________________ प्रसन्नपदापरिभूषितम्- [1 अध्याये. १आहिकेकर्मफलमिति, दोषेषु नायं दोषनिमित्तः संसार इति, प्रेत्यभावे नास्ति जन्तु वो वा सत्त्व आत्मा वा यः प्रेयात् प्रेत्य च भवेदिति. अनिमित्तं जन्माऽनिमित्तो जन्मोपरम इति. आदिमान् प्रेत्यभावोऽनन्तश्चेति. नैमित्तिकः सन्न कर्मनिमित्तः प्रेत्यभाव इति. देहेन्द्रियबुद्धिवेदनासन्तानोच्छेदपतिसंधानाभ्यां निरात्मकः प्रेत्यभाव इति, अपवर्गे भीष्मः खल्वयं सर्वकार्योऽपरमः सर्वविप्रयोगेऽपगर्वे बहु भद्रकं लुप्यते इति कथं बुद्धिमान सर्वसुखोच्छेदमञ्चैतन्यममुमऽपवर्ग रोचयेदिति, एतस्मान्मिथ्याज्ञानादनुकूलेषु रागः प्रतिकूलेषु द्वेषः. रागद्वेषाधिकाराचाऽसत्येांमायालोभादयो दोषा भवन्ति / दोषेष्विति, रागद्वेषादिदोषाणां प्रत्यक्षसिद्धत्वात् तत्र नास्तीतिज्ञानं नोपपद्यते इति दोषेषु संसाराऽकारणत्वज्ञानं मिथ्याज्ञानमेव- दोषाणामपि संसारकारणत्वात् यतो दोषैः प्रेरितो जीवः कर्म करोति तेन च संसारो भवति, किं च रागादिदोषेष्वऽदोषत्वज्ञानमपि मिथ्याज्ञानमेव लोके हि रागादिदोषेषु गुणत्वज्ञानमनुवर्तते इति स्पष्टमेव / जन्मादिविषयकं मिथ्याज्ञानमाह-प्रेत्येति, प्रेत्यभावे- जन्ममरणयोः, जीव इति जन्तुपदव्याख्यानम् आत्मेति सत्त्वपदव्याख्यानं प्रेयात्-म्रियेत प्रेत्य-मृत्वा भवेत्= जायेत= जन्मसंबद्धः स्यात्. जन्ममरणयोः प्रत्यक्षसिद्धत्वेन प्रत्याख्यानासंभवात् तयोर्जीवेन संबन्धोत्र प्रत्याख्यातो वेदितव्यः- यदा हि नित्य आत्मैव नास्ति तदा तस्य कथं निरन्तरं जन्ममरणाभ्यां संबन्धः स्यात् ?-निस्यस्यैव मरणानन्तरं जन्मसंभवात् न च नित्य आत्मा तस्माद् मृतो न जायते इत्येवं चार्वाकमतेन व्याख्येयं किंवा शून्यवादेन व्याख्येयं तत्र शून्यातिरिक्तस्य सत एवाभावात् जन्मादिकमनुपपन्नं. तत्रात्मना सह जन्ममरणयोः संबन्धस्य सतोप्यसत्त्वज्ञानं मिथ्याज्ञानमेव, जन्ममरणे निष्कारणके इति द्वितीयं मिथ्याज्ञानमाह- अनिमित्तमिति, जन्मोपरमः= मरणम् , अत्र सकारणकयोर्जन्ममरणयोर्निष्कारणकत्वज्ञानं मिथ्याज्ञानमेव, अपवर्गेण सान्तयोरपि जन्ममरणयोरनन्तत्वज्ञानलक्षणं मिथ्याज्ञानमाह- आदिमानिति, तथा च मोक्षपदार्थो नास्तीत्यर्थः / जन्ममरणयोः सकारणकत्वस्वीकारेपि कर्माऽकारणकत्वज्ञानलक्षणं मिथ्याज्ञानमाह- नैमित्तिक इति, प्रेत्यभावो नैमित्तिकोपि सन् न कर्मनिमित्तकः किं वा ' अकर्मनिमित्तः' इतिच्छेदः, अत्र पक्षे शुक्रस्य गर्भाशये स्थितिनिमित्तकं जन्म मरणं च धातुवैषम्यनिमित्तकमित्याशयः / सात्मकयोः= आत्मसंबद्धयोर्जन्ममरणयोनिरात्मकत्वज्ञानलक्षणं मिथ्याज्ञानमाह- देहेति, निरात्मकः= आत्मासंबद्धः= आत्मरहितः प्रेत्यभावो नित्यस्यात्मनो नास्ति- नित्यात्मस्वीकाराभावात् किं तु देहेन्द्रियबुद्धिवेदनासंतानस्योच्छेद एव मरणं प्रतिसंधानम् परस्परसंबन्ध एव जन्मेति बौद्धमतं तादृशोच्छेदप्रतिसंधानाभ्यामेव प्रेत्यभावस्योपपत्तेरात्मापेक्षाया अभावाद् निरात्मकः प्रेत्यभावः, अत्र देहेतिवाक्यं बौद्धाभिमतपञ्चस्कन्धग्राहकं वेदितव्यं तत्र देहःप्रसिद्ध इन्द्रियशब्दो रूपस्कन्धपरः बुद्धिशब्दो विज्ञानस्कन्धपरः वेदानाशब्दो वेदनास्कन्धपरः, सविषयाणीन्द्रियाणि रूपस्कन्धः आलयविज्ञानप्रवृत्तिविज्ञानप्रवाहो विज्ञानस्कन्धः सुखदुःखादिप्रत्ययप्रवाहो वेदनास्कन्ध इतिबुद्धिवेदनयोविभेदो विस्तरस्तु बौद्धग्रन्थे द्रष्टव्यः / अपवर्गविषयकं मिथ्याज्ञानमाह- अपवर्गे इति, भीष्मः= भीषणः= असह्यः / सर्वविप्रयोगे= पुत्रकलत्रादिसर्वपदार्थसंबन्धरहितेऽपवर्गे बहु= सर्वे भद्रकम्= सुखं लुप्यतेसुखस्य सुखजनककलत्रादिपदार्थसंयोगजन्यत्वात् अपवर्गे च सुखजनककलत्रादिपदार्थसंसर्गास्वीकारादित्यर्थः / आक्षिपति- कथमिति, सर्वसुखोच्छेदम्= सर्वसुखरहितम् अचैतन्यं= ज्ञानरहितम्- न्यायमते मोक्षे सर्वज्ञानराहित्यस्वीकारात् तथा चाऽभीष्मेऽपवर्गे भीष्मत्वज्ञानं सभद्रकेऽभद्रकत्त्वज्ञानं बुद्धिमद्चिविषये बुद्धिमद्च्यविषयत्वज्ञानं विपरीतत्वाद् मिथ्याज्ञानमेव / उक्तमिथ्याज्ञानस्य फलमाहएतस्मादिति, जायते इतिशेष: / रागद्वेषयोः फलमाह- रागद्वेषेति, रागद्वेषयोरधिकारात्= उद्रेकात् असत्यादयो दोषा भवन्ति, असत्यम्= मिथ्याभाषणम्. ईर्षा= परगुणेषु दोषारोप: माया= दम्भः लोभः= अयुक्तसंग्रहेच्छा।