________________ प्रसन्नपदापरिभूषितम्- [5 अध्याये. १आह्रिकेप्रतिज्ञार्थव्यतिरिक्तमन्यदुदाहरणं नास्ति. अनुदाहरणश्च हेतुर्नास्तीति, प्रतिज्ञैकदेशस्य चोदाहरणत्वमनुपपन्नम्- न हि साध्यमुदाहरणं भवति, सतश्च नित्यानित्यभावादनित्यत्वानुपपत्तिस्तस्मात् ' सद्भावोपपत्तेः सर्वाविशेषप्रसङ्गः' इति निरभिधेयमेतद्वाक्यमिति / ' सर्वभावानां सद्भावोपपत्तेरनित्यत्वम् ' इति ब्रुवताऽनुज्ञातं शब्दस्यानित्यत्वं तत्रानुपपन्नः प्रतिषेध इति॥२४॥ उभयकारणोपपत्तेरुपपत्तिसमः // 25 // __ यद्यनित्यत्वकारणमुपपद्यते शब्दस्य इत्यनित्यः शब्दः ? नित्यत्वकारणमप्युपपद्यतेऽस्याऽस्पर्शत्वमिति नित्यत्वमप्युपपद्यते / उभयस्य अनित्यत्वस्य नित्यत्वस्य च कारणोपपल्या प्रत्यवस्थानमुपपत्तिसमः // 25 // अस्योत्तरम् उपपत्तिकारणाभ्यनुज्ञानादप्रतिषेधः // 26 // " उभयकारणोपपत्तेः" इतिब्रुवता नाऽनित्यत्वकारणोपपत्तेरनित्यत्वं प्रतिषिध्यते, यदि प्रतिषिध्यते? नोभयकारणोपपत्तिः स्यात् / उभयकारणोपपत्तिवचनादनित्यत्वकारणो. पपत्तिरभ्यनुज्ञायते अभ्यनुज्ञानादनुपपन्नः प्रतिषेधः / इति / अत्र दोषमुदायटति- तत्रेति, तत्र= उक्तपूर्वपक्षे, प्रतिज्ञार्थव्यतिरिक्तम्= पक्षव्यतिरिक्तम् , सर्वेषां भावानां पक्षत्वे तदतिरिक्तमुदाहरणं न संभवतीति स्पष्टमेव / अत्रापि दोषमाह- अनुदाहरणश्चेति, अनुदाहरण:- दृष्टान्तरहित:- दृष्टान्तं विना हेतुर्नास्तिन संभवति= साध्यसाधको न भवतीत्यर्थः / प्रतिज्ञै. कदेशस्य= पक्षैकदेशस्य चोदाहरणत्वं न संभवति येन तस्यैवोदाहरणत्वं स्यादित्याह-प्रतिजैकदेशस्येति / उक्त हेतुमाह- न हीति, साध्यम्= पक्षः / पूर्वपक्षं प्रत्याचष्टे-सतश्चेति, सतो नित्यत्वमपि भवति अनित्यस्वमपि भवतीति अनित्यत्वानुपपत्तिः= अनित्यत्वनियमानुपपत्तिरित्यर्थः / सत्सु घटादीनामनित्यत्वमाकाशादीनां च नित्यत्वमिति प्रसिद्धमेव / उपसंहरति- तस्मादिति, इत्येतद्वाक्यं निरभिधेयम्= प्रतिपाद्यार्थरहितम्= अपार्थकमित्यन्वयः / पूर्वपक्षिमतेनापि शब्दस्यानित्यत्वसिद्धिमाह- सर्वभावानामिति, यदा हि पदार्थमात्रस्यानित्यत्वं तदा शब्दस्याप्यनित्यत्वं प्राप्तमेवेत्यर्थः / अनुज्ञातम्= स्वीकृतम् / पर्यवसितमाह- तत्रेति, तत्र एवं शब्दस्यानित्यत्वे सिद्धे शब्दानित्यत्वस्य उक्तजात्युत्तरैः प्रतिषेधोऽनुपपन्न इत्यन्वयः, स्पष्टमन्यत् // 24 // - उपपत्तिसमां लक्षयति- उभयेति, उभयस्य= धर्मद्वयस्य कारणोपपत्तेः= हेतूपपत्तिप्रदर्शने उपपत्तिसमाजातिरिति सूत्रान्वयः / धर्मद्वयं चात्र परस्परविरुद्धं ग्राह्यं यथा नित्यत्वाऽनित्यत्वादिकम् / व्याचष्टे- यदीति, अनित्यत्वकारणम्= प्रयत्नानन्तरीयकत्वम् , इति= उक्तानित्यत्वकारणोपपत्तेरनित्यः शब्द इत्यन्वयः / अस्य शब्दस्य / तथा च 'अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद घटवत्। 'नित्यः शब्दोऽस्पर्शत्वादाकाशवत्' इतिप्राप्तम्, किं वा ' यदि शब्दः प्रयत्नानन्तरीयकत्वादनित्यस्तदाऽस्पर्शत्वान्नित्यः' इत्यपि सिद्धं नित्यत्वेन चानित्यत्वनिवृत्तिर्जातेत्याशयः। निर्वक्ति- उभयस्येति / / 25 // अग्रिमसूत्रमवतारयति- अस्येति, अस्य= उक्तस्योपपत्तिसमस्य / उपपत्तीति- उभयोधर्मयोर्मध्ये यः खलु प्रतिषेध्यो धर्मस्तस्य यदुपपत्तिकारणं तस्याभ्यनुज्ञानात्= स्वीकारात् अप्रतिषेधः= तस्य धर्मस्य प्रतिषेधो नोपपद्यते, तादृशधर्मोपपत्तिकारणाऽस्वीकारे चोपपत्तिसमा नोपपद्यते- उभयकारणोपपत्तावेवोपपत्तिसमसंभवादिति सूत्रार्थः / व्याचष्टे- उभयेति, अनित्यत्वं न प्रतिषिध्यते न प्रतिषेद्धं शक्यतेअनित्यत्वकारणस्य प्रयत्नानन्तरीयकत्वस्योपपत्तिस्वीकारात् / विपक्षे बाधकमाह- यदीति, उभयकारणोपपत्त्यभावे चोपपत्तिसमा न स्यादित्यर्थः / उपसंहरति- उभयेति, अभ्यनुज्ञानात्= अनित्यत्वकारणोपफ्तेरभ्यनुज्ञाने चानित्यत्वप्रतिषेधो नोपपद्यते इत्यन्वयः / कारणशब्दो हेतुपरः, स्पष्टमन्यत् //