________________ 16 पदार्थोद्देशः] न्यायभाष्यम् / परीतज्ञानार्थमिहोपदेशः, सोयमनवयवेन तन्त्रार्थ उद्दिष्टो वेदितव्यः / आत्मादेः खलु प्रमेयस्य तत्त्वज्ञानाद् निःश्रेयसाधिगमः तच्चैतद् उत्तरसूत्रेणाऽनूद्यते इति / हेयं तस्य निर्वर्तकं हानमात्यन्तिकं तस्योपायोऽधिगन्तव्य इत्येतानि चत्वार्यऽर्थपदानि सम्यग बुद्धा निःश्रेयसमधिगच्छति / ___तत्र संशयादीनां पृथग्वचनमनर्थकम्- संशयादयो यथासंभवं प्रमाणेषु प्रमेयेषु चान्तभवन्तो न व्यतिरिच्यन्ते इति / सत्यमेतत् * इमास्तु चतस्रो विद्याः पृथक्मस्थानाः प्राणभृतामनुग्रहायोपदिश्यन्ते यासां चतुर्थीयमाऽऽन्वीक्षिकी न्यायविद्या तस्याः पृथक्मस्थानाः संशयादयः पदार्थाः तेषां पृथग्वचनमन्तरेणाऽध्यात्मविद्यामाप्रमियं स्याद् यथोपनिषदः तस्मात् संशयादिभिः पदार्थैः पृथक् प्रस्थाप्यते / प्रमाणादीनामिति / तत्त्वस्य ज्ञानं तत्त्वज्ञानं तस्मात्. निःश्रेयसस्याधिगमः निःश्रेयसाधिगम इति च कर्मणि षष्ठीं / ते= एते प्रमाणादयः एतावन्तः= षोडशसंख्याका विद्यमानार्थाः= विद्यमानाश्चाऽर्थाश्चेति विद्यमानार्थाः= सद्रूपाः पदार्था इत्यर्थः / प्रमाणादीनामत्रोपदेशस्य प्रयोजनमाह- एषामिति एषां प्रमाणादीनाम् अविपरीतज्ञानार्थम्= यथार्थज्ञानार्थमिह सूत्रकारेणोपदेशः कृतः / सोयम्= प्रमाणादिसमुदाय अनवयवेन साकल्येन तत्रार्थः न्यायशास्त्रप्रतिपाद्योऽर्थ उद्दिष्टः= उद्देशेन=संज्ञारूपेणोक्तः- प्रमाणादीनां लक्षणपरीक्षणयोर्वक्ष्यमाणत्वादित्यर्थः / ननु “आत्मा वा अरे द्रष्टव्यः" इत्यादिश्रुतिमिरात्मज्ञानमेव मोक्षसाधनमित्युच्यते न तु प्रमाणादिज्ञानमित्याशङ्क्याह- आत्मादेरिति / तचैतत्= मोक्षप्राप्तिप्रकारो मोक्षसाधनं वा / उत्तरसूत्रेण= अग्रिमेण द्वितीयसूत्रेण / अनूद्यते= उच्यते= वक्ष्यते / संक्षेपेण मोक्षप्राप्तिप्रकारमाह- हेयमिति, हेयम्= दुःखं जन्मजरामरणादिदुःखं संसाररूपं हेयमस्ति हेयं च हेयत्वादेव विज्ञेयम्- अज्ञातस्य हानासंभवात् तस्य= हेयस्य निर्वर्तकम् संपादकम्= जनकं अविद्यातृष्णादिकं रागद्वेषादिकं च विज्ञेयं त्यागार्थमेव हेयनिर्वर्तकानां रागद्वेषादीनां हानम्= त्यागप्रकारोपि विज्ञेयः- हानप्रकारविज्ञानाभावे हानासंभवात्, हानस्यात्यन्तिकत्वं च पुनरनुत्पादः रागद्वेषादीनां तादृशः परित्यागः . कर्तव्यो यथा पुनः सबन्धो न स्यादित्यर्थः / तस्य= हानस्योपायः= तत्त्वज्ञानं चाधिगन्तव्यं ज्ञात्वा च संपादनीयम् / उपसंहरति- इत्येतानीति, एतानि उक्तानि चत्वारि= हेयं हेयनिर्वर्तकम्= हेयसाधनं हानं हानसाधनं चैतानि अर्थपदानि= शास्त्रप्रतिपाद्यानि सम्यक् यथार्थरूपेण ज्ञात्वा मोक्षपदं प्राप्नोतीति मोक्षसाधनोपदेशार्थमेव शास्त्रारम्भ इत्यर्थः / ननु पदार्थमात्रस्य यथासंभवं प्रमाणप्रमेययोरन्तर्भावः संभवतीति किमर्थं सूत्रे संशयादिकं पृथगुक्तमित्याशङ्कते- तत्रेति, उक्ते हेतुमाह- संशयादय इति, यथासंभवम्= योग्यतानुसारेण / न व्यतिरिच्यन्ते= प्रमाणप्रमेयाभ्यां न व्यतिरिक्ता भवन्ति / उत्तरमाह- सत्यमिति, यदुक्तं तत् सत्यम् अथापि इमाश्चतस्रो विद्याः= त्रयी वार्ता दण्डनीतिरान्वीक्षिकी चेति पृथक्प्रस्थानाः= पृथक् पृथग्विषयप्रतिपादनपरा जीवानामनुग्रहायोपदिश्यन्ते तत्राग्निहोत्रादिकर्मप्रतिपादिका त्रयी= वेदत्रयी विद्या, हलशकटादिवाणिज्यप्रतिपादिका वार्ता विद्या, राजनीतिप्रतिपादिका दण्डनीतिर्विद्या, प्रमाणादिषोडशपदार्थप्रतिपादिकान्वीक्षिकी न्यायविद्या यासाम्= आसां चतसृणां विद्यानां मध्ये इयमान्वीक्षिकी न्यायविद्या चतुर्थी तस्या न्यायविद्यायाः संशयादयः प्रतिपाद्याः पदार्थाः पृथक्प्रस्थानाः= वार्तादिविद्यात्रयप्रतिपाद्यपदार्थवृन्दापेक्षया स्वरूपवैलक्ष्यण्यविशिष्टाः= पृथगुपपादनयोग्याः सन्तीत्यत्र प्रतिपादनीया एव, तेषां संशयादीनामत्र प्रमाणप्रमेयाभ्यां पृथक् कथनं विना इयं न्यायविद्याऽध्यात्मविद्यामात्रम्= वेदान्तविद्यैव स्याद् यथोपनिषदः, संशयादिप्रतिपादनं परित्यज्य मोक्षसाधनीभूततत्त्वज्ञानमात्रस्यात्र प्रतिपादनेऽस्या न्यायविद्याया वेदान्तविद्यात्वमेव स्यात् तेन च नैरर्थक्यमपि स्यात्- मोक्षसाधनीभूततत्त्वज्ञानमात्रस्य वेदान्तेन प्रतिपादितत्वादेवेत्यर्थः / उपसंहरति- तस्मादिति, तस्मात्= न्यायविद्याया नैरर्थक्यस्य निरा.