________________ 428 प्रसन्नपदापरिभूषितम् [5 अध्याये. १आह्निकेअस्योत्तरम्तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः // 13 // तथाभावादुत्पन्नस्येति- उत्पन्नः खल्वयं शब्द इति भवति. प्रागुत्पत्तेः शब्द एव नास्तिउत्पन्नस्य शब्दभावात्. शब्दस्य सतः प्रयत्नानन्तरीयकत्वम् अनित्यत्वकारणमुपपद्यते. कारणोपपत्तेरयुक्तोयं दोषः- " प्रागुत्पत्तेः कारणाभावात् " इति // 13 // सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्यसा धात् संशयसमः॥१४॥ अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवदित्युक्ते हेतो. संशयेन प्रत्यवतिष्ठतेसति प्रयत्नानन्तरीयकत्वे अस्त्येवास्य नित्येन सामान्येन साधर्म्यम्- ऐन्द्रियकत्वम् अस्ति च घटेनानित्येन. अतो नित्यानित्यसाधादनिवृत्तः संशय इति // 14 // अस्योत्तरम्साधात्संशये न संशयो वैधात. उभयथा वा संशयेऽत्यन्तसंश यप्रसङ्गो नित्यत्वानभ्युपगमाच सामान्यस्याप्रतिषेधः // 15 // अग्रिमसूत्रमवतारयति- अस्येति, अस्य= उक्तस्यानुत्पत्तिसमस्य / तथेति- उत्पन्नस्यैव शब्दस्य तथाभावात= शब्दत्वसंभवात= स्वरूपसंभवात् उत्पन्नस्य च कारणोपपत्तेः= प्रयत्नानन्तरीयकत्वोपपत्तेः कारणस्य= अनित्यत्वहेतोः प्रयत्नानन्तरीयकत्वस्य प्रतिषेधो न संभवतीत्यन्वयः, यदा शब्दस्तदा शब्दे प्रयत्नानन्तरीयकत्वमप्यस्त्येवेति न पूर्वोक्तरीत्या शब्दवृत्तिप्रयत्नानन्तरीयकत्वस्य प्रतिषेधः संभवतीति सत्रार्थः।व्याचष्टे- तथाभावादिति, तथाभावादुत्पन्नस्येति सूत्रप्रतीकम् / अयं शब्द उत्पन्नः सन्नेव शब्दो भवति न तूत्पत्तेः पूर्वमपीत्यर्थः / उक्ते हेतुमाह- उत्पन्नस्येति, शब्दभावात्= शब्दत्वात्- शब्दस्य उत्पन्नस्य स्वरूपसंभवादित्यर्थः / पर्यवसितमाह- शब्दस्येति। सतः= विद्यमानस्य / उपसंहरति-कारणेति, कारणो. पपत्तेः अनित्यत्वकारणस्य प्रयत्नानन्तरीयकत्वस्योपपत्तेः / अयम्= पूर्वसूत्रोक्तः / शब्दोत्पत्तेः पूर्व शब्द एव नास्तीति शब्दस्वरूपसिद्धेः पूर्व यः खलु शब्दे प्रयत्नानन्तरीयकत्वाभावः स न दोषायेत्यर्थः // 13 // संशयसमां लक्षयति- सामान्येति, येनेन्द्रियेण पदार्थों गृह्यते तेनैवेन्द्रियेण तन्निष्ठा जातिः= सामन्यमपि गृह्यते इति शब्दत्वसामान्येप्यन्द्रियकत्वम्= इन्द्रियग्राह्यत्वं सिद्धं तथा च सामान्ये= शब्दत्वे दृष्टान्ते= घटे चैन्द्रियकत्वं समानमेव तचैन्द्रियकत्वं शब्देप्यस्ति तत्र सामान्यं नित्यं घटश्वानित्य इति तयोः नित्यानित्ययोः साधर्म्यात्= ऐन्द्रियकत्वसाधर्म्यात् शब्दे नित्यत्वानित्यत्वसंशयः- 'अनित्यः शब्द ऐन्द्रियकत्वाद् घटवत् / किं वा 'नित्यः शब्द ऐन्द्रियकत्वात् शब्दत्ववत् ' इति संशयेनैवं प्रत्यवस्थानं संशयसम इतिसूत्रार्थः / व्याचष्टे- अनित्य इति / हेतावित्यस्य ' इत्युक्ते' इत्यनेनान्वयः न तु संशयप्रयुक्तप्रत्यवस्थानेन / प्रत्यवस्थानमाह- सतीति, सत्यपीत्यर्थः, अस्य= शब्दस्य, शब्दे प्रयत्नानन्तरीयकत्ववद् ऐन्द्रियकत्वमप्यस्तीत्यर्थः तच्च नित्यानित्ययोः शब्दत्वघटयोरपि धर्मः, किं वा घटेनाऽनित्येन सह शब्दस्य प्रयत्नानन्तरीयकत्वं सामान्येन चन्द्रिकत्वं साधर्म्यमस्तीत्यर्थः / उपसंहरति-अत इति / नित्यानित्ययोः साधात् शब्दे नित्यत्वानित्यत्वयोः संशयो न निवर्तते इति संशयसमेत्यर्थः 14 अग्रिमसूत्रमवतारयति- अस्येति, अस्य= उक्तस्य संशयसमस्य / साधादिति- साधर्म्यात्= सामान्यधर्मदर्शनात् संशये= संशयसंभवेपि वैधात्= विशेषधर्मदर्शनात् संशयो न भवति किं तु संशयो निवर्तते एवेति शब्दे प्रयत्नानन्तरीयकत्वस्य विशेषधर्मस्य अनित्यत्वहेतोर्दर्शनादनित्यत्वावधा