________________ अहेतुसमनिरूपणम् ] न्यायभाष्यम् / त्रैकाल्यासिद्धेर्हेतोरहेतुसमः // 18 // __ हेतु:= साधनं तत् साध्यात् पूर्व पश्चात् सह वा भवेत् . यदि पूर्व साधनम् ? असति साध्ये कस्य साधनम् , अथ पश्चात् ? असति साधने कस्येदं साध्यम् , अथ युगपत् साध्यसाधने ? द्वयोर्विद्यमानयोः किं कस्य साधनं किं कस्य साध्यम्. इति हेतुरहेतुना न विशिप्यते / अहेतुना साधात् प्रत्यवस्थानमऽहेतुसमः // 18 // अस्योत्तरम्- . न हेतुतः साध्यसिद्धेस्त्रैकाल्यासिद्धिः॥ 19 // न त्रैकाल्यासिद्धिः, कस्मात् ? हेतुतः साध्यसिद्धेः, निर्वर्तनीयस्य निर्वृत्तिः विज्ञेयस्य विज्ञानम् उभयं कारणतो दृश्यते. सोयं महाम् प्रत्यक्षविषय उदाहरणमिति / यत्तु खलूक्तम्असति साध्ये कस्य साधनमिति ? यत्तु निर्वत्यते यच्च विज्ञाप्यते तस्येति // 19 / / प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः // 20 // 'पूर्व पश्चाद् युगपद्वा' प्रतिषेध इति नोपपद्यते. प्रतिषेधानुपपत्तेः स्थापनाहेतुः सिद्ध इति // 20 // धारणे इति, प्रकरणम् अवसितम्= निवृत्तं भवति / यदा हि प्रकरणसमायां तत्त्वावधारणं नास्ति तदा प्रतिपक्षस्य प्रतिषेधः कथं स्यात्- एकतरपक्षावधारणेनैव परपक्षप्रतिषेधस्य संभवादिति न मदीयपक्षप्र. तिषेधः संभवतीति प्रकरणसमायाः प्रत्याख्यानमित्याशयः // 17 // अहेतुसमां लक्ष्यति-त्रैकाल्येति, हेतोबैकाल्यासिद्धेः= कालत्रयेपि सध्यसाधकत्वानुपपत्ति. प्रदर्शनेन साध्यासाधकत्वप्रदर्शनमऽहेतुसमा जातिरिति सूत्रान्वयः / हेतोःसाध्यासाधकत्वेनाऽहेतुसाम्या. दहेतुसमेत्यर्थः / व्याचष्टे- हेतुरिति, तत्= साधनम् / प्रथमपक्षे दोषमाह- यदीति, पूर्वम्= साध्यात्पूर्वम् / द्वितीयपक्षे दोषमाह- अथेति, पश्चात्= साध्यात् पश्चात् , साध्यसाधनयोः परस्परं निरूप्यनिरूपकभावोस्तीत्यनुसंधेयम् / तृतीयपक्षे दोषमाह- अथ युगपदिति, साध्यसाधने इतिप्रथमाद्विवचनम् / तृतीयपक्षे साध्यत्वसाधनत्वयोर्विनिगमनाविरहमाह-द्वयोरिति, द्वयोः साध्यसाधनयोर्वर्तमानयोर्मध्ये विशेषाभावात् साध्यत्वसाधनत्वव्यवस्था नोपपद्यते इत्यर्थस्तथा च साध्यासापकत्वाद् हेतोरहेतुतुल्यत्वं प्राप्तमित्यर्थः / निर्वचनमाह- अहेतुनेति / स्पष्टमन्यत् // 18 // __ अग्रिमसूत्रमवतारयति- अस्येति, अस्य= उक्तस्याहेतुसमस्य / नेति- हेतुतः साध्यसिद्धेःसाध्यसिद्धिसंभवात् हेतोरुक्ता त्रैकाल्यासिद्धिर्न दोषायेति सूत्रान्वयः / ब्याचष्टे- नेति, त्रैकाल्यासिद्धिर्न दोषायेत्यर्थः / उक्त हेतुं जिज्ञासते- कस्मादिति / हेतुमाह- हेतुत इति / उपपादयति-निर्वर्तनीयस्येति, निर्वर्तनीयस्य= संपाद्यस्य= साध्यस्य कार्यस्य निर्वृत्तिः= सिद्धिः, विज्ञेयस्य= विज्ञापनीयस्य अनुमेयस्य, उभयम्= निवृत्तिः विज्ञानं च, कारणतः= हेतुतः, दृश्यते= सिध्यति / उपसंहरति- सोय. मिति, घटादिकार्यस्य सिद्धिर्हेतुतः प्रत्यक्षा, ज्ञाप्यस्य वह्नयादेविज्ञानं च हेतुतः प्रत्यक्षमेवेति स्पष्टमेव तथा च हेतुतः साध्यसिद्धौ न किमपि बाधकमित्युत्तरम् / पूर्वपक्षमनुवदति- यत्त्विति / उत्तरमाहयत्त्विति, हेतुः कार्यस्य ज्ञाप्यस्य च साधनं भवतीत्यर्थः // 19 // - अहेतुसमायाः प्रतिषेधान्तरमाह- प्रतिषेधेति, यदा हि प्रतिषेधो नोपपद्यते तदा प्रतिषेध्यस्य प्रतिषेधो नोपपद्यते- प्रतिषेध्यप्रतिषेधस्य प्रतिषेधोपपत्त्यैव संभवात् . तथा च प्रतिषेधस्याऽहेतुसमस्याऽनुपपत्त्या प्रतिषेद्धव्यस्य= प्रतिषेध्यस्योक्तसाध्यस्य शब्दानित्यत्वस्य प्रतिषेधानुपपत्तिरिति सूत्रार्थः / व्याचष्टे- पूर्वमिति, तदेतद् अहेतुसमालक्षणे स्पष्टम् , इति प्रतिषेधो नोपपद्यते इत्यन्वयः / पर्यवसित