________________ प्रसन्नपदापरिभूषितम्- [1 अध्याये. १आह्निकेतर्को न प्रमाणसंगृहीतो न प्रमाणान्तरं प्रमाणानामनुग्राहकस्तत्त्वज्ञानाय कल्पते, तस्योदाहरणम्- किमिदं जन्म कृतकेन हेतुना निर्वय॑ते ? आहोस्विदऽकृतकेन ? अथाऽऽकस्मिकम् ? इति, एवमविज्ञातेऽर्थे कारणोपपत्त्या ऊहः प्रवर्तते- यदि कृतकेन हेतुना निर्वय॑ते ? ततो हेतूच्छेदादुपपन्नोयं जन्मोच्छेदः, अथाऽकृतकेन हेतुना ? ततो हेतूच्छेदस्याऽशक्यत्वादनुपपन्नो जन्मोच्छेदः, अथाऽऽकस्मिकम् ? ततोऽकस्माद् निर्वय॑मानं न पुनर्निवय॑तीति निवृत्तिकारणं नोपपद्यते तेन जन्मानुच्छेद इति / एतस्मिन् तर्कविषये कर्मनिमित्तं जन्मेति प्रमाणानि प्रवर्तमानानि तर्केणानुगृह्यन्ते, तत्त्वज्ञानविषयस्य विभागात् तत्त्वज्ञानाय कल्पते तर्क इति / सोयमित्यम्भूतस्ततः प्रमाणसहितो वादे साधनाय उपालम्भाय चार्थस्य भवतीत्येवमर्थ पृथगुच्यते प्रमेयान्तर्भूतोऽपीति / ___ तर्कस्वरूपमाह- तर्क इति, तर्को न प्रमाणसंगृहीतः= प्रत्यक्षादिप्रमाणेष्वन्तर्भूतो न वा प्रमाणान्तरम् प्रत्यक्षादिप्रमाणातिरिक्तप्रमाणभूतः किं तु प्रमाणानामनुप्राहकः= सहायकस्तत्त्वज्ञानाय कल्पते= प्रमाणैस्तत्त्वज्ञाने जननीये सहकारी भवति / उदाहरति-तस्येति, तस्य= तर्कस्य, जन्म= शरीरसंबन्धः, कृतकेन= अनित्येन हेतुना कर्मणा निवर्त्यते= संपद्यते, अकृतकेन= नित्येन हेतुना वा सपद्यते, आकस्मिकम्= अहेतुकं वा जन्मेति त्रिधा विकल्प्य तर्कप्राप्तिमाह- एवमिति, एवम्= उक्तरीत्या बहुधा विकल्पसंभवात् अर्थे= जन्मकारणस्वरूपे अविज्ञाते= अनिश्चिते सति कारणोपपत्त्या= कारणोपपादनपूर्वकं किं वा प्रयोजनेन उहः= तर्कः प्रवर्तते / प्रथमकल्पे तर्कमाह- यदीति, यदि कृतकेन= अनित्येन हेतुना जन्म संपद्यते तदा हेतूच्छेदात्= अनित्यस्योच्छेदसंभवेन हेतोः= जन्मकारणस्याप्यनित्यस्योच्छेदात् तत्कार्यस्य जन्मनोप्युच्छेदः उपपन्नो जन्मोच्छेदे च मोक्षसंभवः, कारणविनाशे कार्यविनाशस्य संभवात् / द्वितीयकल्पे तर्कमाह- अथेति, यद्यऽकृतकेन= नित्येन हेतुना जन्म संपद्यते तदा नित्यस्य जन्महेतोरच्छेदासंभवात् तत्कार्यस्य जन्मनोप्युच्छेदोऽनुपपन्नः- कारणोच्छेदं विना कार्योच्छेदासभवात् तथा च मोक्षासंभवः / तृतीयकल्पे तर्कमाह- अथेति, यदि आकस्मिकम्= अहेतुकं जन्म तदाऽकस्मात्= हेतुं विनैव संपद्यमानं जन्म न निवर्त्यतिन निवृत्तो भविष्यति इति= यतो निवृत्तिकारणं नोपपद्यते यतः कारणनिवृत्त्यैव कार्यनिवृत्तिः संभवति अत्र च पक्षे जन्मनो निहेतुकत्वस्वीकारेण कारणमेव नास्ति येन तदुच्छेदात् जन्मोच्छेदः स्यादिति जन्मानुच्छेदः प्राप्तः / तेन= जन्मकारणस्याभावाजन्मकारणनिवृत्तेरसंभवेन / तत्रं " आत्मा वा अरे प्रष्टव्यः" इत्यादिश्रुतिभिमोक्षसाधनविधानादस्ति मोक्षः स च जन्मोच्छेद विना न संभवतीति जन्मानुच्छेदप्रापको द्वितीयतृतीयकल्पौ न युक्तौ, किं च भावस्य कार्यस्य सर्वत्र विनाशित्वं दृष्टमिति संसाररूपकार्यस्यापि विनाशित्वमावश्यकमेव, किं च सृष्टिवैषम्यात् संसारस्य कर्मजन्यत्वं सिध्यति कर्म चानित्यमेव अतिरप्याह-"क्षीणे पुण्ये मर्त्यलोकं विशन्ति " इति, तथा च कारणीभूतकर्मणामुच्छेदेन जन्मोच्छेद उपपन्न इति प्रथम एव कल्पस्तकेंणोपपद्यते इत्याशयः / पर्यवसितमाह- एतस्मिन्निति, एतस्मिन्= उक्ते तर्कविषये= तर्कोदाहरणे कर्मनिमित्तम्= कर्मजन्यं जन्मेति प्रवर्तमानानि= प्रतिपादयन्ति प्रमाणानि तणानुगृह्यन्ते / प्रमाणानि चात्र " तद् यथेह कर्मचितोलोकः क्षीयते" "कपूयचरणाः कपूयां योनिमापोरन् " " रमणीयचरणा रमणीयां योनिमापद्येरन् " इत्यादीनि. तानि च 'जन्मनो जन्यत्वाद् विनाशित्वम् ' इत्यादितणानुगृह्यन्ते / अनुग्रहश्च प्रमाणप्रतिपाद्यार्थस्य समर्थनम् / तर्कापेक्षाकारणमाह- तत्त्वज्ञानेति, तत्त्वज्ञानविषयस्य= तत्त्वस्य विभागात् अनेकत्त्वात् दर्शनभेदेन भेदात तकै विना तत्त्वनिश्चयासंभवेन तर्कस्तत्त्वज्ञानाय कल्पते= तत्त्वज्ञानजनको भवति / तत्त्वनिर्णयस्य कर्तव्यत्वे हि तत्वनानात्वं हेतुः / उपसंहरति- सोयमिति, सोयमित्थम्भूतः= उक्तस्वरूपस्तों ज्ञानरूपत्वेन प्रमेयान्तर्भूतोपि प्रमाणसहितः-प्रमाणसहकृतो वादेऽर्थस्य= स्वपक्षस्य साध.