SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 16 प्रसन्नपदापरिभूषितम्- [1 अध्याये. १आहिकेप्रवृत्तिरपैति. प्रवृत्त्यपाये जन्माऽपैति. जन्मापाये दुःखमपैति. दुःखापाये चाऽऽत्यन्तिकोऽपवर्गो निश्रेयसमिति / ___तत्त्वज्ञानं तु खलु मिथ्याज्ञानविपर्ययेण व्याख्यातम्- आत्मनि तावदस्तीति, अनात्मन्यऽनात्मेति, एवं दुःखेऽनित्येत्राणे सभये जुगुप्सिते हातव्ये च यथाविषयं वेदितव्यम् / प्रतौ- अस्ति कर्म अस्ति कर्मफलमिति, दोषेषु-दोषनिमित्तोयं संसार इति, प्रेत्यभावे खल्वस्ति जन्तु वः सत्त्व आत्मा वा यः प्रेत्य भवेदिति. निमित्तवज्जन्म निमित्तवान् जन्मोपरम इति. अनादिः प्रेत्यभावोऽपवर्गान्त इति. नैमित्तिकः सन् प्रेत्यभावः प्रवृत्तिनिमित्त इति. सात्मकः सन् देहेन्द्रियबुद्धिवेदनासंतानोच्छेदप्रतिसंधानाभ्यां प्रवर्तते इति, अपवर्गे- शान्तः खल्वयं सर्वविप्रयोगः= सर्वोपरमोऽपवर्गः बहु च कृच्छं घोरं पापकं लुप्यते इति. कथं बुद्धिमान् सर्वदुःखोच्छेदं सर्वदुःखाऽसंविदमपवर्ग न रोचयेदिति. तद् यथा मधुविषसंपृक्तानमनादेयमिति एवं सुखं दुःखानुषक्तमनादेयमिति // 2 // निवर्तन्ते, दोषापाये प्रवृत्तिरपैति= धर्माधर्मनिवृत्तिः, प्रवृत्त्यपाये जन्म अपैति= निवर्तते, जन्मापाये च दुःखमपैति= निवर्तते, दुःखापाये च निःश्रेयसशब्दवाच्योऽपवर्गः- अपवर्गस्यात्र दुःखनिवृत्तिरूपत्वात् , आत्यन्तिकत्वं पुनरनुत्पादः= पुनः संसारसंबन्धाभावः। तत्त्वज्ञानस्वरूपमाह- तत्त्वज्ञानमिति, मिथ्याज्ञानविपर्ययेण= मिथ्याज्ञानवैपरीत्येन व्याख्यातं विज्ञेयं तथा च यत्र नास्तीति मिथ्याज्ञानं तत्रास्तीति तत्त्वज्ञानं विज्ञेयम् / तत्त्वज्ञानमुदाहरति-आत्मनीति, आत्मनः सत्त्वज्ञानं तत्त्वज्ञानम्, अनात्मनि आत्मभिन्ने शरीरादौ अनात्मेति आत्मभिन्नमितिज्ञानं तत्त्वज्ञानम् / दुःखे दुःखमिति. अनित्ये चानित्यमिति. अत्राणे चात्राणमिति. सभये च सभंयमिति. जुगुप्सिते जुगुप्सितमिति. हातव्ये= हेये हेयमितिज्ञानं तत्त्वज्ञानम् , यथाविषयम् प्रतिविषयं किंवा विषयानुरूप्येणेत्यर्थस्तथा च विषयस्य यद् यथार्थ स्वरूपं तद्विषयकं ज्ञानं तत्त्वज्ञानं वेदितव्यं यथा दुःखे दुःखत्वज्ञानम् / प्रवृत्तिविषयकं तत्त्वज्ञानमाह-प्रवृत्ताविति, प्रवृत्तिश्च धर्माधर्मावित्युक्तमेव / दोषविषयक तत्त्वज्ञानमाह-दोषेष्विति / जन्ममरणयोस्तत्त्वज्ञानमाह-प्रेत्येति, जीव इत्याद्यनेकपर्यायप्रयोगप्रयोजनं चिन्त्यं किं वा जन्तुरिति परिच्छिन्नात्माभिप्रायेण सत्त्व इत्यन्तःकरणात्माभिप्रायेण आत्मेति विश्वात्माभिप्रायेणेति व्याख्येयम्, प्रेत्य= मृत्वा भवेत्= जायेत तथा च जन्ममरणयोर्नित्यात्मसंबन्धित्वज्ञानमेव तत्त्वज्ञानमित्यर्थः, जन्ममरणयोद्वितीय तत्त्वज्ञानमाह- निमित्तति, निमित्तवत्= कर्मनिमित्तकं जन्म तत्त्वज्ञाननिमित्तको जन्मोपरमः= अपवर्गः / अत्र तृतीयं तत्त्वज्ञानमाह- अनादिरिति, अपवर्गान्त:- अपवर्गेण सान्तः= निवर्तते इत्यर्थः / अत्र चतुर्थ तत्त्वज्ञानमाह- नैमित्तिक इति, प्रवृत्तिनिमित्तः= धर्माधर्मनिमित्तको न तु स्वकल्पितनिमित्तेन नैमित्तिक इत्यर्थः / अत्र पञ्चमं तत्त्वज्ञानमाह- सात्मक इति, देहेन्द्रियबुद्धिवेदेनोसन्तानोच्छेदप्रतिसंधानाभ्यां प्रवर्तमानोपि प्रेत्यभावो न निरात्मकः किं तु सात्मक एव तत्र देहेन्द्रियबुद्धिवेदेनासंतानस्योच्छेदनात्मन एव मरणम् देहादिवियोगः प्रतिसंधानेननः संयोगेनात्मन एव जन्मेति प्रेत्यभावः सात्मक इति तत्त्वज्ञानम् / अपवर्गविषयकं तत्त्वज्ञानमाह- अपवर्गे इति, सर्वोपरमः, सर्वनिवृत्तिरूपः, कृच्छ्रम्= कष्टम् / पापकम्= पापमपवर्गे लुप्यते तथा चापवर्ग कल्याणत्वज्ञानं तत्त्वज्ञानम् / अत्र द्वितीयं तत्त्वज्ञानमाहफथमिति, सर्वदुःखासंविदम्= सर्वदुःखज्ञानरहितम् , दुःखोच्छेदेसत्यपि दुःखज्ञानं संभवतीत्यभिप्रायेण सर्वदुःखासंविदमिति विशेषणम्, तथा चापवर्गे बुद्धिमद्रुचिविषयत्वज्ञानं तत्त्वज्ञानम् / उपसंहरतितदिति, किं वा ननु संसारे दुःखवत् सुखमप्यस्त्येवेति कथा संसारो हेय इत्याशङ्क्याह- तदिति, यथा मधुसंपृक्तम् मधुमिश्रमप्यन्नं विषमित्रत्वादनादेयम् पाद्यमेव= त्याज्यमेव- दुःखप्रधानत्वान्
SR No.004320
Book TitleNyayadarshanasya Nyayabhashyam
Original Sutra AuthorN/A
AuthorVatsyayan
PublisherManilal Iccharam Desai
Publication Year1922
Total Pages500
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy