________________ पदार्थोद्देशः] न्यायभाष्यम् / तत्र वादजल्पौ सप्रयोजनौ वितण्डा तु परीक्ष्यते-वितण्डया प्रवर्तमानो वैतण्डिकः स प्रयोजनमनुयुक्तो यदि प्रतिपद्यते ? सोऽस्य पक्षः सोऽस्य सिद्धान्त इति वैतण्डिकत्वं जहाति. अथ न प्रतिपद्यते ? नायं लौकिको न परीक्षक इत्यापद्यते, अथापि परपक्षप्रतिषेधज्ञापन प्रयोजनं ब्रवीति ? एतदपि तादृगेव / यो ज्ञापयति यो जानाति येन ज्ञाप्यते एतच्च प्रतिपद्यते यदि ? तदा वैतण्डिकत्वं जहाति. अथ न प्रतिपद्यते ? 'परपक्षप्रतिषेधज्ञापनं प्रयोजनम्' इत्येतदस्य वाक्यमनर्थकं भवति / वाक्यसमूहश्च स्थापनाहीनो वितण्डा तस्य यद्यभिधेयं प्रतिपद्यते ? सोऽस्य पक्षः स्थापनीयो भवति. अथ न प्रतिपद्यते ? प्रलापमात्रमनथेकं भवति वितण्डात्वं निवर्तते इति / तदेवाऽन्वीक्षेत्युच्यते / अन्वीक्षापदार्थमाह- प्रत्यक्षेति, ईक्षितस्य= ज्ञातस्य अनु= पश्चाद् ईक्षणम् अन्वीक्षा तया= अन्वीक्षया अनुमानेन प्रवर्तते इत्यान्वीक्षिकी न्यायविद्या-अनुमानप्रधानत्वात् / प्रत्यक्षागमाभ्यां विरोधे चानुमानस्यानुमानाभासत्वमाह- यदिति, तत्र 'जलव्हदो वन्हिमान आधारत्वात्' इत्यनुमानं प्रत्यक्षविरोधादनुमानाभासः, 'नरशिरःकपालं शुचि प्राण्यङ्गत्वात् शङ्खवत्' इत्यनुमानमाऽऽगमविरोधादनुमानाभासः- आगमेन नरशिरःकपालादीनामशुचित्वप्रतिपादनात् / / __ "तेनाऽनेन" इत्यादिना सर्वस्य सप्रयोजनत्वमुक्तं तत्र वादजल्पौ तु सप्रयोजनाविति प्रसिद्धमेव-निर्णयजनकत्वात्. वितण्डा तु न निर्णयजनिकेति परीक्ष्यते- सप्रयोजना वा निष्प्रयोजना वेत्याहतत्रेति / तथा च वार्तिकम्- "वितण्डा तु परीक्ष्यते सप्रयोजना निष्प्रयोजना वेति, एके तावद् वर्णयन्ति-निष्पयोजना दूषणमात्रत्वात्" इति / वैतण्डिकशब्दस्य व्युत्पत्तिमाह-वितण्डयेति / सः वैतण्डिः कप्रयोजनमनुयुक्तः= 'किं तेऽत्र प्रयोजनम्' इति पृष्टः सन् यदि प्रतिपद्यते= स्वप्रयोजनं स्वीकरोति-अस्य खण्डनं मे प्रयोजनं किं वास्य मण्डनं मे प्रयोजनमिति तदा स एवास्य= वैतण्डिकस्य पक्षः स एव च सिद्धान्त इति वैतण्डिकत्वं जहाति- स्वपक्षस्थापनाहीनस्य वैतण्डिकत्वेन स्वपक्षस्वीकारे वैतण्डिकत्वानुपपत्तेः / अथ न प्रतिपद्यते= यदि वैतण्डिकः स्वप्रयोजनं न स्वीकरोति तदाऽयं वैतण्डिको न लौकिकः= लोकव्यवहारज्ञः नापि परीक्षक:= शास्त्रज्ञः किं तून्मत्त एवेत्यापद्यते= प्राप्नोति- उन्मत्तस्यैव निष्प्रयोजनप्रवृत्तिसंभवादित्यन्वयः / अथेति- यदि वैतण्डिकः परपक्षप्रतिषेधज्ञापनम् परपक्षखण्डनमेव स्वप्रयोजनं वदति तदैतदपि तागेव= एवं हि परपक्षखण्डनमेव तस्य सिद्धान्त इति वैतण्डिकत्वानुपपत्तिस्तदवस्थैवनहि कस्यचित् स्थापनमेव सिद्धान्त इति नियमोस्तीत्यर्थः / उक्तमेव विशदयति- य इत्यादिना, यः यद् ज्ञापयति यः यत् जानाति येन च प्रमाणेन ज्ञाप्यते एतत् प्रमाणप्रमेयादिकं यदि वैतण्डिकः प्रतिपद्यतेस्वीकरोति तदा कस्यचित् प्रमाणप्रमेयादिसिद्धान्तस्य स्वीकाराद् वैतण्डिकत्वं जहाति. अथ= यदि न प्रतिपद्यतेन स्वीकरोति तदास्य= वैतण्डिकस्य “परपक्षप्रतिषेधज्ञापनं मे प्रयोजनम्" इत्येतदुक्तं वाक्यमनर्थकं भवति- यद् ज्ञापयति येन च ज्ञाप्यते तयोरस्वीकारे परपक्षखण्डनस्याप्यसंभवात् , परपक्षखण्डनस्यापि स्वरूपस्वीकारप्रमाणाद्यधीनत्वात् / वितण्डालक्षणमाह-वाक्येति, स्थापनाहीनो वाक्यसमूह एव वितण्डेत्युच्यते तत्र तस्य= स्वोक्तवाक्यसमूहस्य यदि अभिधेयम्= प्रतिपाद्याथै प्रतिपद्यते स्वीकरोति तदा सः= तादृशवाक्यार्थ एवास्य= वैतण्डिकस्य पक्षो भवति पक्षत्वाच्च स्थापनीयो भवति तथा चायं वैतण्डिकत्वरहितो भवति- स्थापनाहीनस्यैव वैतण्डिकत्वसंभवात्, अथ स्वोक्तवाक्यस्याथै न स्वीकरोति तदा तत् प्रलापमात्रम्= उन्मत्तभाषितमेव भवतीति तदुक्तवाक्यस्य वितण्डात्वं नोपपद्यते इत्युभयतः पाशारज्जुः, तदनेन वितण्डाया अनुपपत्तिरेव प्रदर्शिता वस्तुतस्तु स्वपक्षस्थापनाहीनत्वेपि परपक्षखण्डनमात्रमेव वितण्डायाः प्रयोजनं वादजल्पाभ्यां वैलक्षण्यं चेति न वितण्डायाः स्वरूपप्रयोजनयोरनुपपत्तिर्न वा परपक्षखण्डनमात्रेण वैतण्डिकत्वानुपपत्तिः- स्वपक्षस्थापनेनैव वैतण्डिकत्वहानिसं