________________ पदार्थोद्देशः] न्यायभाष्यम् / 'अस्त्ययम्' इत्यनुज्ञायमानोऽर्थः सिद्धान्तः. स च प्रमेयं तस्य पृथग् वचनं सत्सु सिद्धान्तभेदेषु वादजल्पवितण्डाः प्रवर्तन्ते नाऽतोन्यथेति / साधनीयार्थस्य यावति शब्दसमूहे सिद्धिः परिसमाप्यते तस्य पश्चाऽवयवाः प्रतिज्ञादयः समूहमपेक्ष्य अवयवा उच्यन्ते, तेषु प्रमाणसमवाय आगमः प्रतिज्ञा, हेतुरनुमानम्, उदाहरणं प्रत्यक्षम् , उपनय उपमानम्, सर्वेषामेकार्थसमवाये सामर्थ्यप्रदर्शनं निगमनमिति, सोयं परमो न्याय इति, एतेन वादजल्पवितण्डाः प्रवर्तन्ते नातोऽन्यथेति. तदाश्रया च तत्त्वव्यवस्था, ते चैते अवयवाः शब्दविशेषाः सन्तः प्रमेयेऽन्तर्भूता एवमर्थं पृथगुच्यन्ते इति / सिद्धान्तस्वरूपमाह- अस्तीति, 'अयमेवमस्ति' यथाऽऽत्मा नित्य इत्येवमनुज्ञायमानः= स्वीक्रियमाणः किं वा प्रतिपाद्यमानः पदार्थः सिद्धान्तो यथात्मनित्यत्वम् / सः= सिद्धान्तः प्रमेयमेव प्रमेयात् तस्य सिद्धान्तस्य पृथग्वचनं तु सत्सु सिद्धान्तभेदेषु वादजल्पवितण्डाः प्रवर्तन्ते यथैकस्य शब्दनित्यत्वं सिद्धान्तः परस्य च शब्दानित्यत्वं सिद्धान्त इति सिद्धान्तभेदाद् द्वयोर्वादजल्पवितण्डाः प्रवर्तन्ते अत:सिद्धान्तभेदाद् अन्यथा सिद्धान्ताभेदे न प्रवर्तन्ते इति वादजल्पवितण्डानां प्रवर्तकत्वेन प्राधान्यात सिद्धान्तः प्रमेयात् पृथगुक्त इत्यन्वयः / __ अवयवस्वरूपमाह- साधनीयार्थस्येति, साध्यस्याऽर्थस्य सिद्धान्तस्य यावति यत्परिमाणके शब्दसमूहे वाक्ये सिद्धिः= प्रतिपादनं परिसमाप्यते= निष्पद्यते तस्य= वाक्यस्य पञ्चसंख्याका ये प्रतिज्ञादया प्रतिज्ञाहेतु दृष्टान्तोपनयनिगमनाख्या भागास्तेऽवयवा इत्युच्यन्ते. तेषां प्रतिज्ञाद्यवयवानां यदवयवत्वं तत् समूहम् उक्तशब्दसमूहमपेक्ष्यैव विज्ञेयं शब्दसमूहमनमेक्ष्य तु प्रतिज्ञादीनां तत्तदेकैकार्थप्रतिपादकत्वान्नाऽवयवत्वमुपपद्यते / प्रतिज्ञादीनां स्वरूपमाह- तेष्विति, तेषु= पञ्चस्वऽवयवेषु मध्ये प्रमाणसमवायः प्रमाणसंबन्धी प्रमाणैर्हेत्वादिभिरुपपाद्यमान आगमः- शब्दसमूहः प्रतिज्ञा यथा-' पर्वतो वन्हिमान ' इति, अत्र प्रतिज्ञावाक्यार्थस्य हेत्वादिभिरुपपाद्यमानत्वेन प्रतिज्ञावाक्यस्यापि उपपाद्यमानत्वमभ्युगम्योक्तम्-" प्रमाणसमवायः" इति / हेतुस्वरूपमाह-हेतुरिति, अनुमीयतेऽनेनेत्यनुमानं हेतु:-हेतुनैवानुमी. यमानत्वात् यथा-'धूमात्' इति, यद्यपिधूमज्ञानमेव हेतुस्तथापि धूमज्ञानजनकत्वात् 'धूमात्' इतिशब्दोपि हेतुः, अत्र धूमशब्दस्य धूमज्ञाने पञ्चम्याश्च ज्ञाप्यत्वे लक्षणेति 'धूमज्ञानज्ञाप्यो वन्हिः' इत्यर्थः / उदाहरणस्वरूपमाह- उदाहरणमिति, साध्यसाधनयोः साहचर्यविशिष्टः प्रत्यक्षीकृतः पदार्थ उदाहरणम्= दृष्टान्तो यथा-'महानसवत्' इति / उपनयस्वरूपमाह- उपनय इति, उपमानम्= दृष्टान्तसादृश्यमुपनयो यथा'योयो धमवान् स स वन्हिमान् यथा महानसस्तथा चायं पर्वतः' इत्युपनयवाक्येन दृष्टान्तसादृश्य'मेव प्रतिपाद्यते इत्युपमानमेवोपनयः, 'तथा चायम् ' इत्यस्योपनयस्य 'महानसवद् वन्हिव्याप्यधूमवांश्चायं पर्वतः' इत्यर्थः / निगमनस्वरूपमाह- सर्वेषामिति, सर्वेषाम् = प्रतिज्ञाहेतुदृष्टान्तोपनयानाम् एकार्थसमवाये साध्यसंबन्धे= साध्यसाधने सामर्थ्यप्रदर्शनम्= शक्तिप्रदर्शनम्= उपसंहारो निगमनं यथा 'तस्मात् तथा' इति 'वन्हिव्याप्यधूमवत्त्वात् वन्हिमान् / इत्यर्थः / उपसंहरति- सोयमिति, सोयम् पञ्चावयवात्मकः परमो न्यायः= अनुमानप्रयोगः, त्रिभिरप्यवयवैः साध्यसिद्धिसंभवेपि पञ्चभ्योऽवयवेभ्योधिकस्थावयवस्यापेक्षा न जायते इति पञ्चावयवात्मकन्यायस्य परमत्वम् / उक्तावयवात्मकन्यायस्य प्रयोजनमाह- एतेनेति, अतः= न्यायात् अन्यथा न्यायाभावे वादजल्पवितण्डा न प्रवर्तन्ते- एकेनोक्तावयवैः किंचित् साध्यमाने परस्य च तत्र विप्रतिपत्तौ वादजल्पवितण्डानां प्रवृत्तिसंभवात् / तत्त्वव्यवस्था चापि तदाश्रया न्यायाधीनेति अवयवसमूहात्मकन्यायस्य प्राधान्यं प्राप्तं तेन तवयवानां एथग्वचनमावश्यकमेवेत्यर्थः / अवयवानां प्रमेयापेक्षया पृथग्वचनस्य कारणमाह-ते चेति, एवमर्थम्= तत्त्वव्यवस्थापकत्वेन बादजस्पवितण्डाप्रवर्तकत्वेन च प्राधान्यादेवाऽवयवाः प्रमेयात् पृथगुच्यन्ते इत्यन्वयः / अवयवानां शब्द• स्वरूपत्वं शब्दस्य च प्रमेयत्वं प्रसिद्धमेव /