________________ प्रसन्नपदापरिभूषितम्- [5 अध्याये. १आह्निकेदृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच प्रतिदृष्टान्तेन . प्रसङ्गप्रतिदृष्टान्तसमौ // 9 // साधनस्यापि साधनं वक्तव्यमिति प्रसङ्गेन प्रत्यवस्थानं प्रसङ्गसनः प्रतिषेधः- क्रिया. . हेतुगुणयोगी क्रियावान् लोष्ट इतिहेतु पदिश्यते न च हेतुमन्तरेण सिद्धिरस्तीति / प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमः- “क्रियावानात्मा क्रियाहेतुगुणयोगात् लोष्टवत्' इत्युक्ते प्रतिदृष्टान्त उपादीयते- 'क्रियाहेतुगुणयुक्तमाकाशं निष्क्रियं दृष्टम् ' इति, कः पुनराकाशस्य क्रियाहेतुर्गुणः ? वायुना संयोगः संस्कारापेक्षः वायुवनस्पतिसंयोगवदिति // 9 // अनयोरुत्तरम् प्रदीपोपादानप्रसङ्गनिवृत्तिवत्तदिनिवृत्तिः॥१०॥ ___इदं तावदयं पृष्टो वक्तुमर्हति- अथ के प्रदीपमुपाददते किमर्थं चेति ?, दिदृक्षमाणा दृश्यदर्शनार्थमिति / अथ प्रदीपं दिदृक्षमाणाः प्रदीपान्तरं कस्मानोपाददते ?, अन्तरेणापि प्रदीपान्तरं दृश्यते प्रदीपस्तत्र प्रदीपदर्शनार्थं प्रदीपोपादानं निरर्थकम् / अथ दृष्टान्तः किमर्थमुच्यते इति ?. अप्रज्ञातस्य ज्ञापनार्थमिति / अथ दृष्टान्ते कारणापदेशः किमर्थं मृग्यते ?, प्रसङ्गसमप्रतिदृष्टान्तसमौ लक्षयति- दृष्टान्तस्येति, दृष्टान्तस्य हेतुमत्त्वे कारणानपदेशात्= प्रमाणानभिधानात्-हेत्वनभिधानात्= हेतुवचनानवस्थायां प्रसङ्गसमा जातिः, प्रतिदृष्टान्तेन प्रत्यवस्थानात्= साध्याभावबोधने च प्रतिदृष्टान्तसमा जातिरिति यथासंख्यं सूत्रान्वयः / व्याचष्टे- साधनस्यापीति, साधनस्य= हेतोरपि साधनम्= हेतुर्वक्तव्यः / प्रतिषेधः= जातिः / उदाहरति- क्रियेति, इति= इत्यत्रलोष्टस्य क्रियाहेतुगुणयोगित्वे हेतुर्नोच्यते हेतुं विना च हेतुमत्त्वसिद्धिर्न संभवति अन्यथा साध्यसिद्धिरपि हेतुमन्तरेण स्यादिति उत्तरोत्तरं हेतुर्वक्तव्य इति प्रसङ्गात् प्रसङ्गसमा जातिरित्यन्वयः।। / प्रतिष्टान्तसमां निर्वक्ति-प्रतिदृष्टान्तेनेति / उदाहरति-क्रियेति / प्रतिदृष्टान्तसमामाह-क्रिया हेतुगुणयुक्तमिति, ‘एवं क्रियाहेतुगुणयुक्तोप्यात्मा निष्क्रियः किं न स्यादाकाशवत् / इतिशेषः, तथा च लोष्टापेक्षया प्रतिदृष्टान्तेनाकाशेनाकाशवदात्मनः क्रियाहेतुगुणयुक्तत्वेपि निष्क्रियत्वं प्राप्तमिति लक्षणसमन्वयः / आकशस्य क्रियाहेतुगुणं जिज्ञासते-क इति / उत्तरमाह- वायुनेति, यथा वायुवृक्षसंयोगः क्रियाहेतुगुणस्तथा संस्कारापेक्षः= वायुगतस्थितिस्थापकादिसंस्कारजन्यो जीवादृष्टजन्यो वा वाय्वाकाशसंयोग एवाकाशस्य क्रियाहेतुगुण इत्यन्वयः / वस्तुतस्तु संस्कारापेक्ष इतिविशेषणं चिन्त्यम् / आकाशे च क्रियाया अभावात् क्रियाहेतुगुणोपि न संभवतीति " क्रियाहेतुगुणयुक्तमाकाशम्" इत्यायुक्तं जात्युत्तरमिति विज्ञेयम् , प्रतिदृष्टान्तेनात्मनो निष्क्रियत्वस्यापादनात् प्रतिदृष्टान्तसमा // 9 // अग्रिमसूत्रमवतारयति- अनयोरिति, अनयोः= प्रसङ्गसमप्रतिदृष्टान्तसमयोः / प्रदीपेति- यथा प्रदीपदर्शनार्थ प्रदीपान्तरग्रहणस्य प्रसङ्गो नास्ति तथा तत्= तस्य= हेतुसिद्धयर्थ हेत्वन्तरप्रदर्शनप्रसङ्गस्य निवृत्तिविज्ञेयेति प्रसङ्गसमाया उत्तरमिति सूत्रार्थः / व्याचष्टे- इदमिति, अयम्= पूर्वोक्तजातिवादी, इदं वक्तुमर्हतीत्यन्वयः / स्वप्रष्टव्यमाह- अथेति / पूर्वपक्षी उत्तरमाह- दिदृक्षमाणा इति / अग्रिमप्रष्टव्यमाह- अथ प्रदीपमिति / पूर्वपक्ष्युत्तरमाह- अन्तरेणेति, तत्र= प्रदीपान्तरं विनापि प्रदीपस्य दृश्यमानत्वादित्यर्थः / प्रकृतं पृच्छति- अथ दृष्टान्त इति / उत्तरमाह- अप्रज्ञातस्येति, अप्रज्ञातस्य= असिद्धस्य पदार्थस्य ज्ञापनार्थम्= साधनार्थम् / परमं प्रकृतं पृच्छति- अथ दृष्टान्ते इति, दृष्टान्ते= दृष्टान्तस्य कारणापदेशः हेतुमाधकनिर्देशस्त्वया किमर्थ मृग्यते-- अपेक्ष्यते उक्तरीत्येत्यन्वयः, अत्र... " दृष्टान्तस्य