________________ प्रसन्नपदापरिभूषितम्- [1 अध्याये. १आह्निकेकथमुत्तरस्य प्रमाणेनोपलब्धिः ? सत्युपलभ्यमाने तद्वदनुपलब्धेः प्रदीपवत् / - यथा दर्शकेन दीपेन दृश्ये गृह्यमाणे तदिव यन्न गृह्यते तन्नास्ति. यद्यऽभविष्यद् इदमिव व्यज्ञास्यत विज्ञानाभावाद् नास्तीति. तदेवं सतः प्रकाशकं प्रमाणमसदपि प्रकाशयतीति / सच्च खलु षोडशधा व्यूढमुपदेक्ष्यते // तासां खल्वासां सद्विधानाम्प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धाताऽवयवर्तकनिर्णयवादजल्पवितण्डाहेत्वाभासच्छैलजातिनिहस्थानानां तत्त्वज्ञानाद् निःश्रेयसाधिगमः // 1 // निर्देशे यथावचनं विग्रहः, चार्थे द्वन्द्वसमासः, प्रमाणादीनां तत्त्वमिति शैषिकी षष्ठी, तत्त्वस्य ज्ञानं निःश्रेयसस्याधिगम इति कर्मणि षष्ठयौ, ते एतावन्तो विद्यमानार्थाः, एषामवि ननूत्तरस्य= असतः कथं प्रमाणेनोपलब्धिः स्यात्-प्रमाणानामसत्पदार्थग्राहकत्वाभावात् प्रमाणेरग्रहणे चासतोऽसत्त्वं तत्त्वमिति निरूपणासंभवादित्याशङ्कते- कथमिति / उत्तरमाह-सतीति, प्रदीपवत्- प्रदीपेनेव प्रमाणेन सत्पदार्थे उपलभ्यमाने सदनुपलब्धेरनुपलभ्यमानस्यासत्त्वमवधार्यते इत्यसतोऽसत्त्वेन प्रमाणत उपलब्धिः= प्रमाणविषयत्वं संभवतीत्यन्वयः, यथा प्रदीपो विद्यमानं घटादिकं प्रकाशयन् अविद्यमानं पटादिकमपि नास्तीति प्रकाशयति तथा प्रत्यक्षादिना प्रमाणेन सति= सत्त्वविशिष्टे शशादावुपलभ्यमाने सति तद्वत्= शशादिवत् शशविषाणस्यानुपलब्धेः= अनुपलभ्यमानत्वात् . ज्ञायत्ते शशविषाणं नास्तीत्येवंरीत्या प्रमाणेनाऽसतोप्युपलब्धिरुपपद्यते इत्यर्थः / व्याचष्टे- यथेति, दर्शकेनेति कर्तरि दीपेनेति च करणे तृतीया. यथा दीपेन दृश्ये घटादौ गृह्यमाणे सति तदिव= गृह्यमाणघटादिकमिव यत् पटादिकं न ज्ञायते तत् पटादिकं नास्त्यत्रेति ज्ञायते, उक्ते विनिगमनामाह- यदीति. यदि पटोत्राऽभविष्यत्= भवेत् तदा इदमिव घटादिकमिव व्यज्ञास्यत= विज्ञायेत न च विज्ञायते इति विज्ञानाभावादत्र पटो नास्तीति निश्चीयते तदेवम्= एवमेव प्रदीपवदेव सतः शशादेः प्रकाशकं प्रमाणम् असदपि शशविषाणादिकं प्रकाशयति यथा- यदि शशविषाणं स्यात् तदा प्रमाणेन शशे गृह्यमाणे तद्विषाणमपि गृह्येत न च गृह्यते इति ग्रहणाभावाद् निश्चीयते नास्ति शशविषाणमिति सत्प्रकाशनार्थ प्रवृत्तेन प्रमाणेनाऽसदपि नास्तीति प्रकाश्यते. प्राधान्येन तु प्रमाणस्याऽसद्विषयत्वं नास्त्येवेत्यर्थः / असतः प्रभेदासंभवात् सतः प्रभेदमाह- सचेति, व्यूढम्= संक्षिप्तम्= संक्षेपेण सत् षोडशधाऽग्रिमसूत्रेणोपदेख्यते इत्यन्वयः // अग्रिमसूत्रमवतारयति- तासामिति, सद्विधानाम्= सत्प्रकाराणाम्. तासां खल्वासाम्= तेषां खल्वेषां सद्विधानाम् सत्स्वरूपाणां प्रमाणादिनिग्रहस्थानान्तानां षोडशपदार्थानां तत्त्वज्ञानात्= यथार्थज्ञानाद् निःश्रेयसाधिगमः= मोक्षप्राप्तिर्भवतीत्यन्वयः / सूत्रमाह- प्रमाणेति, सूत्रार्थः स्पष्ट एव / न चात्र वेदान्तविरोधः शङ्कनीयः- वेदान्तैर्मोक्षसाधनत्वेन विहितं परमात्मज्ञानं स च परमात्मा प्रमेयान्तर्गत एवेत्यत्रापि मोक्षार्थपरमात्मज्ञानस्य लाभात् / व्याचष्टे- निर्देशे इति, निर्देशे= सूत्रे यथावचनं यथालिपंज विग्रहः कर्तव्यो यथा प्रमाणानि प्रमेयाश्च संशयश्च प्रयोजनं चेति / प्रमाणादीनां सर्वेषामपि प्राधान्येन ज्ञातव्यत्वाद् द्वन्द्वसमास आश्रयणीय इत्याह- चार्थे इति, द्वन्द्वसमासाश्रयणाभावे पूर्वपूर्वेषां प्रमाणादीनां गौणत्वापत्त्या प्राधान्येन विज्ञेयत्वं न स्यात् / निग्रहस्थानानामितिषष्ठयाः स्वरूपमाह