________________ प्रकरणसमनिरूपणम् ] न्यायभाष्यमा 429 विशेषाद् वैधादवधार्यमाणेऽर्थे 'पुरुषः' इति न स्थाणुपुरुषसाधात् संशयोऽवकाशं लभते, एवं वैधाद् विशेषात् प्रयत्नानन्तरीयकत्वादवधार्यमाणे शब्दस्यानित्यत्वे नित्यानित्यसाधान् संशयोऽवकाशं न लभते. यदि वै लभेत ? ततः स्थाणुपुरुषसाधाऽनुच्छेदादत्यन्तं संशयः स्यात् , गृह्यमाणे च विशेष नित्यसाधर्म्य संशयहेतुरिति नाभ्युपगम्यते- नहि गृह्यमाणे पुरुषस्य विशेष स्थाणुपुरुषसाधर्म्य संशयहेतुर्भवति // 15 // उभयसाधात् प्रक्रियासिद्धेः प्रकरणसमः // 16 // उभयेन= नित्येन चानित्येन साधात् पक्षप्रतिपक्षयोः प्रवृत्तिः प्रक्रिया, 'अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवत् ' इत्येकः पक्षं प्रवर्तयति. द्वितीयश्च नित्यसाधर्म्यात्, एवं च सति 'प्रयत्नानन्तरीयकत्वात् ' इतिहेतुरनित्यसाधर्म्यणोच्यमानो न प्रकरणमतिवर्तते. प्रकरणानति तेनिर्णयानतिवर्तनम् , समानं चैतन्नित्यसाधम्र्येणोच्यमाने हेतौ, तदिदं प्रकरणानतिवृत्त्या प्रत्यरणेन नित्यत्वानित्यत्वसंशयो निवर्तते, उभयथा= सामान्यधर्मविशेषधर्मदर्शनाभ्यां वा संशये= यदि संशयस्तदाऽत्यन्तसंशयः स्यात्= कदापि संशयनिवृत्तिर्न स्यात्, किं च सामान्यस्य= शब्दत्वस्यापि नित्यत्वं न स्वीक्रियते येन तत्दृष्टान्तेन शब्दस्य नित्यत्वमापद्येत, तदेतत् परमुखेन वचनम् किं वा सामान्यस्य= साधर्म्यस्य= समानधर्मस्य नित्यत्वानभ्युपगमात्= नित्यत्वसंशयजनकत्वानभ्युपगमात् अप्रतिषेधः= प्रतिषेधः= उक्तरूपः संशयसमो नोपपद्यते इति सूत्रार्थः / अत्र- "साधर्म्यात्= साधर्म्यदर्शनात् संशयः, वैधात्= विशेषदर्शन्न संशयः, उभयथा तु संशये= सामान्यविशेषदर्शने सति संशयेऽत्यन्तसंशयप्रसङ्गः, नित्यं सामान्यं संशयं करोतीति तु न प्रतिपद्यामहे, सति सामान्ये विशेषदर्शनाद् व्यावृत्तेरिति (संशयनिवृत्तिदर्शनाद् )" इतिवार्तिकम् / व्याचष्टे- विशेषादिति, वैधात्= विशेषात्= पुरुषत्वव्याप्यधर्मविशेषात् अर्थे ' पुरुषः' इत्यवधार्यमाणे स्थाणुपुरुषयोरारोहादिलक्षणसाधर्म्यदर्शनादपि 'स्थाणुर्वा पुरुषो वा' इति संशयो न संभवतीत्यर्थः / सामान्यमुक्त्वा प्रकृतं विशेषमाह- एवमिति / नित्यानित्यसाधर्म्यात्= शब्दत्वघटयोरुक्तसाधात् , संशयः= शब्दे नित्यत्वानित्यत्वसंशयः / विपक्षे बाधकमाह- यदीति, यदि विशेषावधारणे सत्यपि नित्यानित्यसाधात् संशयोऽवकाशं लभेतेत्यर्थः / ततः= तदा, संशय कारणस्य साधर्म्यस्य विनाशाभावेन संशयनिवृत्तिः कदापि न स्यात् न चैवमस्ति किंतु विशेषधर्मज्ञानात् संशयो निवर्तते एवेत्यर्थः / पर्यवसितमाह- गृह्यमाणे इति, नित्यसाधर्म्यम्= शब्दत्वसाधर्म्यम् , 'नित्यं साधर्म्यम्' इतिपाठे तु 'साधर्म्य नित्यम्= सदा संशयहेतुरिति नाभ्युपगम्यते' इत्यन्वयः / विशेषग्रहणात् प्रागेव संशयो भवति नानन्तरमित्यर्थः / उक्ते विनिगमनामाह- न हीति / स्पष्टमन्यत् / विशेषावधारणमेव संशयनिवर्तकं तत्र यदि विशेषावधारणे जातेपि किंचित्सामान्यधर्मेण संशयः स्यात् तदा कदापि संशयनिवृत्तिर्न स्याद् विशेषावधारणादन्यस्य संशयनिवर्तकस्याऽसंभवादिति विशेषा. वधारणानन्तरं तत्र संशयो न भवतीति स्वीकार्यमित्याशयः / विशेषे= पुरुषत्वव्याप्यधर्मविशेषे।। 15 // प्रकरणसमां लक्षयति- उभयेति, उभयसाधात्= दृष्टान्तप्रतिदृष्टान्तयोः साधात् प्रक्रिया सिद्धेः= पक्षप्रतिपक्षलक्षणप्रकरणस्य सिद्धेः प्रकरणसमा जातिरिति सूत्रान्वयः, अन्यत्सर्वं भाष्ये स्पष्टम् / व्याचष्टे- उभयेनेति, अनेन प्रक्रियापदार्थो व्याख्यातः / एकं पक्षमाह- अनित्य इति, द्वितीयमाहद्वितीयश्चेति, एक:= वादी, द्वितीयः= प्रतिवादी, नित्यसाधात्= नित्यपदार्थसाधात् / 'नित्यः शब्दः श्रावणत्वात् शब्दत्ववत् ' इतिपक्षं द्वितीयः प्रवर्तयतीत्यर्थः / समन्वयति- एवं चेति, अनित्यसाधयेण= घटादिसाधम्र्येण, प्रकरणं च प्रक्रिया प्रतिपक्षमितियावत् / पर्यवसितमाह- प्रकरणेति, प्रकरणानतिवृत्तेः= प्रतिपक्षनिवृत्तेरभावात् निर्णयानतिवर्तनम् = शब्दे नित्यत्वानित्यत्वयोर्मध्ये एकतरधर्मस्य निर्णयासिद्धिरित्यर्थः / उक्तमन्यत्रातिदिशति- समानमिति, 'नित्यः शब्दः श्रावणत्वात् / इतिनित्यसा