________________ उपलब्धिसमनिरूपणम् ] न्यायभाष्यम् / व्याघातात् प्रतिषेध इतिचेत् ? समानो व्याघातः / एकस्य नित्यत्वानित्यत्वप्रसङ्गं व्याहतं त्रुवता उक्तः प्रतिषेध इतिचेत् ? स्वपक्षपरपक्षयोः समानो व्याघातः स च नैकतरस्य साधक इति // 26 // निर्दिष्टकारणाभावेप्युपलम्भादुपलब्धिसमः // 27 // निर्दिष्टस्य प्रयत्नानन्तरीयकत्वस्यानित्यत्वकारणस्याभावेपि वायुनोदनाद वृक्षशाखाभङ्गजस्य शब्दस्यानित्यत्वमुपलभ्यते / निर्दिष्टस्य साधनस्याभावेपि साध्यधर्मोपलब्ध्या प्रत्यवस्थानमुपलब्धिसमः // 27 // अस्योत्तरम् कारणान्तरादपि तद्धर्मोपपत्तरप्रतिषेधः // 28 // प्रयत्नानन्तरीयकत्वादिति ब्रुवता कारणत उत्पत्तिरभिधीयते. न (तु) कार्यस्य ननु व्याघातात्= नित्यत्वधर्मविरोधात्= नित्यत्वविरुद्धत्वादनित्यत्वस्य प्रतिषोधो युक्तः ? इत्याशङ्कते-- ठयाघातादिति / निराकरोति- समान इति, यथाऽनित्यत्वस्य नित्यत्वेन विरोधस्तथा नित्यत्वस्यानित्यत्वेन विरोधः समान एव तथा चानित्यत्वप्रतिषेधवन्नित्यत्वस्यापि प्रतिषेधः स्यात् किं वाऽनित्यत्वविरोधान्नित्यत्वस्यैव प्रतिषेधः स्यादित्यर्थः / स्वयं व्याचष्टे- एकस्येति / एकस्य शब्दस्य, व्याहतम् परस्परविरुद्धम् / ब्रुवता ब्रुवतः / प्रतिषेधः= अनित्यत्वप्रतिषेधः, नित्यत्वानित्यत्वधर्मावेकत्र न संभवत इति विरोधादेवैकस्य धर्मस्यानित्यत्वस्य प्रतिषेध उक्त इत्यर्थः / उत्तरमाह- स्वपक्षेति, 'यथा नित्यत्वपक्षेऽनित्यत्वविरोधस्तथाऽनित्यत्वपक्षे निस्यत्वविरोधोस्त्येव स च व्याघातो नैकतरस्य धर्मस्य पक्षस्य वा साधकः संभवति येनानित्यत्वप्रतिषेध उपपद्यतेस्यर्थः // 26 // उपलब्धिसमां लक्षयति- निर्दिष्टेति, निर्दिष्टस्य साध्यसिद्धयर्थं प्रदर्शितस्य कारणस्य- हेतोरभावेपि- अनुपलब्धावपि साध्यस्य प्रकारान्तरेण प्रत्यक्षादिनोपलम्भात्= उपलम्भे= उपलब्धिप्रदर्शने उपलब्धिसमा जातिरिति सूत्रान्वयः / व्याचष्टे- निर्दिष्टस्येति, अभावेपि= अनुपलब्धावपि, वायुनोदनात्- वायुप्रेरणात्= वायुवेगाद् यो वृक्षशाखाभङ्गस्तजन्यस्य शब्दस्यानित्यत्वं प्रत्यक्षेणार्थाद्वोपलभ्यतेक्षणान्तरे श्रवणाभावादिति अनित्यत्वहेतोः प्रयत्नानन्तरीयकत्वस्यानुपलब्धावपि साध्यमनित्यत्वमुपलभ्यते एवेति 'प्रयत्नानन्तरीयकत्वमेवानित्यत्वसाधकम् / इतिनियमस्य व्यभिचारो जातस्तथा च प्रयत्नानन्तरीयकत्वस्याऽनित्यत्वसाधकत्वनियमाभावात् वर्णात्मकशब्दस्य प्रयत्नानन्तरीयकत्वेनाप्यनित्यत्वं न प्राप्नोतीति पूर्वपक्ष्याशयो वर्णनीयः- एतदाशयं विनाऽग्रिमपरिहारभाष्यस्य संगतिर्न संभवति एतन्मूलग्रन्थमात्रेणेति विभाव्यम् , अत एवात्रत्यसूत्रभाष्यमसंपूर्णमिति प्रतिभाति / वस्तुतस्तु प्रयत्नानन्तरीयकत्वमनित्यत्वस्य व्याप्यमस्ति न तु व्यापकं येन यावदनित्येषु प्रयत्नानन्तरीयकत्वस्य सत्ता प्रसज्येते. त्युक्तः पूर्वपक्ष्याशयोऽसंगत एव अत एवेदं जात्युत्तरमिति बोध्यम् / प्रयत्नानन्तरीयकत्वस्यानित्यत्वहेतोरनुपलब्धावपि प्रकारान्तरेण साध्यमनित्यत्वमुपलभ्यते एवेत्युपलब्धिसमेत्यन्वयः / निर्वक्ति- निर्दिष्टस्येति, साध्यधर्मोपलब्ध्या साध्यलक्षणधर्मोपलब्ध्या / स्पष्टमन्यत् // 27 // . ___ अग्रिमसूत्रमवतारयति- अस्येति, अस्य= उक्तस्योपलब्धिसमस्य / कारणान्तरादपीति-निर्दिष्टकारणाभावेपि कारणान्तरात् तद्धर्मोपपत्तेः= साध्योपपत्तिसंभवात् साध्यप्रतिषेधो नोपपद्यते इतिसूत्रान्वयः, साधनधर्मस्याभावेपि न क्षतिरित्याशयः किं वा साध्ये सिद्धे साधनमपि सिद्धमेवेति न तत्प्रतिषेधः संभवतीत्याशयः / व्याचष्टे- प्रयत्नेति, 'अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात् / इति ब्रुवता शब्दस्य कस्मादपि कारणादुत्पत्तिर्भवति न त्वकारणकः शब्द इत्यभिधीयते= इतितात्पर्यमस्ति