________________ मोक्षोपायः ] न्यायभाष्यम् / दितत्वज्ञानम् / निःश्रेयसाधिगमः= अपवर्गप्राप्तिः / तत् खलु निःश्रेयसं किं तत्त्वज्ञानान्तरमेव भवति ?. नेत्युच्यते, किं तर्हि ?. तत्त्वज्ञानात् // 1 // दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरा पाये तदनन्तरापायादपवर्गः // 2 // तत्रात्माद्यपवर्गपर्यन्तं प्रमेये मिथ्याज्ञानमनेकाकारं प्रवर्तते, आत्मनि तावत् 'नास्ति' इति. अनात्मनि 'आत्मा' इति. दुःखे सुखमिति. अनित्ये नित्यमिति. अत्राणे त्राणमिति, सभये निर्भयमिति. जुगुप्सितेऽभिमतमिति. हातव्येप्रतिहातव्यमिति, प्रवृत्तौ नास्ति कर्म नास्ति किमिति / उत्तरमाह- तत्त्वेति, तत्त्वज्ञानानन्तरं प्रारब्धकर्मफलानां भोगे जाते मोक्षो भवतीत्यर्थस्तथा च श्रुतिः- "तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्ये" इति. स्मृतिश्च-"नामुक्त क्षीयते कर्म कल्पकोटिशतैरपि” इति // किं वा " तत् खलु " इत्यादिवाक्यस्याग्रिमसूत्रेण संबन्धस्तथा च तत्त्वज्ञानाद् मिथ्याज्ञानादिनिवृत्तौ दोषादिदुःखान्तनिवृत्त्यापवर्गः' इत्यन्वयः // 1 // तस्वज्ञानादपवर्गप्राप्तिप्रकारं सूत्रयति- दुःखेति, दुःखाद्युक्तेषु मध्ये उत्तरोत्तराणाम्= मिथ्याज्ञानदीनामपाये निवृत्तौ सत्त्यां तदनन्तराणाम् तत्पूर्वाणां दोषादीनामपायात्= निवृत्त्याऽपवर्गः संभवती त्यन्वयः, तथाहि-मिथ्याज्ञानापाये रागद्वेषादिदोषापाय:- मिथ्याज्ञानस्यैव दोषकारणत्वात् कारणनिवृ. तौ कार्यनिवृत्तेः प्रसिद्धत्वात् . दोषापाये धर्माधर्मलक्षणप्रवृत्तेरपाय:-दोषाणामेव प्रवृत्तिकारणत्वात्, प्रवृ. स्यपाये जन्मापाय:- प्रवृत्तेरेव जन्मकारणत्वात्. जन्मापाये सर्वविधदुःखापाय:- जन्म हि शरीरसंबन्धः शरीरसंबन्धं विना दुःखासंभवात् जन्मन एव दुःखमूलत्वात् दुःखापायेऽपवर्ग:- अपवर्गस्यात्र दुःखनिवृत्तिरूपत्वात्. सुखरूपत्वे हि तादृशं सुखं विषयसंबन्धमूलकमेव स्यादित्यनित्यमेव स्यात्तेन चाऽपवर्गस्यानित्यत्वमापयेत न चैतदिष्टम्. आत्मनश्च सुखरूपत्वं नानूभूयते इति नोपपद्यते च येनात्मसुखेनाऽपवर्गे सुखं नित्यं स्यादिति दुःखनिवृत्तिरेवापवर्ग इति संभवति- ध्वसरूपाया निवृत्तेनित्यत्वसंभवादिति संक्षेपो विस्तरस्त्वन्यत्र द्रष्टव्यः / मिथ्याज्ञानं च विपरीतज्ञानम् अविद्येति यावत् सा च प्राधान्येन चतुर्विधा तथा च योगसूत्रम्-"अनित्याऽशुचिदुःखाऽनात्मसु नित्यशुचिसुखात्मख्यातिरविद्या" इति, अनित्यादिषु नित्यत्वादिज्ञानमविद्या- मिथ्याज्ञानमित्यर्थः, इतिसूत्रार्थः, मिथ्याज्ञानं व्याचष्टे- तत्रेति, तत्र-सूत्रोक्तपदार्थेषु आत्मादि= आत्मानमारभ्य, आत्मादितत्त्वज्ञानादपवर्ग इत्युक्तमिति हेतोः “आस्माद्यपवर्गपर्यन्तम् " इत्युक्तं वस्तुतस्तु लोके शुत्यादिपदार्थेष्वपि रजतादिमिथ्याज्ञानं जायते एव, प्रमेये इति सप्तम्यर्थो विषयत्वम् , प्रवर्तते= जायते / आत्माद्यपवर्गपर्यन्तं प्रमेयाश्वाग्रिमे नवमसूत्रे द्रष्टव्याः। आत्मविषयकं मिथ्याज्ञानमाह- आत्मनीति, सत आत्मनो नास्तीतिज्ञानमसत्त्वग्राहकत्वेन विपरीतत्वाद् मिथ्याज्ञानमेव एवमग्रेपि बोध्यम् / अनात्मनि शरीरे आत्मत्वज्ञानं विपरीतत्त्वाद् मिथ्याज्ञानमेव. दुःखे संसारे किं वा पुत्रकलनधनादौ सुखमिति ज्ञानं मिथ्याज्ञानमेव उक्तं च-" अर्थमनर्थ भावय नित्यं नास्ति ततः सुखलेशः सत्यम् " इत्यादि / अनित्ये पृथिव्यादौ नित्यत्वज्ञानम् , अत्राणे= अरक्षके प्रभ्वादौ रक्षकत्वज्ञानम् , सभये संसारे राजपदादौ वा निर्भयत्वज्ञानं मिथ्याज्ञानमेव. जुगुप्सिते= मलमूत्रादिपूर्णत्वेनाशुद्धे शरीरे अभिमतम्= अनुकूलं ग्राह्यं शुद्धमितिज्ञानं मिथ्याज्ञानमेव उक्तं च-" स्थानाद्वीजादुपष्टम्भान्निस्यन्दान्निधनादपि कायमाधेयशौचत्त्वात् पण्डिता ह्यशुचिं विदुः" इति, हातव्ये= त्याज्ये संसारपदार्थे अप्रतिहातव्यम्= अत्याज्यत्वज्ञानं मिथ्याज्ञानमेव / धर्माधर्मलक्षणप्रवृत्तिविषयं मिथ्याज्ञानमाह- प्रवृत्ताविति, सृष्टिवैषम्यस्य धर्माधर्माभ्यां विनोपपत्तेरसंभवेन कर्मसत्त्वमावश्यकं तत्र सतोः कर्मतत्फलयोर्नास्तीतिज्ञानं मिथ्याज्ञानम् / दोषविषयकं मिथ्याज्ञानमाह