________________ अनुत्पत्तिसमनिरूपणम् ] न्यायभाष्यम्। 427 यदि प्रज्ञापनार्थम् ?, प्रज्ञातो दृष्टान्तः स खलु- " लौकिकपरीक्षकाणां पस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः 1-1-25" इति तत्मज्ञापनार्थः कारणापदेशो निरर्थक इति प्रसङ्गसमस्योत्तरम् // 10 // अथ प्रतिदृष्टान्तसमस्योत्तरम्. प्रतिदृष्टान्तहेतुत्वे च नाऽहेतुर्दृष्टान्तः // 11 // प्रतिदृष्टान्तं ब्रुवता न विशेषहेतुरपदिश्यते- अनेन प्रकारेण प्रतिदृष्टान्तः साधको न दृष्टान्त इति, एवं प्रतिदृष्टान्तहेतुत्वे नाऽहेतुर्दृष्टान्त इत्युपपद्यते. स च कथं हेतुर्न स्याद् यद्यपतिषिद्धः साधकः स्यादिति // 11 // प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः // 12 // अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवदित्युक्ते अपर आह- प्रागुत्पत्तेरनुत्पन्ने शब्दे प्रयत्नानन्तरीयकत्वमनित्यत्वकारणं नास्ति तदभावाद् नित्यत्वं प्राप्तं नित्यस्य चोपत्तिर्नास्ति / अनुत्पत्त्या प्रत्यवस्थानमऽनुत्पत्तिसमः // 12 // कारणानपदेशात्" इतिपूर्वसूत्रोक्तं स्मर्तव्यम् / ननु दृष्टान्तस्य कारणापदेशः प्रज्ञापनार्थ मृग्यते ? इत्याह- यदीति / अस्योत्तरमाह- प्रज्ञात इति, हेतुसाध्यवत्त्वेन सिद्ध एव दृष्टान्तो भवतीति दृष्टान्तस्य हेतुसाध्यवत्त्वेन सिद्धथथै कारणापदेशो निरर्थक एवेत्यर्थः। दृष्टान्तस्य प्रज्ञातत्वसमर्थनार्थ पूर्वोक्तं दृष्टान्तलक्षणमाह- लौकिकेति, सूत्रमिदं पूर्वत्र व्याख्यातम् / उपसंहरति- तदिति, तत्प्रज्ञापनार्थ:= दृष्टान्तप्रज्ञापनार्थः, तथा च यथा दीपदर्शनार्थ दीपान्तरापेक्षा न भवति तथा दृष्टान्तस्योक्तरीत्या कारणापदेशापेक्षा= हेतुसमाधानापेक्षा नास्तीति प्रसङ्गसमा नोपपद्यते इत्यर्थः // 10 // - अग्रिमसूत्रमवतारयति- अथेति / प्रतीति- प्रतिदृष्टान्तस्य हेतुत्वे च= साधकत्वेपि दृष्टान्तः अहेतुः= असाधको न भवति तत्र दृष्टान्तप्रतिदृष्टान्तयोर्द्वयोरपि साधकत्वे व्याप्तिबलेनैव साध्यसिद्धिः संभवति न तु दृष्टान्तमात्रेणेति प्रतिदृष्टान्तमात्रेण साध्याभावापत्तिन संभवतीति नाकाशदृष्टान्तमात्रेणात्मनो निष्क्रियत्वमापद्यते इति प्रतिदृष्टान्तसमोत्तरमिति सूत्रार्थः / अत्र प्रथमं प्रतिदृष्टान्तसमा द्रष्टव्या / व्याचष्टे- प्रतिदृष्टान्तमिति / उपसंहरति- एवमिति, प्रतिदृष्टान्तस्य हेतुत्वेपि दृष्टान्तस्याऽहेतुत्वं नोपपद्यते इत्यर्थः / अत्र विनिगमनामाह- स चेति, सः= दृष्टान्तः, हेतुः= साधकः / अत्र- "कथमहेतुर्न स्यात् " इतिपाठान्तरं तु सूत्रवार्तिकविरुद्धमेव प्रतिभाति / अप्रतिषिद्धस्य= अदुष्टस्य साधकत्वं युक्तमेवेति लोष्टलक्षणदृष्टान्तस्यात्मनि क्रियावत्त्वसाधकत्वमुपपन्नमेवेति नाकाशलक्षणप्रतिदृष्टान्तेनात्मनि क्रियावत्त्वस्य बाधः संभवतीत्यर्थः / अत्र " साधकः” इति पाठो न युक्त इति प्रतिभाति // 11 // अनुत्पत्तिसमां जातिं लक्षयति- प्रागिति, उत्पत्तेः प्राक् पदार्थे कारणाभावात्= साध्यसाधकाभावात्= हेत्वभावात् साध्याभावप्रदर्शनमनुत्पत्तिसमा जातिरिति सूत्रान्वयः / व्याचष्टे- अनित्य इति, प्रयत्नानन्तरीयकत्वात्= प्रयत्नानन्तरभावित्वात् , यत्र यत्र प्रयत्नानन्तरभावित्वं तत्र तत्र जन्यत्वं तेन चानित्यत्वं स्पष्टमेव / अनुत्पत्तिसमामाह-प्रागुत्पत्तेरिति, यदा हि प्रागुत्पत्तेः शब्द एव नास्ति लदा शब्दे प्रयत्नानन्तरीयकत्वं कथं स्यान्-आधारं विना तदाधेयानुपपत्तेरिति स्पष्टमेव, तदभावात्= प्रयत्नानन्तरीयकत्वलक्षणस्यानित्यत्वकारणस्याभावात् / उपसंहरति- नित्यस्येति, एवं नित्यस्य शब्दस्योत्पत्त्यभा. वादनित्यत्वं नोपपद्यते इत्येवमनुत्पत्तिसमा जातिर्विज्ञेयेत्यर्थः। निर्वचनमाह- अनुत्पत्त्येति / प्रकृतेऽनुत्पत्या शब्दस्यानुत्पत्त्या, प्रत्यवस्थानम् = नित्यत्वप्रत्यवस्थानमित्यनुत्पत्तिसम इत्यन्वयः, स्पष्टमन्यत् 12