________________ 436 प्रसन्नपदापरिभूषितम्- [5 अध्याये. 1 आह्निकेकारणनियमः, यदि च कारणान्तरादप्युपपद्यमानस्य शब्दस्य तद् अनित्यत्वमुपपद्यते ? किमत्र प्रतिषिध्यते ? इति // 28 // न पागुच्चारणाद् विद्यमानस्य शब्दस्यानुपलब्धिः, कस्मात् ? आवरणाद्यनुपलब्धःयथा विद्यमानस्योदकादेरर्थस्याऽऽवारणादेरनुपलब्धि वं शब्दस्याऽग्रहणकारणेनाऽऽवरणादिनाऽनुपलब्धिः= गृह्येत चैतदस्याग्रहणकारणमुदकादिवद् न (च) गृह्यते तस्मादुदकादिविपरीतः शब्दोऽनुपलभ्यमान इतितदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरऽनुपलब्धिसमः॥ 29 // कार्यस्य शब्दस्य कारणनियमस्तु नाभिधीयते= प्रयत्नानन्तरीयकत्वादेवानित्यः शब्द इतिनियमो नोच्यते तथा च शब्दे प्रयत्नानन्तरीयकत्वस्याभावेपि कारणान्तरेणानित्यत्वे सिद्धे शब्दाऽनित्यत्वप्रतिषेधो नोपपद्यते इत्यर्थः / उपसंहरति- यदीति, अत्र= पूर्वसूत्रभाष्ययोरुपलब्धिसमया जात्या किं प्रतिषिध्यते ? इत्याक्षेपस्तथा चात्र शब्दानित्यत्वं प्रतिषेधुं न शक्यते- कारणान्तरेण त्वयैव सिद्धत्वप्रतिपादनादित्यर्थः / तदेतद् भाष्यं पूर्वत्र प्रतिपादितस्य पूर्वपक्ष्याशयस्योत्तरभूतं विज्ञेयम्- अन्यथा ह्यसंगतमेव स्यात् / तथा च शब्दत्वसामान्यादुक्तनियमव्यभिचारस्याकिंचित्करत्वाच्च ध्वनिवत् प्रयत्नानन्तरीयकत्वेन वर्णानामनित्यत्वं सिद्धमित्याशयः / स्पष्टमन्यत् / वस्तुतस्तु नेदं भाष्यं पूर्वेण संगतम्- पूर्वत्रानित्यत्वप्रतिषेधस्यानुक्तत्वादित्यनुसंधेयम् / अत्र- " कारणत:= प्रयत्नाच्छब्दस्योत्पत्तिनियमो विधीयते वर्णानामनित्यत्वं साधयितुं न तु कार्यस्य कारणनियमः= प्रयत्नादेव सर्वः शब्दो जायते न तु वायुसंयोगाद् वृक्षभङ्गादिति नियम उच्यते येनाव्यापकत्वं हेतोः स्यात् " इतितात्पर्यटीका // 28 // ____ अग्रेऽनुपलब्धिसमेन शब्दावरणादीनामनुपलब्धेरनुपलम्भः प्रतिपाद्योस्ति तत्रावरणादीनामनुपलब्धेरनुपलम्भादावरणादीनां सत्त्वं सिध्यति तथा च सतोपि शब्दस्याऽश्रवणमावरणादिप्रतिबन्धादुपपद्यते तेन शब्दस्य नित्यत्वं सिध्यति. तदेतत् प्रतिपादनार्थ प्रथमं स्वसिद्धान्तेन शब्दावरणादेरभावं प्रतिपादयति- नेति, तदनेन शब्दोपलब्धिप्रतिबन्धकाभावेपि शब्दानुपलब्ध्या शब्दानित्यत्वं सिध्यतीत्यनुसंधेयं तथा चेदं भाष्यमग्रिमसूत्रस्यावरतरणभूतमेव / अत्र- " अनुपलब्धिसमस्य प्रतिषेधस्य लक्षणं दर्शयितुं तत्प्रतिषेध्यं तावदाह भाष्यकार:- न प्रागुच्चारणाद्विद्यमानस्यानुपलब्धिरिति” इति तात्पर्यटीका / शब्दनित्यत्वमते प्रागुच्चारणादपि शब्दो विद्यमान एव भवति अभिव्यञ्जकाभावाच्च न श्रूयते अभिव्यञ्जकं चोच्चारणमेवेति तन्मतं सिद्धान्ती निराकरोति- नेति, किं त्वऽविद्यमातस्येतिशेषः / उक्ते हेतुं जिज्ञासते- कस्मादिति / हेतुमाह- आवरणेति, यदि प्रागुच्चारणाद्विद्यमानस्य शब्दस्यानुपलब्धिः स्यात्तदा तादृशानुपलब्धिकारणं शब्दस्यावरणादिकमुपलभ्येत न चोपलभ्यते इति प्रागुच्चारणाद् यानुपलब्धिः शब्दस्य सा शब्दस्याविद्यमानत्वादेवेत्यर्थः / हेतुवाक्यं व्याचष्टे- यथेति, आवरणादेरिति पञ्चम्यन्तम् , उदकादेर्यथावरणादिनानुपलब्धिरित्यन्वयः / प्रकृतमाह- नैवमिति, शब्दस्यावरणादिकं नाऽग्रहणकारणं किं त्वविद्यमानत्वमेवेत्यर्थः / गृह्येतेति- यदि विद्यमानस्यापि शब्दस्याग्रहणकारणमावरणादिकं स्यात् तदा तद् गृह्येत यथोदकादेविद्यमानस्याप्यग्रहणकारणमावरणादिकं गृह्यते न च शब्दस्य विद्यमानस्याग्रहणकारणं गृह्यते तस्मात् शब्दोऽनुपलभ्यमान उदकादिविपरीत:= असन्= उदकादिवदावृतः सन्न किं तु प्रागुच्चारणादऽसन्नेवेति न शब्दो नित्य इत्यन्वयः, स्पष्टमन्यत् / __अनुपलब्धिसमां लक्षयति- तदिति, तत्= तेषाम्= शब्दावरणादीनामनुपलब्धेरनुपलम्भात् अभावसिद्धौ शब्दावरणाद्यनुपलब्धेरभावः सिद्धस्तेन तद्विपरीतोपपत्तेः= तद्विपरीतम्= अभावविपरीतं सत्त्वं शब्दावरणादीनां सिद्धं तदुपपत्तेः= शब्दावरणादेः सत्त्वोपपत्तौ शब्दस्य नित्यत्वं सिध्यतीत्ययमनुपलब्धिसम इत्यन्वयः, यथा घदाभावाभावो घदस्वरूपो भवति तथा शब्दस्य आवरणाभावाभाव