________________ 430 प्रसन्नपदापरिभूषितम्- [5 अध्याये. ५आह्निकेवस्थानं प्रकरणसमः ।समानं चैतद्वैधयेपि= उभयवैधात् प्रक्रियासिद्धेः प्रकरणसम इति॥१६॥ अस्योत्तरम्प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषेधानुपपतिः प्रतिपक्षोपपत्तेः॥ 17 // उभयसाधात् प्रक्रियासिद्धिं युवता प्रतिपक्षात् प्रक्रियासिद्धिरुक्ता भवति, यद्युभयसाधर्म्य तत्रैकतरः प्रतिपक्ष इत्येवं सत्युपपन्नः प्रतिपक्षो भवति. प्रतिपक्षोपपत्तेरनुपपन्नः प्रतिपेधः- यतः प्रतिपक्षोपपत्तिः प्रतिषेधोपपत्तिश्चेति विप्रतिषिद्धमिति / तत्त्वानवधारणाच प्रक्रियासिद्धिः- विषयेये प्रकरणावसानात तत्त्वावधारणे ह्यवसितं प्रकरणं भवतीति // 17 // धर्येणोच्यमानेपि हेतौ= श्रावणत्वादिहेतौ एतत्=प्रकरणानतिवर्तनं समानमेव- परेणाऽनित्यत्वसाधकहेतोः प्रयुक्तत्वादित्यन्वयः, अत्र- " एवमनित्यसाधनवादिनं प्रत्युत्तरं दर्शयित्वा नित्यत्वसाधनवादिनं प्रत्याह- समानं चैतत् (इति)" इतितात्पर्यटीका / पाठश्चायं तात्पर्यटीकानुसारेण संशोधितः, अत्र"एवं च सति प्रयत्नानन्तरीयकत्वादिति हेतुरनित्यसाधय॑णोच्यमानेन हेतौ " इतिपाठस्तु स्पष्टमेवासंगतः / निर्वक्ति- तदिदमिति / उक्तमन्यत्रातिदिशति- समानमिति, उक्तं व्याचष्टे- उभयेति, उभयवैधात्= दृष्टान्तप्रतिदृष्टान्तयोःधात् / ' शब्दो न नित्यः कृतकत्वेन नित्यवैधात् ' इत्येकः पक्षः. 'शब्दो नाऽनित्योऽस्पर्शत्वेनानित्यवैधात् ' इतिद्वितीयः पक्षः. तत्र प्रकरणनिवृत्त्यभावः पूर्ववदेव विज्ञेयः / अत्र- " तदेवं साधम्र्येण प्रकरणसमद्वयमुक्तं तथा वैधम्र्येण प्रकरणसमद्वयं नित्या ऽनित्यसाधनवादिनावेव प्रत्याह- समानं चैतदिति " " उभयवैधादिति- नित्याकाशवैधात् कृतकत्वाद् अनित्यघटवैधाच्चास्पर्शवत्वादिति " " तदेवं प्रकरणसमचतुष्टयम् " इति तात्पर्य टीका / स्पष्टमन्यत् / अत्र- "संशयसमासाधर्म्यसमाभ्यां प्रकरणसमा न भिद्यते, कथमिति ?, तत्रापि साधर्म्यमिहापीति, न- उभयपक्षसाधाद् भेदसिद्धेः= उभावत्र वादिप्रतिवादिनौ पक्षपरिग्रहेण नित्यत्वानित्यत्वे साधयतः न चैवं साधर्म्यसमसंशयसमयोरिति" इतिवार्तिकम् / अत्र- "प्रकरणसमे हि स्वपक्षनिश्चयेन मया वादिपक्षसाधनं दूषणीयमिति बुद्धया प्रवर्तते. साधर्म्यसमसंशयसमयोस्तु वादिसाधनेन साम्यमात्रापादनेन तद्रूपणं न तु प्रतिपक्षनिश्चयेनेति विशेषः" इतितात्पर्यटीका / संशयसमायामेक एव पुरुषः स्वसंशयेन पक्षद्वयं अवर्तयति अत्र तु द्वौ पुरुषाविति भेदः स्पष्ट एव // 16 // अग्रिमसूत्रमवतारयति- अस्येति, अस्य उक्तस्थ प्रकरणसमस्य / प्रतिपक्षादिति- प्रतिपक्षात्= प्रतिपक्षमाश्रित्य प्रकरणसिद्धेः= प्रकरणसिद्धया यो मदीयपक्षस्य प्रतिषेधः क्रियते स नोपपद्यते-प्रतिपक्षोपपत्तेः= त्वदीयपक्षापेक्षया प्रतिपक्षभूतस्य मदीयपक्षस्योपपत्तेरित्यन्वयः, प्रकरणसिद्धिः प्रतिपक्षादेव संभवति- पक्षक्ये प्रकरणासंभवात् . तस्य च प्रतिपक्षस्योपपत्तौ तस्य प्रतिषेधो नोपपद्यते. प्रतिपक्षस्य प्रतिषेधानुपपत्तौ च स्वपक्षो नोक्पद्यते इति नान्या प्रकरणसमया शब्दे नित्यत्वादिकमापद्यते इति प्रकरणसमाया निष्फलत्वमेव प्रतिषेधः, प्रतिपक्षाभावेपि प्रकरणसमाया अनुपपत्तिरितिसूत्रार्थः / व्याचलेउभयेति, यदा ह्युभयसाधात् प्रकरणसमा सिध्यति तदा प्रतिपक्षादपि प्रकरणसमासिद्धिः स्वीकार्याउभयशब्देन पक्षप्रतिपक्षयोयोरेव ग्रहणात् / प्रतिपक्षोपपत्तिमाह- यदीति, तत्र= उभयसाधम्र्येण प्रत्यवस्थाने / पर्यवसितमाह- प्रतिपक्षोपपत्तेरिति, प्रतिषेधः= प्रतिपक्षप्रतिषेधः / उक्तप्रतिषेधानुपपत्तौ हेतुमाह- यत इति, एकस्यैव पदार्थस्योपपत्तिप्रतिषेधौ न संभवत इति परस्परं विरुद्धाविति प्रतिपक्षस्योपपत्तिः प्रतिपक्षप्रतिषेधस्य चोपपत्तिरिति विप्रतिषिद्धम्= परस्परविरुद्धमेव तथा चोपपन्ने प्रतिपक्षे= मत्पक्षे तत्प्रतिषेधो नोपपद्यते, प्रतिपक्षानुपपत्तौ च प्रतिपक्षाधीना प्रकरणसमा नोपपद्यते इत्युभयत: पाशारज्जुरित्यर्थः / प्रकरणसमायाः कारणं प्रतिपादयन् विनिगमनाविरहमाह- तत्त्वेति, प्रक्रियासिद्धिः= पक्षप्रतिपक्षयोः संभवः / विपर्यये= तत्त्वावधारणे / अवसानम्= निवृत्तिः / उक्तं व्याचले- तत्त्वाव