________________ पदार्थोद्देशः] न्यायभाष्यम्। _ निर्णयः= तत्त्वज्ञानं प्रमाणानां फलं तदवसानो वादस्तस्य पालनार्थ जल्पवितण्डे / तावेतौ तर्कनिर्णयौ लोकयात्रां वहत इति / सोयं निर्णयः प्रमेयान्तर्भूत एवमर्थ पृथगुद्दिष्ट इति / वादः खलु नानाप्रवक्तृकः प्रत्यधिकरणसाधनोऽन्यतराधिकरणनिर्णयावसानो वाक्यसमहः पृथगुद्दिष्ट उपलक्षणार्थम्- उपलक्षितेन व्यवहारस्तत्त्वज्ञानाय भवतीति / तद्विशेषौ जल्पवितण्डे तत्त्वाध्यवसायसंरक्षणार्थमित्युक्तम् / निग्रहस्थानेभ्यः पृथगुद्दिष्टा हेत्वाभासा वादे चोदनीया भविष्यन्तीति. जल्पवितण्डयोस्तु निग्रहस्थानानीति / छलजातिनिग्रहस्थानानां पृथगुपदेश उपलक्षणार्थ इति. उपलक्षिनाय स्थापनाय परपक्षस्य चोपालम्भाय= खण्डनाय समर्थो भवतीति एवमर्थम्= साधकत्वबाधकत्वाभ्यां प्राधान्यात् प्रमेयापेक्षया पृथगुच्यते इत्यन्वयः / . निर्णयस्वरूपमाह-निर्णय इति, वादविषयीभूतस्य पदाथर्य तत्त्वज्ञानम् यथार्थ ज्ञानमेव निर्णयः स च प्रमाणानां फलम्-निर्णयार्थमेव प्रमाणप्रवृत्तेः, तदवसानः= निर्णयावसानो वादः- निर्णये जाते वादसमाप्तिदर्शनात् , तस्यवादस्य पालनार्थम् वृद्धयर्थं जल्पविण्डे किं वा तस्य-निर्णयस्य पालनार्थम्= रक्षार्थ जल्पवितण्ड़े तथा च जल्पवितण्डाभ्यां सिद्धान्तबाधको हेतुर्निवार्यते / तर्कनिर्णययोः फलमाह- तावति, तर्कनिर्णयाभ्यामेव लोकयात्रा लोकप्रवृत्तिर्जायते इति स्पष्टमेव / उपसंहरति-सोयमिति, सोयं प्रमेयान्तर्भूतोपि निर्णय एवमर्थम्= लोकयात्रानिर्वाहकत्वेन वा प्रमाणफलत्वेन वा प्रधान्यात् प्रमेयापेक्षया पृथगुक्त इत्यन्वयः / . वादस्वरूपमाह- वाद इति, नानाप्रवक्तृकः- अनेकप्रवक्तृकः= वादिप्रतिवादिभ्यां प्रवृत्तः प्रत्यधिकरणसाधनः स्वस्वसिद्धान्तसाधकः अन्यतराधिकरणनिर्णयावसानः= द्वयोः सिद्धान्तयोर्मध्येऽन्यतरस्य= एकतरस्याऽधिकरणस्य= सिद्धान्तस्य निर्णयेऽवसानम्= समाप्तिर्यस्य किं वाऽन्यतराधिकरणनिर्णयस्यावसानं यत्र सोन्यतराधिकरणनिर्णयावसानः- अन्यतरसिद्धान्तस्थापक इतियावत् एतादृशो वाक्यसमूह एव वाद इत्युच्यते / अधिक्रियते इत्यधिकरणं साध्यम्= सिद्धान्तः / वादस्य प्रमेयात् पृथगुक्तिकारणमाहपृथगिति, उपलक्षणार्थम्= स्वरूपज्ञानार्थम् / तत्त्वसाधकत्वेन प्राधान्यादपि पृथगुक्तः / वादोपलक्षणफलमाह- उपलक्षितेनेति, उपलक्षितेन= ज्ञातेन वादेन यो व्यवहारः स तत्त्वज्ञानाय भवति. वादस्वरूपं ज्ञात्वा या वादे प्रवृत्तिस्तया तत्त्वज्ञानम्- निर्णयो जायते नाऽन्यथेत्यर्थः / जल्पवितण्डकोः स्वरूपमाह- तद्विशेषाविति, तद्विशेषौ वादविशेषौ, तत्र जल्पेऽन्यतरनिर्णयावसानं न संभवतीत्ययमेव वादाद् भेदः अत्र “अन्यतरनिर्णयावसानत्वेन जल्पाद् भेदो वादस्य " इति तात्पर्यटीका, स्वपक्षस्थापनाहीनो वाद एव वितण्डेत्युच्यते / ते च जल्पवितण्डे तत्त्वाध्यवसायस्य= तत्त्वज्ञानस्य संरक्षणार्थमित्युक्तमेव पूर्वम-" तस्य पालनार्थ जल्पवितण्डे " इति / __ हेत्वाभासादीनां वक्ष्यमाणत्वाद् गौरवाञ्च स्वरूपनिरूपणं परित्यज्य प्रयोजनमात्रमाह-निग्रहेति, हेतुवदाभासन्ते इति हेत्वाभासाः सव्यभिचारादयो यथा वन्ह्यनुमाने पाषाणवत्त्वादयस्तत्र पराजयकारणत्वाद् हेत्वाभासा निग्रहस्थानेष्वन्तर्भूता एव अथापि वादे चोदनीया भविष्यन्ति= निर्दिष्टा भवन्ति= वादेऽप्रयोज्यानामपि हेत्वाभासानां भ्रान्त्या प्रयोगो भवतीत्येतदर्थमेव हेत्वाभासा निग्रहस्थानेभ्यः पृथगुद्दिष्टाः सूत्रकृता. वस्तुतस्तु स्वविद्याभेदज्ञापनार्थमेव पृथगुद्दिष्टास्तथा च वार्तिकम्"एतदेव तु न्याय्यं पृथगुपदेशप्रयोजनं विद्याप्रस्थानभेदज्ञापनार्थत्वादिति" इति / किं वा वादे प्रयुक्ता हेत्वाभासा हेत्वाभासत्वेन प्रदर्शनीया येन प्रतिवादिनः साध्यसिद्धिर्न स्यादित्याशयो वर्णनीयः / निग्रहस्थानानां प्रयोजनमाह- जल्पेति, निग्रहस्य पराजयस्य स्थानानि= कारणानीति निग्रहस्थानानि प्रतिशाहान्यादीनि वक्ष्यमाणानि तानि जल्पवितण्डयोश्चोदनीयानि प्रयोज्यानि भविष्यन्तीत्यन्वयः, जल्प