________________ मोक्षोपायः] न्यायभाष्यम् / दोषैः प्रयुक्तः- शरीरेण प्रवर्तमानो हिंसास्तेयप्रतिषिद्धमैथुनान्याचरति, वाचाऽ नृतपरुषसूचनाऽसंबद्धानि, मनसा परद्रोहं परद्रव्याभीप्सां नास्तिक्यं चेति, सेयं पापात्मिका प्रवृत्तिरधर्माय / अथ शुभा- शरीरेण दानं परित्राणं परिचरणं चेति, वाचा सत्यं हितं प्रियं स्वाध्यायं चेति, मनसा दयामस्पृहां श्रद्धां चेति, सेयं धर्माय / अत्र प्रवृत्तिसाधनौ धर्माधौं प्रवृत्तिशब्देनोक्तौ यथा- अन्नसाधनाः प्राणाः ' अन्नं वै प्राणिनः प्राणाः' इति, सेयं प्रवृत्तिः कुत्सितस्याऽभिपूजितस्य च जन्मनः कारणम् / / जन्म पुनः शरीरेन्द्रियबुद्धीनां निकायविशिष्टः प्रादुर्भावः तस्मिन् सति दुःखम्. तत् पुनः प्रतिकूलवेदनीयं वाधना पीडा ताप इति / त इमे मिथ्याज्ञानादयो दुःखान्ता धर्मा अविच्छेदेनैव प्रवर्तमानाः संसार इति / यदा तु तत्त्वज्ञानाद् मिथ्याज्ञानमपैति तदा मिथ्याज्ञानापाये दोषा अपयन्ति. दोषापाये मिथ्याज्ञानं व्याख्याय दोषाणां फलमाह- दोषैरिति, रागादिदोषैः प्रयुक्तः प्रेरितः / दोषप्रयुक्तस्य निषिद्धां शरीरप्रवृत्तिमाह- शरीरेणेति, प्रतिषिद्धमैथुनम्= अगम्यागमनम् / निषिद्धां वाक्प्रवृत्तिमाहवाचेति, अनृतम्= अनृतभाषणम्. परुषम् परुषभाषणम् सूचना= पिशुनता. असंबद्धम्= अनर्थकभाषणम् अविद्यमानदोषभाषणम्. "आचरति" इत्यनुवर्तनीयम् / निषिद्धां मनःप्रवृत्तिमाह- मनसेति, परद्रव्याभीप्साम्= अन्यायेन परद्रव्यग्रहणेच्छाम् नास्तिक्यम्= वेदनिन्दाम् आचरतीत्यन्वयः / निषिद्धां प्रवृत्तिमुपसंहरति-सेयमिति, अधर्माय= पापादृष्टजनिकेत्यर्थः / शरीरादीनां शुभाम् धर्मोत्पादिकां प्रवृत्तिमाहअथेति, दानम्= पात्राय दानम् , परित्राणम् पररक्षणम्, परिचरणम्= वृद्धसेवा, आचरतीत्यन्वयः / शुभां वाक्प्रवृत्तिमाह-वाचेति, सत्यम्= सत्यवचनम्. हितम् हितवचनम्. प्रियम्-प्रियवचनम् स्वाध्यायम्= वेदाभ्यसनम् आचरति / शुभां मनःप्रवृत्तिमाह- मनसेति, आचरतीत्यर्थः / शुभां प्रवृत्तिमुपसंहरति- सेयमिति, सेयं शुभा प्रवृत्तिधर्माय= पुण्यादृष्टजनिका / पुण्यपापानुसारेणैव जात्यायु गा भवन्ति तथा च योगसूत्रम् " सति मूले तद्विपाको जात्यायु गाः" इति / स्पष्टमन्यत् / / प्रवृत्तिपदाथै व्याचष्टे- अत्रेति, अत्र= उक्तसूत्रे प्रवृत्तिः साधनं ययोस्तौ प्रवृत्तिसाधनौ धर्माधर्मों प्रवृत्तिशब्दवाच्यौ, अत्र दृष्टान्तमाह- यथेति, यथा 'अन्नं वै प्राणिनः प्राणाः' इत्यत्राऽन्नं साधनं येषां तेऽन्नसाधनाः प्राणाः ' अन्नम्' इत्यन्नशब्देनोक्ता यथा च " आयुर्वं घृतम् " इत्यत्र घृतसाधनमायुर्घतशब्देनोक्तम्-साध्यसाधनयोरभेदोपचारात् तथात्र प्रवृत्तिसाधनौ धर्माधौं प्रवृत्तिशब्देनोक्तौ / उपसंहरतिसेयमिति, प्रवृत्तिः= धर्माधौं कुत्सितस्य= निकृष्टस्य अभिपूजितस्य= उत्कृष्टस्य च सूत्रोक्तस्य जन्मनः कारणम् , वस्तुतस्तु न केवलं जन्मन एव किं तु सर्वस्यैव कुत्सितस्य पापं कारणं सर्वस्यैव चोत्कृष्टस्य पुण्यं कारणम् / तथा च प्रवृत्तिशब्दवाच्ययोधर्माधर्मयोनिसौ तत्कार्यस्य जन्मनो निवृत्तिर्जन्मनिवृत्तौ च दुःखनिवृत्तिस्ततश्चापवर्ग इत्युपसंहारः। . .. जन्मपदार्थ व्याचष्टे- जन्मेति, शरीरेन्द्रियबुद्धीनां निकायविशिष्टः- परस्परसंबद्धानां य प्रादुर्भावः स जन्मेत्युच्यते, गर्भतो मृतशरीरोत्पत्तावपि जन्मशब्दप्रयोगाभावा शरीरादीनां परस्परसंबद्धत्वं विशेषणम् , तस्मिन् = जन्मनि सत्येव दुःखं भवति नान्यथेत्याह- तस्मिन्निति / दुःखपदार्थमाह- तदिति, तत्= दुःखं प्रतिकूलवेदनीयम्= प्रतिकूलपदार्थसंयोगजन्यं प्रतिकूलत्वेन ज्ञायमानं मनोविकारविशेष एव दुःखमित्यर्थः / दुःखस्य पर्यायत्रयमाह-बाधनेति, ताप- संताप:- क्लेशः / / ___ संसारपदार्थमाह- ते इति, दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानीति धर्माः / अविच्छेदेन= नैरन्त. येण / तथा च मिथ्याज्ञानाद् दोषा दोषः प्रवृत्तिः प्रवृत्त्या जन्म जन्मना च दुःखमिति संसारपदार्थः / अपवर्गक्रममाह- यदेति, अपैति= निवर्तते मंदा मिथ्याज्ञानापाये- मिथ्याजाननिवृत्तौ दोषा अपयन्ति