________________ अनुपलब्धिसमनिरूपणम् ] न्यायभाष्यम् / तेषाम्= आवरणादीनामनुपलब्धिर्नोपलभ्यते अनुपलम्भानास्तीत्यऽभावोऽस्याः सिध्यति, अभावसिद्धौ हेत्वभावात् तद्विपरीतमऽस्तित्वमावरणादीनामवधार्यते. तद्विपरीतोपपत्तेयेत् प्रतिज्ञातम्- 'न प्रागुच्चारणाद्विद्यमानस्य शब्दस्यानुपलब्धिः' इत्येतन्न सिध्यति. सोऽयं हेतु:- आवरणाद्यनुपलब्धेरिति आवरणादिषु चावरणाद्यनुपलब्धौ च समतयाऽनुपलब्ध्या प्रत्यवस्थितोऽनुपलब्धिसमो भवति // 29 // अस्योत्तरम् अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः // 30 // 'आवरणाद्यनुपलब्धिर्नास्ति- अनुपलम्भात्' इत्यहेतुः, कस्मात् 1, अनुपलम्भात्मक त्वादनुपलब्धे = उपलम्भाभावमात्रत्वादनुपलब्धेः यदस्ति तदुपलब्धेविषयः= उपलब्ध्या आवरणस्वरूप एव. आवरणानुपलब्धेरनुपलम्भाञ्चावरणाभावाभावः सिद्धस्तथा हि- यदि शब्दस्यावरणादिकं न स्यात्तदा तदनुपलब्धिरुपलभ्येत न चोपलभ्यते इति शब्दावरणाद्यनुपलब्धेरनुपलम्भादावरणामुपलब्धेरभावः सिद्धस्तेन शब्दावरणादेः सत्त्वं सिद्धं तेन प्रागुच्चारणादनुपलभ्यमानस्यापि शब्दस्य सत्त्वं सिद्धं तेन नित्यत्वं सिद्धमित्यर्थः तथा चानुपलब्धिमाश्रित्य प्रत्यवस्थानादनुपलब्धिसमा जातिरिति सूत्रार्थः, अन्यद् भाष्ये स्पष्टम् / व्याचष्टे- तेषामिति, तत्पदार्थमाह-आवरणादीनामिति, अनुपलम्भात्शब्दावरणाद्यनुपलब्धेरनुपलम्भात् , अस्याः= शब्दावरणाद्यनुपलब्धेः नास्तीति नास्तिशब्दवाच्योऽभावो सिध्यतीति / अभावसिद्धौ= आवरणाद्यनुपलब्ध्यभावे सिद्धे आवरणादीनामभावे हेत्वभावात्. किंवा शब्दावरणादीनामभावसिद्धौ हेत्वभावादित्यन्वयः, तद्विपरीतम्= अभावविपरीतम् / पर्यवसितमाहतदिति, 'न प्रागुच्चारणाद्विद्यमानस्य शब्दस्यानुपलब्धिः किं त्वविद्यमानस्यैव' इति यत् प्रतिज्ञातं तन्न सिध्यति- तद्विपरीतोपपत्तेः- शब्दावरणादीनां सत्वोपपत्त्या विद्यमानस्यापि शब्दस्यानुपलब्धिसंभवात् नित्यत्वोपपत्तेरित्यर्थः / उपसंहरति- सोयमिति, अवतरणभाष्योक्तः “आवरणाद्यनुपलब्धेः" इतिहेतुरनुपलब्धिसमो भवति- आवरणादिषु आवरणाद्यनुपलब्धौ च समतयानुपलब्ध्या प्रत्यवस्थितत्वादित्यन्वयः,यथा त्वयाऽऽवरणादेरनुपलब्धिरुपपाद्यते तथा मयाऽऽवरणाद्यनुपलब्धेरनुपलब्धिरुपपाद्यते इत्यनुपलब्ध्या समतया प्रत्यवस्थानम्= प्रतिपक्षः= आवरणादीनां सत्त्वं प्रदर्शितमित्यनुपलब्धिसमा जातिरित्यर्थः / तदनेन शब्दस्य नित्यत्वं प्राप्तमित्यवधार्यम् // वस्तुतस्तु "आवरणाद्यनुपलब्धेः' इत्यत्र 'अनुपलब्धेः' इत्येव वक्तव्यमासीत्- "आवरणाद्यनुपलब्धेः” इति विशिष्टहेतोरावरणादिषु आवरणाद्यनुपलब्धौ च समन्वयासंभवादित्यनुसंधेयम् // 29 // अग्रिमसूत्रमवतारयति- अस्येति, अस्य= उक्तस्यानुपलब्धिसमस्य / अनुपलम्भेति- शब्दावरण. सत्त्वसाधनाय यः "तदनुपलब्धेरनुपलम्भात् " इतिहेतुरुक्तः सोऽहेतुः= शब्दावरणसत्त्वस्याऽसाधक एवअनुपलब्धेरनुपलम्भात्मकत्वादित्यन्वयः, शब्दावरणादीनां यानुपलब्धिः सोपलम्भाभाव एव तादृशोपलम्भाभावेन शब्दस्यावरणादीनामभावः सिद्धः- यदि शब्दावरणादीनि स्युस्तदोपलभ्येरन् न चोपलभ्यन्ते इति शब्दावरकाभावात् प्रागुच्चारणाद् यः शब्दश्रवणस्याभावः स शब्दस्यासस्वादेवेति शब्दस्याऽनित्यत्वं सिद्धमिति अनुपलब्धिसमस्योत्तरमिति सूत्रार्थः प्रतिभाति / अत्र- "आवरणाद्यनुपलब्धिरावरणादीनामभावं गमयति न त्वात्मनोऽभावमावरणाद्युपलब्धिरूपम्- न ह्यसावनुपलब्धिरप्यात्मनः येनामाभावं गमयेत् / उपलब्धिरप्युपलभ्यविषया किं पुनरनुपलब्धिः" इति तात्पर्यटीका / व्याचष्टे-आवरणादीति, तदेतत् पूर्वोक्तस्यानुवादः / स्ववक्तव्यमाह- इत्यहेतुरिति, स्वसाध्यासाधक इत्यर्थः, साध्यं च तस्य शब्दावरणसत्त्वम् / अहेतुत्वे हेतुं जिज्ञासते- कस्मादिति / हेतुमाह- अनुपलम्भात्मकत्वादिति / हेतुवाक्यं व्याचष्टे- उपलम्भाभावमात्रत्वादिति, उपलम्भाभाव एवानुपलब्धिपदार्थस्तेन शब्दावरकस्याभावः