________________ 432 . प्रसन्नपदापरिभूषितम्- [5 अध्याये. १आह्रिके__ अर्थापत्तितः प्रतिपक्षसिद्धेरापत्तिसमः // 21 // 'अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवत्' इति स्थापिते पक्षे अर्थापत्त्या प्रतिपक्षं साधयतोऽर्थापत्तिसमः, यदि प्रयत्नानन्तरीयकत्वादनित्यसाधादनित्यः शब्द इति ? (तदा) अर्थादापद्यते-नित्यसाधर्म्यानित्य इति, अस्ति त्वस्य नित्येन साधर्म्यम् अस्पर्शत्वमिति॥२१॥ अस्योत्तरम्__ अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तस्वादनैकान्ति- . . कत्वाचार्थापत्तेः // 22 // अनुपपाद्य सामर्थ्यमऽनुक्तमादापद्यते इतिब्रुवतः पक्षहानेरुपपत्तिः- अनुक्तत्वात्= अनित्यपक्षसिद्धौ अर्थादापन्नम्- नित्यपक्षस्य हानिरिति / अनैकान्तिकत्वाचार्थापत्तेः= उभयपक्षसमा चेयमर्थापत्तिः- यदि नित्यसाधादस्पर्शत्वादाकाशवच्च नित्यः शब्दः ? (तदा) अर्थादापन्नम्- अनित्यसाधात् प्रयत्नानन्तरीयकत्वादनित्य इति, न चेयं विपर्ययमात्रादेकान्तेनार्थापत्तिः. न खलु वै घनस्य ग्राव्णः पतनमिति अर्थादापद्यते- द्रवाणामपां पतनाभाव इति // 22 // माह-प्रतिषेधेति, प्रतिषेधस्य उक्ताहेतुसमस्यानुपपत्त्या स्थापनाहेतुः= साध्यसाधको हेतुः सिद्धस्तेन प्रकृतं साध्यं शब्दानित्यत्वं सिद्धमिति न साध्यप्रतिषेधः संभवति- स्थापनाहेतुसिद्धौ तत्साध्यसिद्धेरावश्यकत्वादित्यर्थः // 20 // अर्थापत्तिसमां लक्षयति- अर्थापत्तित इति, अर्थापत्त्या प्रतिपक्षसाधने ह्यापत्तिसमा जातिरिति सूत्रान्वयः / ब्याचष्टे- अनित्य इति, इतिपक्षे= शब्दानित्यत्वे स्थापिते इत्यन्वयः / प्रकृतमर्थापत्तिसममाह- यदीति, प्रयत्नानन्तरीयकत्वं ह्यनित्यसाधर्म्यमिति स्पष्टमेव / अर्थादापद्यते इत्यत्र तदेतिशेषः / नित्यसाधा नित्यः शब्द इत्यर्थापत्त्या सिद्धमित्यन्वयः / शब्दस्य नित्यसाधर्म्यमाह- अस्तीति, अस्य शब्दस्य अस्पर्शत्वं नित्यं यदाकाशादिकं तत्साधर्म्यमिति स्पष्टमेव, तथा च ' अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवत्' इतिवददेव- 'नित्यः शब्दोऽस्पर्शत्वादाकाशवत्' इत्यपि सिद्धमित्यस्य पक्षस्याऽर्थापत्त्या सिद्धत्वादियमर्थापत्तिसमा जातिरित्यर्थः // 21 // अग्रिमसूत्रमवतारयति- अस्येति, अस्य= उक्तस्यापत्तिसमस्य / अनुक्तस्येति- अनुक्तस्यअसाधितस्य शब्दनित्यत्वस्योक्तरीत्याऽर्थापत्तेः= अर्थादापत्तौ पक्षहाने:= नित्यत्वपक्षहानेरुपपत्तिः= नित्यत्वपक्षहानिः- अनुक्तत्वात् शब्दनित्यत्वस्य सद्धेतुनाऽसाधितत्वात् तथा च नोक्तरीत्याऽर्थात् शब्दस्य नित्यत्वं सिध्यति, किं चार्थापत्तेरुभयपक्षसाधरणत्वादनकान्तिकत्वम् व्यभिचारिणीत्वं प्राप्तं न च व्यभिचारिणा किंचित् सिध्यतीति नोक्तरीत्यार्थापत्तिसमेन शब्दनित्यत्वमुपपद्यते इत्यर्थापत्तिसमायाः प्रतिषेध इतिसूत्रार्थः / अन्यद् भाष्ये स्पष्टम्। व्याचष्टे- अनुपपायेति, सामर्थ्यम्= साध्यसाधनसामर्थ्यम्= साध्याविनाभावित्वमनुपपाद्याऽनुक्तम्- असाधितमपि शब्दनित्यत्वमर्थादापद्यते इतिश्रुवत: प्रतिपक्षिणः पक्षस्य= शब्दनित्यत्वपक्षस्य हानेरुपपत्तिः / अत्र हेतुमाह- अनुक्तत्वादिति, शब्दनित्यत्वस्यासाधितत्वा. दित्यर्थः, न ह्यसाधितं व्याप्तिरहितं वार्थादापद्यते इत्यर्थः / उक्तं व्याचष्ठे- अनित्येति, नित्यपक्षस्यशब्दनित्यत्वपक्षस्य हानिरित्यर्थादापन्नम् / दोषान्तरमाह-- अनैकान्तिकत्वादिति / उक्तमनैकान्तिकत्वं व्याचष्टे- उभयेति / अर्थापत्तेरुभयपक्षसमत्वं व्याचष्टे- यदीति, यदि चेत्यन्वयः / शब्दस्य नित्यत्वानित्यत्वपक्षयोरुभयोरप्यर्थापत्तेः समानत्वाद् व्यभिचारिणीत्वं स्पष्टमेव प्राप्तम् / विपक्षे बाधकमाह