________________ ॥श्रीः॥ अथ प्रसन्नपदापरिभूषितम् न्यायभाष्यम् // श्रीपरमात्मने नमः॥ प्रमाणतोऽर्थप्रतिप्रत्तौ प्रवृत्तिसामर्थ्यादर्थवत् प्रमाणम् / प्रमाणमन्तरेण नार्थप्रतिपत्तिः नार्थप्रतिपत्तिमन्तरेण प्रवृत्तिसामर्थ्यम् , प्रमाणेन खल्वयं जाताऽर्थमुपलभ्य नामसति जिहासति वा, तस्येप्साजिहासाप्रयुक्तस्य समीहा प्रवृत्ति अथ प्रसन्नपदा // भगवते श्रीवाजिवक्त्राय नमो नमः॥ आद्यं विद्यानिदानं विधिविबुधवरैर्वन्द्यमानाधिपद्मं धाम्नां धामैन्दवानां दनुजभुजरुजां जन्मनां छद्म जिमम् / प्रज्ञालोकार्कमर्तिप्रतिकृतिममतिध्वान्तदन्त्येणशक्रं वक्रं भक्ताघचक्रे हरिमिह तुरगग्रीवमुग्रं प्रपद्ये // नत्वा श्रीमद्हयग्रीवं व्याख्याविघ्नविनाशनम् / स्मृत्वा श्रीमत्पदाम्भोजं श्रीगङ्गाधरशास्त्रिणाम् // बालानां सुखबोधार्थ न्यायभाष्यार्थभासिनीम् / सुप्रसन्नपदां टीकां करोत्येष सुदर्शनः // अथ पुरुषार्थचतुष्टये मोक्षस्यैव प्रधानत्वात् संसारदुःखनिवृत्तिरूपत्वात् संसारदुःखानां चाऽसह्यत्वाद् न्यायदर्शनानुसारेण मोक्षप्रयोजकीभूतज्ञानसिद्धयर्थं तादृशज्ञानविज्ञेयपदार्थनिकरनिरूपणार्थ च न्यायाचार्यः श्रीगौतमः सूत्रवृन्दं निर्मिमीत सूत्रार्थानां च मन्दबुद्धिदुरवबोधत्वात् तेषां सूत्राणां श्रीवाअस्यायनमिश्रो भाष्यमरीरचत्, भाष्यार्थस्यापि दुरवबोधत्वादेषा प्रसन्नपदा प्रवितन्यते सूत्रभाष्ययोः / ... तत्र मेयसिद्धेर्मानाधीनत्वाद् मानानां च न्यायमते परतः प्रामाण्यस्वीकारात् प्रथमं तावद् भावकारः स्वकीयेन व्याख्येयविशेषवाक्येन प्रमाणानां परतः प्रामाण्यं प्रथ्नाति-प्रमाणत इति, प्रमीयतेऽनेनेति प्रमाणं प्रत्यक्षादिचतुष्टयम् , प्रमाणतः= प्रमाणेनाऽर्थप्रतिपत्तौ= घटादिपदार्थज्ञाने जाते प्रवृत्ति - सामर्थ्यात= हानोपादानादिलक्षणायाः प्रवृत्तेः= चेष्टायाः सामर्थ्यात्= फलाभिसंबन्धात्= साफल्यात्= * समीझमावपदार्थोपलब्ण्या प्रमाणमर्थवत्= सफलम् = प्रमाणत्वेन ज्ञातं भवतीत्यन्वयः, उत्पन्नस्य प्रमाणस्य द्विषयोपलब्ल्या प्रामाण्यग्रहो भवतीति परतः प्रामाण्यम्. तद्विषयानुपलब्ध्वा चाऽप्रामाण्यग्रहो भवतीत्यऽप्रमाण्यमपि परत एवेत्यर्थः।। - अयं भावः-प्रमाणानां प्रामाण्यमप्रामाण्यं चेति द्वयमपि स्वत इति जैनाः, तन्न संभवतिअप्रामाण्यस्यापि स्वत एव प्राप्त्या क्वचिदपि प्रवृत्त्यनुपपत्तेः / अत एव प्रामाण्यं परतोऽप्रामाण्यं च स्वत