________________ 438 प्रसन्नपदापरिभूषितम्- [5 अध्याये. १आह्निकेतदस्तीति प्रतिज्ञायते. यन्नास्ति तदनुपलब्धेविषयः= अनुपलभ्यमानं नास्तीति प्रतिज्ञायते, सोयमावरणाघनुपलब्धेरनुपलम्भोऽनुपलब्धौ स्वविषये प्रवर्तमानो न स्वविषयं प्रतिषेधति, अप्रतिषिद्धा चावरणाद्यनुपलब्धिहेतुत्वाय कल्पते। आवरणादीनि तु विद्यमानत्वादुपलब्धेविषयाः तेषामुपलब्ध्या भवितव्यं यत्तानि नोपलभ्यन्ते तद् उपलब्धेः स्वविषयप्रतिपादिकाया अभावाद= अनुपलम्भादनुपलब्धेविषयो गम्यते- 'न सन्त्यावरणादीनि शब्दस्याऽग्रहणकारणानि' इति, अनुपलम्भादनुपलब्धिः सिध्यति- विषयः स तस्येति // 30 // ज्ञानविकल्पानां च भावाभावसंवेदनादध्यात्मम् // 31 // अहेतुरिति वर्तते / शरीरे शरीरिणां ज्ञानविकल्पानां भावाभावौ संवेदनीयौ- 'अस्ति मे संशयज्ञानम् नास्ति मे संशयज्ञानम्' इति. एवं प्रत्यक्षानुमानागमस्मृतिज्ञानेषु. सेयमावरणाद्यसिध्यति तस्मान्न शब्दावरकसत्त्वं संभवतीत्यर्थः / उक्तस्याभिप्रायमुद्बाटयति- यदस्तीत्यादिना / अस्याप्यर्थमाह- उपलब्ध्येति, यदस्ति तदुपलब्ध्याऽस्तीतिप्रतिज्ञायते इत्यन्वयः / अनुपलब्धेविषयमाहयन्नास्तीति / अस्याप्यर्थमाह- अनुपलभ्यमानमिति / उपसंहरति-सोयमिति, अन "अनुपलम्भाभावः" इति पाठोऽसंगतस्तात्पर्यटीकाविरुद्धश्च / शब्दावरणाद्यनुपलब्धेर्योऽनुपलम्भः= अनुपलब्धिस्तस्याः शब्दावरणाद्यनुपलब्धिरेव विषय इति तेनानुपलम्भेन शब्दावरणाद्यनुपलब्धिः सिद्धा तया च शब्दावरणाद्यभावः सिद्ध इत्यर्थः / द्वाभ्यामपि स्वविषयशब्दाभ्यां शब्दावरणाद्यनुपलब्धिर्नाया। यदायुक्तानुपलम्भन शब्दावरणाद्यनुपलब्धेः प्रतिषेधो नोपपद्यते तदा सा सिद्धानुपलब्धिः हेतुत्वाय कल्पते= शब्दावरणाद्यभावस्य हेतु:साधिका भवतीत्यर्थः / शब्दस्यावरणादीनामभावमुपपादयति- आवरणादीनीति, भवेयुरितिशेषः / ते षाम्= आवरणादीनाम् , सत उपलब्धियुक्तैव / यत्= यस्मात् , तानि= आवरणादीनि, तत्= तस्मात्, स्वविषयप्रतिपादिकायाः- शब्दावरणसाधिकाया उपलब्धेरभावात्= अनुपलम्भात् . अर्थात् शब्दावरणोपलब्ध्यनुपलम्भात् शब्दावरणानुपलब्धिः सिद्धा तस्याश्च विषयः शब्दावरणाभाव इति शब्दावरणानुपलध्या 'न सन्ति शब्दावरणादीनि' इति गम्यते इत्यन्वयः, उपलब्ध्यभावश्चानुपलम्भ एवेति स्पष्टमेव / अनुपलब्धेश्चात्र विषयः शब्दावरणाद्यभावः- अभावस्यैवानुपलब्धिविषयत्वात् / तादृशाभावमेवाह- न सन्तीति / शब्दावरणाद्यनुपलब्धिसिद्धिमाह- अनुपलम्भादिति, शब्दावरणाापलब्धेरनुपलम्भात् शब्दावरणाद्यनुपलब्धिः सिध्यति तया च शब्दावरणाद्यभावः सिध्यति तेन च शब्दानित्यत्वं सिद्धमित्यर्थः। सःसा= अनुपलब्धिः, तस्य= उक्तानुपलम्भस्य विषयः= तयोर्विषयविषयिभावात् , अत्र स इत्यस्य स्थाने सेति वक्तव्यमासीत् , अत्र “विषयः स तस्य= उपलब्धिनिषेधकस्य प्रमाणस्याऽनुपलब्धिस्ततश्वावरणाद्यभाव इति द्रष्टव्यम्" इति तात्पर्यटीका / किं वा सः= शब्दावरणाद्यभावस्तस्य= उक्तानुपलम्भस्य: शब्दावरणाद्यनुपलब्धेविषय इत्यन्वयस्तथा च शब्दावरणाद्यभावस्य सिद्धया शब्दस्याश्रूयमाणस्याऽसत्त्वं विनाशित्वं तेन चानित्यत्वं सिद्धम् // 30 // अनुपलब्धिसमायाः समाधानान्तरमाह- ज्ञानेति, अध्यात्मम्= आत्मनि ज्ञानविकल्पानाम् ज्ञानविशेषाणां भावाभावयोः= सत्त्वासत्त्वयोः संवेदनम्= ज्ञानं भवति तथा च शब्दावरणविषयकज्ञानाभावस्यापि ज्ञानं जायते- 'नास्ति मे शब्दावरणविषयकं ज्ञानम्' इति तस्मात् शब्दावरणस्याभावः सिध्यति, यदि शब्दावरणादिकं स्यात् तदा कदाचित तज्ज्ञानमपि जायेत न च जायते तथा च प्रागुचारणाद् या शब्दस्यानुपलब्धिः सा शब्दस्याविद्यमानत्वादेवेति शब्दानित्यत्वं सिद्धं न तूक्तरीत्याऽऽवरणवशादनुपलब्धिर्येन शब्दस्य नित्यत्वमापद्येतेति सूत्रार्थः / व्याचष्टे- अहेतुरिति, वर्तते= वर्तनीयम्= पूर्वसूत्रादनुवर्तनीयमित्यर्थः, तथा च 'अध्यात्म ज्ञानविकल्पानां च भावाभावसंवेदनाद्हेतुः' इत्यन्वयः / शब्दावरणसत्त्वप्रतिपादनार्थ य: " तदनुपलब्धेरनुपलम्भात्" इति हेतुरुक्तः सोऽहेतुरित्यर्थः,