________________ उपक्रमः] न्यायभाष्यम्। अर्थवति च प्रमाणे प्रमाता प्रमेयं प्रमितिरित्यर्थवन्ति भवन्ति, कस्मात् ? अन्यतमापायेऽयस्यानुपपत्तेः / तत्र यस्येप्साजिहासाप्रयुक्तस्य प्रवृत्तिः स प्रमाता. स येनार्थ प्रमिणोति तत् प्रमाणम् . योऽर्थः प्रमीयते तत् प्रमेयम् . यदर्थविज्ञानं सा प्रमितिः, चतसृषु चैवं विधास्वऽर्थतत्त्वं परिसमाप्यते / किं पुनस्तत्त्वम् ? सतश्च सद्भावोऽसतश्चाऽसद्भावः / सत् सदिति गृह्यमाणं यथाभूतमऽविपरीतं तत्त्वं भवति, असच्चाऽसदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं भवति / ज्ञानप्रामाण्यस्य फलमाह- अर्थवतीति, ज्ञानप्रामाण्ये सत्येव प्रमाता प्रमेयं प्रमितिरिति अर्थवन्ति= सफलानि भवन्ति तत्र प्रमाता ज्ञातपदार्थोंपलब्ध्याऽर्थवान् = सफलप्रवृत्तिर्भवति. तत्प्रमेयं चोपल. ब्धिकर्मत्वात् सफलं भवति, प्रमितिश्च प्रमेयप्रकाशकत्वात् सफला भवति. इदमेव चैषां साफल्यम् , ज्ञानस्य प्रामाण्याभावे चैतादृशं साफल्यं न संभवति ज्ञातपदार्थस्य तत्राभावाद् यथा शुक्तिरजतज्ञानकाले ज्ञातं रजतं तत्र न भवतीति न शुक्तिरजतज्ञानस्य प्रामाण्यं न वा ज्ञात्रादीनां साफल्यम् / प्रमिति. श्वात्र प्रमाणजन्यमात्मसमवेतं यथार्थ ज्ञानम् / उक्तनियमहेतुं जिज्ञासते- कस्मादिति, उत्तरमाहअन्यतमेति, अन्यतमस्य= ज्ञानप्रामाण्यस्यापाये= अभावे सति अर्थस्य= प्रमात्रादिसाफलस्योक्तस्यानुपपत्तेः= असंभवात् प्रमात्रादीनां साफल्यं ज्ञानप्रामाण्याधीनमेवेत्यर्थः / अत्र वार्तिकम्-" अन्यतमत्वार्थः साधकतमार्थो द्रष्टव्यः प्रकरणात् प्रकरणं हि चतुर्वर्गे प्रमाणं प्रधानमिति वर्ण्यते " इति / अत्र प्रमातृलक्षणमाह-यस्येति, प्रमाता प्रमात्मकज्ञानविशिष्टः। ईप्साजिंहासाप्रयुक्तस्य ईप्साजिहासाभ्यां प्रेरितस्य / प्रमाणलक्षणमाह-स इति, सः= प्रमाता येन प्रत्यक्षादिना पदार्थ प्रमिणोति= यथार्थरूपेण जानाति तत् प्रमाणम् / प्रमेयलक्षणमाह- य इति, प्रमीयते= प्रमाणेन ज्ञायते तदनेन शुक्तिरजतादीनां प्रमेयत्वं प्रत्याख्यातं विज्ञेयम् / प्रमितिलक्षणमाह- यदर्थेति, अर्थविज्ञानम्=प्रमाणजन्यमात्मसमवेतं यथार्थ पदार्थज्ञानं पौरुषेयो बोध एव प्रमितिरित्यर्थः / तत्र प्रमिणोतीति प्रमाता प्रमीयतेऽनेनेति प्रमाणं प्रमीयते इति प्रमेयं प्रमितिरिति भावे क्तिन् / उपसंहरति- चतसृष्विति, अर्थतत्त्वम्= पदार्थजातम्= पदार्थमात्रम् एवंविधासु= उक्तेषु प्रमात्रादिषु चतुर्यु परिसमाप्यते= अन्तर्भवति नैभ्यो बहिर्भूतं किंचिदपि संभवति यथा लोके ये पदार्थाः सन्ति तेषु कश्चित् प्रमाता वा प्रमेयं वा प्रमाणं वा प्रमितिर्वा स्यात् नार्थान्तरं यथा 'घटमहं जानामि' इत्यत्राहम्पदार्थः प्रमाता घटश्च प्रमेय धात्वर्थः प्रमितिः प्रमितिजनकं च प्रमाणं नान्यत् किमप्यत्रावशिष्टमस्ति यस्योक्तप्रमात्रादिचतुष्टयातिरिक्तत्वं स्यात् , एवमेव सर्वत्र पदार्थानां प्रमात्रादिचतुष्टयेऽन्तर्भावो विज्ञेयः / उक्तस्य पदार्थानां तत्त्वस्य स्वरूपं जिज्ञासते-किं पुनरिति / उत्तरमाह- सत इति, सतो घटादेः पदार्थस्य सद्भावः सत्त्वम्= विद्यमानत्वमेव तत्त्वम्= स्वरूपम्. असतश्च शशविषाणादेरसद्भावः= असत्वम्= अविद्यमानत्वमेव तत्त्वं शशविषाणादिकं हि कचिदपि नोपलभ्यते इत्यर्थः / उक्तवाक्यं व्याचष्टेसदिति, सद् घटादिकं सदिति= सत्त्वेनरूपेण गृह्यमाणम्= ज्ञायमानं यथाभूतम्= विद्यमानस्वरूपविशिष्टं सदेव भवति, अविपरीतमिति- विपरीतम्= असन्न भवतीति सतः सत्त्वमेव तत्त्वम्= स्वरूपम् / असञ्च शशविषाणादिकम् असत् असत्त्वरूपेण= नास्तीति गृह्यमाणं यथाभूतम् असदेव भवति अविपरीतमिति- विपरीतम्= सन्न भवतीत्यऽसतोऽसत्त्वमेव तत्त्वम् /