________________ प्रसन्नपदापरिभूषितम्- [1 अध्याये. १आह्निकेअथ दृष्टान्तः प्रत्यक्षविषयोऽर्थः= यत्र लौकिकपरीक्षकाणां दर्शनं न व्याहन्यते, स च प्रमेयम् तस्य पृथग् वचनं च तदाश्रयावनुमानागमौ तस्मिन् सति स्यातामनुमानागमौ असति च न स्याताम् तदाश्रया च न्यायप्रवृत्तिः। दृष्टान्तविरोधेन च परपक्षप्रतिषेधो वचनीयो भवति. दृष्टान्तसमाधिना च स्वपक्षः साधनीयो भवति। नास्तिकश्च दृष्टान्तमभ्युपगच्छन् नास्तिकत्वं जहाति अनभ्युपगच्छन् किंसाधनः परमुपालभेत ? निरुक्तेन च दृष्टान्तेन शक्यमभिधातुम् / " साध्यसाधात् तद्धर्मभावी दृष्टान्तः= उदाहरणम् 1-1-36" "तद्विपर्ययाद् विप रीतम् 1-1-37" इति / भवात् / तथा च वितण्डाया अपि परपक्षखण्डनमात्रेण सप्रयोजनत्वादुक्तं सर्वस्य सप्रयोजनत्वमुपपन्नं तथा च तात्पर्यटीका- "तस्माद् वितण्डापि प्रयोजनवती नाऽव्यापकं प्रयोजनमिति सिद्धम्" इति / "न दूषणमात्रं वितण्डा किं त्वभ्युपेत्य पक्षं यो न स्थापयति स वैतण्डिक उच्यते” इति वार्तिकम् / भाष्यं चेदं पुनरुक्तदोषदुष्टमेवेति विज्ञेयम् / दृष्टान्तलक्षणमाह- अथेति, प्रत्यक्षविषयः प्रत्यक्षीकृतः महानसादिपदार्थों दृष्टान्तः, एवं प्रत्यक्षपदार्थमात्रस्य दृष्टान्तत्वं स्यादित्याशझ्याह-योति, दर्शनम् प्रत्यक्षादिज्ञानं यत्र न व्याहन्यते न व्यभिचरति, महानसे वह्निधूमयोः साहचर्यदर्शनस्य व्यभिचारो न भवतीति वन्ह्यनुमिता महानसो दृष्टान्त एवमन्यत्रापि दृष्टान्तो विज्ञेयः / सः= दृष्टान्तोपि / तस्य= दृष्टान्तस्य प्रमेयापेक्षया पृथगवचनस्य प्रयोजनमाह-तस्येति, तदाश्रयौ- दृष्टान्ताधीनावनुमानागमो प्रवर्तेते इति दृष्टान्तस्यापि प्राधान्यात प्रमेयापेक्षया पृथग्वचनम् / अनुमानागमयोदृष्टान्ताधीनत्वेऽन्वयव्याप्तिमाह- तस्मिन्निति, तस्मिन्= दृष्टान्ते / व्यतिरेकव्याप्तिमाह-असतीति / उपसंहरति- तदाश्रयेति, न्यायप्रवृत्तिः= पञ्चावयवात्मकानुमानप्रवृत्तिरपि तदाश्रया दृष्टान्ताधीनेति प्राधान्यात दृष्टान्तस्य पृथगवचनमित्यर्थः / दृष्टान्तप्रयोजनमाह- दृष्टान्तेति, दृष्टान्तविरोधेन परपक्षप्रतिषेधो वचनीयो भवति= परपक्षः प्रतिषेध्यो भवति यथा यदि वन्ह्यनुमाने परेण जलहृदो दृष्टान्तः प्रदर्शितस्तदा अल हदे वन्यभावस्य सर्वप्रसिद्धत्वात् पर्वतेपि परपक्षस्य वह्निसत्त्वस्य प्रतिषेधो वक्तव्य:- जल हददृष्टान्तेन वन्ह्यभाव एव प्राप्त इति / दृष्टान्तसमाधिना= दृष्टान्तानुकूल्येन च स्वपक्षः साधनीयः= महानसलक्षणदृष्टान्तस्यानुकूल्येन स्वपक्षः वह्निसत्त्वं साध्यते इति स्वपक्षसाधनं परपक्षप्रतिषेधश्च दृष्टान्तप्रयोजनं सिद्धम् / किंचिदप्रकृतमाह- नास्तिक इति, नास्तिकः= क्षणिकपदार्थवादी स यदि दृष्टान्तं स्वीकरोति प्रदर्शयति वा तदा वन्यनुमानकाले पूर्वदृष्टस्य महानसस्य तेन सत्ता स्वीकार्या-असतो दृष्टान्तत्वानुपपन्चेस्तथाच महानसस्य स्थिरत्वस्वीकारापत्त्या नास्तिकत्वानुपपत्तिः क्षणभङ्गवादानुपपत्तिः प्राप्ता अनभ्युपगच्छन्= यदि क्षणिकत्वेन पूर्वदृष्टस्यानुमानकाले सस्वानुपपत्त्या दृष्टान्तं न स्वीकरोति तदा किंसाधनः साधनहीनः कथं परम्= प्रतिवादिनमुपालभेत प्रतिवादिमतखण्डनं स्वपक्षसाधनं च कथं कुर्यात् ? उभयोरपि दृष्टान्ताधीनत्वादित्यर्थः / उक्त हेतुमाह-निरुक्तेनेति, उक्तेन विद्यमानेनैव दृष्टान्तेन शक्यमभिधातुम्= प्रतिपादयितुं शक्यत्वात् तथा च नास्तिकेन क्षणिकत्वानुरोधेन विद्यमानदृष्टान्तास्वीकारेण किमपि साधयितुं न शक्यते इत्यर्थः / साधर्म्यदृष्टान्तनिरूपकसूत्रमाह- साध्यसाधादिति, साध्यसाधात् साध्यभूतवन्हिविशिष्टपर्वतसादृश्यात् तद्धर्मभावी= वन्हिधूमसाहचर्यविशिष्टो महानसादिदृष्टान्त एवोदाहरणम्. तदनेन दृष्टान्तानुकूल्यात् स्वपक्षसाधनमुक्तम् / वैधर्म्यदृष्टान्तनिरूपकसूत्रमाह- तद्विपर्ययादिति, तद्विपर्ययात्= साध्यसाधर्म्यविपर्ययात= साध्यवैधात् विपरीतम्= वैधर्म्यदृष्टान्तो भवति यथा वन्यनुमाने हदो व्यतिरेकी दृष्टान्तस्तदनेन दृष्टान्तप्रातिकूल्यात् परपक्षखण्डनं सूचितम् /