________________ प्रसन्नपदापरिभूषितम्- [1 अध्याये. १आह्निकेतत्र नाऽनुपलब्धे न निर्णीतेऽर्थे न्यायः प्रवर्तते / किं तर्हि ? संशयितेऽर्थे, यथोक्तम्"विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः 1-1-41" इति विमर्शः= संशयः पक्षप्रति पक्षौ= न्यायप्रवृत्तिः अर्थावधारणम्= निर्णयः= तत्त्वज्ञानमिति / स चायम् ‘किं स्वित्' इति वस्तुविमर्षमात्रमनवधारणं ज्ञानं संशयः प्रमेयेऽन्तर्भवन् एवमर्थ पृथगुच्यते। ___ अथ प्रयोजनम्- येन प्रयुक्तः प्रवर्तते तत् प्रयोजनम्. यमर्थमभीप्सन् जिहासन् वा कारभते. तेनानेन सर्वे पाणिनः सर्वाणि कर्माणि सर्वाश्च विद्या व्याप्ताः तदाश्रयश्च न्यायः प्रवर्तते / कः पुनरयं न्यायः ?, प्रमाणैरर्थपरीक्षणं न्यायः। प्रत्यक्षागमाश्रितम् अनुमानं साऽन्वीक्षा प्रत्यक्षागमाभ्यामीक्षितस्यान्वीक्षणमन्वीक्षा तया प्रवर्तते इत्यान्वीक्षिकी न्यायविद्या न्यायशास्त्रम् / यत् पुनरनुमानं प्रत्यक्षागमविरुद्धं न्यायाभासः स इति / कार्यत्वादेव प्रमाणप्रमेयाभ्यां पृथक् संशयादिभिः पदाथैः प्रस्थाप्यते= निरूप्यते न्यायविद्या, किं वेयं न्यायविद्या संशयादिभिः= संशयादिपदार्थनिरूपणेन वेदान्तविद्यातः पृथक् प्रस्थाप्यते= विभज्यते= पृथक्रियते- वेदान्ते संशयादीनां निरूपणाभावादित्यर्थः / अन्वीक्ष्यन्ते= विचार्यन्ते विषया अस्या मित्यान्वीक्षिकी न्यायविद्या- तर्कप्रधानत्वात प्रमेयापेक्षया संशयादीनां पृथग्वचनस्य प्रयोजनं वक्तुमारभते-तत्रेति, अनुपलब्धे=सर्वथाऽज्ञातेपि पदाथें न्यायः= प्रतिज्ञाद्यवयवसमुदायः विचारो न प्रर्वतते-सर्वथाऽज्ञातविषयकविचारस्यासंभवात् नापि निर्णीते पदार्थे विचारः प्रवर्तते-विचारफलस्य निर्णयस्य जातत्वादेव / किं तर्हि ?= क तर्हि विचारः प्रवर्तते ? इत्याशझ्याह-संशयिते इति, सामन्यतो ज्ञाते विशेषतश्चाज्ञाते संशयो भवति तादृशसंशयनिवृत्त्यर्थ संशयिते विचारः प्रवर्तते / उक्त सूत्रं प्रमाणयति-विमृश्येति, पक्षप्रतिपक्षाभ्यां विमृश्य= संशय्य पदार्थावधारणं निर्णयः यथाऽनित्यः शब्दः कृतकत्वाद् नित्यः शब्दोऽभिव्यज्यमानत्वादिति विमृश्य= संशय्य स्वस्वमतेन शब्दे नित्यत्त्वानित्यत्वयोरन्यतरस्यावधारणमेव निर्णय इत्यर्थः, तदनेन सूत्रेण निर्णयस्य संशयपूर्वकत्वमुक्तमिति संशयिते एव विचारः प्रवर्तते इति सिद्धम् / सूत्रमुक्तं व्याचटे-विमर्श इति, विमृश्येत्यत्र धात्वों विमर्शः संशय एव, पक्षप्रतिपक्षाभ्यामित्यस्य न्यायप्रवृत्तिरर्थः, तथा च संशयानन्तरं न्यायप्रवृत्तिस्तया चार्थावधारणं निर्णय इत्याशयः। उपसंहरति- स चेति, स चायं संशयः किंस्वित्= किमिदम्= स्थाणुर्वा पुरुषो वा इत्याकारकं वस्तुविमर्षमात्रम्= सामान्यतो वस्तुस्वरूपमात्रग्रहणम् अनवधारणम्= निश्चयरहितं ज्ञानमेव संशयः स च यद्यपि प्रमेयत्वात् प्रमेयेऽन्तर्भूत एवेति न पृथग् वक्तव्यस्तथापि न्यायप्रवृत्तेः संशयाधीनत्वात् संशयस्य प्राधान्यं प्राप्तमित्येवमर्थम्= प्रधानत्वेन प्रमेयात् पृथगुच्यते संशय इत्यन्वयः / . प्रयोजनस्य प्रमेयात् पृथग्वचनस्य प्रयोजनमाह- अथेति। प्रयोजनलक्षणमाह- येनेति, येन सुखादिना प्रयुक्तः= प्रेरितः सुखादिसाधनोपादाने पुरुषः प्रवर्तते तदेव सुखादिकं प्रयोजनमित्युच्यते / उक्तं विशदयति- यमर्थमिति, यस्यार्थस्य प्राप्तीच्छया त्यागेच्छया वा कारभते तत् प्रयोजनं तत्र सुखप्राप्तिर्दुःखनिवृत्तिश्च यथायथं प्रयोजनं वेदितव्यम्-प्राप्तीच्छाविषयस्य सुखादेः प्रयोजनत्वसंभवेपि त्यागेच्छाविषयस्य त्याज्यस्य दुःखादेः प्रयोजनत्वासंभवात् दुःखादेर्निवृत्तिरेव प्रयोजनम् / तेनाऽनेन= प्रयोजनेन व्याप्ताः= संबद्धाः "प्रयोजनमनुद्दिश्य न मन्दोपि प्रवर्तते" इत्युक्तमेव / तदाश्रयश्च प्रयोजनाधीन एव न्यायः= विचारोपि प्रवर्तते इति विचारफलरूपत्वादेव प्रमेयापेक्षया प्रयोजनं पृथगुक्तमित्यर्थः / न्यायस्वरूपं जिज्ञासते- क इति / उत्तरमाह-प्रमाणैरिति / प्रमाणैः= हेत्वादिभिः / आन्वीक्षिकीशब्दस्यार्थमाह- प्रत्यक्षेति, यदित्यादिः, यत् प्रत्यक्षागमाश्रितम्= प्रत्यक्षशास्त्राभ्यामनुकूलम् अनुमानं