________________ प्रसन्नपदापरिभूषितम्- [1 अध्याये, १आह्निकेतानां स्ववाक्यपरिवर्जनं छलजातिनिग्रहस्थानानां परवाक्ये च पर्यनुयोगः / जातेश्च परेण प्रयुज्यमानायाः सुलभः समाधिः स्वयं च सुकरः प्रयोग इति / सेयमान्वीक्षिकी प्रमाणादिभिः पदार्थैविभज्यमाना प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् / __ आश्रयः सर्वधर्माणां विद्योदेशे प्रकीर्तिता // तदिदं तत्त्वज्ञानं निःश्रेयसाधिगमार्थ यथाविधं वेदितव्यम्. इह त्वऽध्यात्मविद्यायामात्मावितण्डाभ्यां साध्यसाधने प्रवृत्तो विजिगीषुनिग्रहस्थानैः पराजयं प्रापणीय इत्याशयस्तथा च वार्तिकम्"विजिगीषुर्जल्पवितण्डाभ्यां प्रत्यवस्थेयः" इति / अत्र वादस्य सद्धेतुकस्वाद वादे विशेषतो निग्रहस्थाननिर्देशापेक्षा न भवति किं तु हेत्वाभासनिर्देशापेक्षा भवति-अन्यथा परपराजयासंभवादितिहेतो देि हेत्वाभासानां चोदनीयत्वमुक्तम् , जल्पवितण्डयोस्तु सद्धेतुकत्वनियमाभावात् जल्पवितण्डाभ्यां प्रवृत्तस्य निग्रहस्थानैः पराजयः संभवतीत्यभिप्रायेण जल्पवितण्डयोनिग्रहस्थानानां चोदनीयत्वमुक्तमिति प्रतिभाति-भूतानुरूपो बलिः' इतिन्यायात् / छलजातिनिग्रहस्थानानां पृथग्रवचनस्य कारणमाह-छलेति, उपलक्षणार्थः= छलादिस्वरूपज्ञानार्थः / छलादीनां स्वरूपज्ञानस्य प्रयोजनमाह-उपलक्षितानामिति, उपलक्षितानाम्= ज्ञातानां छलजातिनिग्रहस्थानानां स्ववाक्यपरिवर्जनम्= स्ववाक्येष्वऽप्रयोग: परवाक्ये= परेण प्रतिवादिना स्ववाक्ये प्रयुक्तानां पर्यनुयोगः- त्वया छलादयः प्रयुक्ता इति निर्देशश्च संभवति न त्वज्ञातानामपीत्युपलक्षणार्थ पृथगुपदेशः, तथा च वार्तिकम्-"छलजातिनिग्रहस्थानानि स्वयं न प्रयोक्तव्यानि" इति / पृथगपि जातिज्ञानप्रयोजनमाह-जातेरिति, जातिज्ञाने सति परप्रयुक्ताया जाते: समाधिः सुलभो भवति स्वयं च प्रयोगः परप्रयुक्तजाते॥तित्वनिरूपणं सुकरं भवति, तदेतत् जाति ज्ञाना. भावे न संभवति, छलजातिनिग्रहस्थानानां स्वयमऽप्रयोक्तव्यत्वादत्र प्रयोगशब्दो जातित्वनिरूपणपर एव विज्ञेयस्तदेतद् वार्तिके स्पष्टम् / छलजातिनिग्रहस्थानानां ज्ञानप्रयोजनमुक्त्वा पुनरपि जातिमात्रज्ञानस्य प्रयोजनप्रतिपादने भाष्यकारस्य विशेषाभिप्रायो नावधार्यते, किं च बहुत्रैवमनवधानं भाष्ये दृश्यते / ___उपसंहरति-सेयमिति, आन्वीक्षिकी न्यायविद्या प्रमाणादिषोडशपदार्थनिरूपणेन विभज्यमानाविद्यान्तरेभ्यः पृथक् क्रियमाणा= विलक्षणा सर्वविद्यानां प्रदीपः= अनुप्राहिका- सर्वेषां शास्त्राणां न्यायशास्त्रसापेक्षत्वाद् उक्तं च-" काणादं पाणिनीयं च सर्वशास्त्रोपकारकम्" इति, सर्वकर्मणाम्= लोकव्यवहाराणामुपायः= प्रवर्तिका-तर्कनिर्णयाभ्यामेव लोकव्यवहारसंभवात् , सर्वधर्माणाम् वैदिककर्मणामाश्रयः= प्रवर्तिका- देहान्तरलभ्यस्वर्गादिसाधनीभूतेषु कर्मसु तकेंण शरीरातिरिक्तनित्यात्मनिश्चयादेव प्रवृत्तिसंभवात् उक्तं च “यस्तकेंणानुसंधत्ते स धर्म वेद नेतरः" इति, विद्योद्देशे= कौटलीयार्थशास्त्रस्य विद्यासमुद्देशाख्यविभागे प्रकीर्तितेत्यर्थः, तदेतत् पूर्वत्र वात्स्यायनसमयसमीक्षायां द्रष्टव्यम् / निःश्रेयसाधिगमार्थम्= मोक्षप्राप्त्यर्थमुक्तं तत्त्वज्ञानं यथाविद्यम्=प्रतिशास्त्रं भिन्न भिन्नं विज्ञेयमित्याह- तदिदमिति, यथा सांख्ये प्रकृतिपुरुषविवेकज्ञानम् अद्वैतवादेऽअद्वैतज्ञानं मोक्षप्रयोजकम् , किं वोक्तविद्याचतुष्टयमध्ये त्रय्यां कर्मज्ञानमेव तत्त्वज्ञानं तत्तत्फलप्राप्तिश्च स्वर्गादिप्राप्तिरेवात्र नि:श्रेयसाधिगमः, वार्तायां वाणिज्यज्ञानं तत्त्वज्ञानं वाणिज्याद् लाभ एव निःश्रेयसाधिगमः, नीतिशास्त्रे सामदानादिज्ञानमेव तत्त्वज्ञानं तत्फलभूतं राज्यादिरेव निःश्रेयसाधिगम इत्यर्थः / न्यायशास्त्रस्यास्य तत्त्वज्ञानमाह- इहेति, दर्शनशास्त्रत्वात् प्राधान्येन मोक्षसाधनानां प्रतिपादने प्रवृत्तत्वाचेयं न्यायविद्याऽध्यात्मविद्या तदत्रात्मादितत्त्वस्यज्ञानमेव तत्त्वज्ञानम् अपवर्गप्राप्तिश्च निःश्रेयसाधिगमः, आत्मानमधिकृत्य प्रवृत्ता विद्याऽध्यात्मविद्येत्युच्यते / तत्त्वज्ञानादनन्तरमपवर्गप्राप्तिकालं जिज्ञासतेतदिति, उत्तरमाह- नेति, तत्त्वज्ञानानन्तरमेव मोक्षो भवतीति नियमो नास्तीत्यर्थः / पुनर्जिज्ञासते