षणपरीक्षाभ्यश्चतुर्थः प्रकारो विभागोप्यस्ति स च कचित् सति संभवे लक्षितस्य कचिच्चाऽलक्षितस्य क्रियते तदाह-तत्रेत्यादिना, तथा च वार्तिकम्- " उद्दिष्टस्य विभागो द्वेधा भवति-लक्षितस्यालक्षितस्य च लक्षितस्य छलादेरलक्षितस्य प्रमाणादेरिति” इति / तत्रेति- प्रमाणानि प्रथमसूत्रे उद्दिष्टानि तृतीयसूत्रे प्रविभक्तानि चतुर्थसूत्रमारभ्य लक्षितानि, एवं प्रमेयस्याप्युद्देशविभागलक्षणक्रमो विज्ञेयः / लक्षणान विभागक्रममाह- उद्दिष्टस्येति, छलस्य प्रथमसूत्रे उद्देशः प्रथमाध्यायद्वितीयान्हिकदशमसूत्रे लक्षणांसूत्रे च " तत् त्रिविधम्” इति विभागः कृतः / प्रथमकल्पानुसारेण उद्दिष्टस्य प्रमाणस्य वि मोद्दिष्टस्येति / विभागसूत्रमाहप्रत्यक्षेति, प्रत्यक्षादीनि चत्वारीणि प्रमाणानीति न्यू ख्याव्यवच्छेदश्वाग्रे स्पष्ट एव / अत्र 'स्वसमभिव्याहृतपदार्थतावच्छेदकव्याप्यपरस्पराधिकर मप्रकारकज्ञानानुकूलो व्यापारो विभागपदार्थः' इत्यनुसंधेयं यथात्र प्रत्यक्षत्वादिष्टयप्रकार कूलो व्यापारी विभागः। प्रत्यक्षशब्दव्युत्पत्तिमाह- अक्षस्येति भावस्याक्षस्य== चक्षुर मन्द्रियाणां या स्वस्वविषयं प्रति वृत्तिः= प्रवृत्तिः संयोगो वा तत् प्रत्यक्षः / वृत्ति रिति, संनिकर्षः= विषयेन्द्रियसंयोगः स च प्रमितिजनकत्वात् प्र ज्ञान ियोगजन्यं ज्ञानं वा प्रत्यक्षम् / विषयेन्द्रियसंयोगस्य फलमाह- यदेखिन्द्रियसंयोव ज्ञानमुत्पद्यते तदेव प्रत्यक्षप्रमितिरित्युच्यते नान्यथा यथा शुक्तीन्द्रिय उत्पन्नमपिानं न प्रमितिः / ज्ञानफलमाह- यदेति, दुःखदस्य हानं सुखदस्योपादानम् तस्योपेक्षा दिबुद्धयश्च ज्ञानं विना न संभवन्तीति .