________________ प्रसन्नपदापरिभूषितम्- [1 अध्याये. १आह्निकेरित्युच्यते, सामर्थ्य पुनरस्याः फलेनाऽभिसंबन्धः, समीहमानस्तमर्थमभीप्सन् जिहासन् वा तमर्थमामोति जहाति वा / अर्थस्तु सुखं सुखहेतुश्च दुःखं दुःखहेतुश्च सोयं प्रमाणार्थोऽपरिसंख्येयः- प्राणभृद्भेदस्याऽपरिसंख्येयत्वात् / इति बौद्धमतमपि न युक्तम्- प्रवृत्त्यनुपपत्तेः, प्रवृत्तेः प्रामाण्यज्ञानाधीनत्वात् / प्रामाण्यं स्वतोप्रामाण्यं च परत इत्यपि भाट्ठादिमतं न युक्तम्- प्रामाण्याप्रामाण्ययोर्मध्ये एकस्य स्वतस्त्वमपरस्य च परतस्त्वमित्यत्र नियामकाभावात् प्रामाण्यविशिष्टज्ञानस्य प्रामाण्यग्रहार्थं प्रवृत्त्यनुपपत्तेश्च नहि स्वतःप्रकाशस्य प्रदीपस्य प्रकाशः प्रकाशान्तरेण जिज्ञास्यते भवति च प्रामाण्यग्रहार्थे प्रवृत्तिः तस्मात् प्रमाणानां प्रामाण्यमप्रामाण्यं चेति द्वयमपि परत एव स्वीकार्य तत्र पदाथें ज्ञानविषयतां प्राप्ते तस्योपादानार्थ हानार्थ वा प्रवृत्तिर्भवति तया च प्रवृत्त्या तस्मिन् पदार्थे उपलब्धे वा निरस्ते वा सति जातस्य ज्ञानस्य प्रामाण्यमवधार्यते यथा रजतेन चक्षुस्संनिकर्षे सति रजतोपलब्ध्या रजतज्ञानस्य प्रामाण्यं यथा चात्मज्ञाने सति संसारपरित्यागेनात्मज्ञानस्य प्रामाण्यम् , यत्र च प्रवृत्तेर्न फलाभिसंबन्धो भवति तत्र तादृशफलानुपलब्ध्या ज्ञानस्याऽप्रामाण्यमवधार्यते यथा शुक्तिरजतादिज्ञानस्य / न चैवमुत्तरोत्तरप्रामाण्यज्ञानापेक्षायामनवस्था- फलोपलब्धौ जातायां तयैवाऽविश्वासनिवृत्त्या तत्रैव विश्रामसंभवादित्यलम् / ___ उक्तस्ववाक्यं व्याचक्षाणो भाष्यकारः प्रवृत्तिसामर्थ्यप्रकारमाह-प्रमाणमिति, प्रमाणमन्तरेण= प्रमाणं विनाऽर्थस्य= पदार्थस्य प्रतिपत्तिः= प्रमितिनं भवति-प्रमाणस्यैव पदार्थप्रमितिहेतुत्वात् , पदार्थप्रतिपत्तिं च विना प्रवृत्तिसामर्थ्यम्= प्रवृत्तिसाफल्यम्= फलोपलब्धिर्न संभवति- प्रवर्तमानस्य पदार्थप्रतिपत्तेरेव फलोपलब्धिकारणत्वात् , तथा च प्रथमं प्रमाणेन पदार्थप्रमितिर्जायते ततः प्रवृत्तिः ततः फलो. पलब्धिर्जायते इति क्रमः सिद्धः / प्रमाणस्यार्थवत्त्वमाह-प्रमाणेनेति, अयं ज्ञाता चैत्रादिः प्रत्यक्षादिप्रमाणेनार्थम् = प्रमाणविषयीभूतं पदार्थमुपलभ्य= ज्ञात्वा तं पदार्थमभीप्सति= ग्रहीतुमिच्छति यदि स इष्टो भवति यदि चानिष्टो भवति तदा जिहासति= त्यक्तुमिच्छति एतादृशेच्छानन्तरं च ग्रहणं वा त्यागो वा भवति तथा च क्रमः- जानाति इच्छति यतते इति / प्रवृत्तिपदार्थमाह- तस्येति, तस्य= ज्ञातुः ईप्साजिहसाप्रयुक्तस्य ग्रहणेच्छया त्यागेच्छया वा प्रेरितस्य या समीहा ग्रहणानुकूला वा त्यागानुकूला वा चेष्टा सा प्रवृत्तिरित्युच्यते / सामर्थ्य पदार्थमाह- सामर्थ्यमिति, अस्याः= प्रवृत्तेर्यः फलेनाभिसंबन्धःअविसंवादित्त्वम्= फलप्रदत्वं तदेव सामर्थ्यम्= प्रवृत्तिसामर्थ्यमित्युच्यते / पर्यवसितमाह- समीहमान इति, समीहमानः= प्रवर्तमानः- प्रवृत्तः पुरुषस्तम्= प्रमितं पदार्थमभीप्सन्= तद्ग्रहणेच्छायां सत्यां तं पदार्थमाप्नोति= गृह्णाति किं वा जिहासन्= तत्त्यागेच्छायां सत्यां तं पदार्थ जहाति= त्यजति / तथा च पदार्थप्रतिपत्त्यैव प्रवृत्तिसामर्थ्य प्रदार्थप्रतिपत्तिश्च प्रमाणेनैवेति सिद्धम्. प्रवृत्तिसामर्थेनैव प्रामाण्यग्रहः प्रवृत्त्यसामर्थेन चाऽप्रामाण्यग्रह इत्यप्यर्थादेव सिद्धमिति प्रामाण्याऽप्रामाण्ययोयोरपि परतस्त्वं प्राप्तमित्यर्थः / सामान्यरूपेण पदार्थविधामाह- अर्थ इति, अर्थ्यते= समीह्यते इत्यर्थः= पदार्थः स च कश्चित् सुखरूपो यथाऽनुकूलपदार्थसंबन्धजन्य आत्मधर्मविशेषो हर्षापरपर्यायः प्राणिमात्रप्रसिद्धः, कश्चित् तादृशसुखस्य हेतुभूतो यथाऽनुकूलाः शब्दस्पर्शरूपरसगन्धादयः, कश्चिद् दुःखरूपो यथा प्रतिकूलपदार्थसंबन्धजन्यः क्लेशापरपर्यायः प्राणिमात्रप्रसिद्धः, कश्चित् तादृशदुःखस्य हेतुभूतो यथा प्रतिकूलाः शब्दस्पर्शरूपरसगन्धादयः, विवेकिदृष्ट्या च संसारे दुःखजनक एव पदार्थों बहुलमुपलभ्यते तथा च योगसूत्रम्- "परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाञ्च दुःखमेव सर्व विवेकिनः" इति, दुःखम्= दुःखजनकमित्यर्थः / जीवभेदेनोक्तसुखादीनामपि भेदादानन्त्यमाह- सोयमिति, सोयम्= उक्तसुखादिलक्षणः प्रमाणार्थः= प्रमाणविषयीभूतः पदार्थोऽपरिसंख्येयः= अनन्त एव, उक्तानन्तत्वे हेतुमाह-प्राणभृदिति, प्राणभृद्भेदस्य= जीवव्यक्तीनामनन्तत्वेन तद्वेद्यसुखादीनामप्यनन्तत्वं प्राप्तम् /