________________ 9-10 जातिनिरूपणम् ] न्यायभाष्यम् / प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याऽविशिष्टत्वाद प्राप्त्या साधकत्वाच्च प्राप्त्यप्राप्तिसमौ // 7 // हेतुः प्राप्य वा साध्यं साधयेदप्राप्य वा ?, न तावत् प्राप्य- प्राप्त्यामविशिष्टत्वादऽसाधकः--द्वयोविद्यमानयोः प्राप्तौ सत्यां किं कस्य साधकं साध्यं वा ? / अप्राप्य साधकं न भवति- नामाप्तः प्रदीपः प्रकाशयतीति / प्राप्त्या प्रत्यवस्थानं प्राप्तिसमः, अप्राप्त्या प्रत्यवस्थानमाप्तिसमः // 7 // अनयोरुत्तरम् घटादिनिष्पत्तिदर्शनात् पीडने चाभिचारादप्रतिषेधः॥८॥ उभयथा खल्क्युक्तः प्रतिषेधः- कर्तृकरणाधिकरणानि प्राप्य मृदं घटादिकार्य निष्पादयन्ति, अभिचाराच्च पीडने सति दृष्टममाप्य साधकत्वमिति // 8 // महानसादिदृष्टान्तत्वेनातिदिश्यते इत्यर्थः / उपसंहरति- एवमिति, साध्यसत्त्वेन दृष्टान्तस्य दृष्टान्तत्वे उपपन्ने तस्य पक्षवत् साध्यत्वम्= साध्यवत्त्वेन साध्यत्वं साध्यसमायां यदुक्तं तदनुपपन्नमिति साध्यसमाया अनुपपत्तिरित्यर्थः / एवं वर्ण्यसमायां निश्चितसाध्यवतो यत् पक्षत्वमुक्तं तन्नोपपद्यते-साध्यनिश्चयवस्वेन सपक्षत्वात् पक्षत्वानुपपत्तेः, अवर्ण्यसमायां च यत् साध्यनिश्चयरहितस्य सपक्षत्वमुक्तं तदपि नोपपद्यते प्राप्तिसमाऽप्राप्तिसमयोर्लक्षणमाह- प्राप्येति, हेतोः साध्यं प्राप्य= संयुज्य साध्यसाधकत्वपक्षे प्राप्त्याऽविशिष्टत्वातू= साध्यसाधनयोः संयोगस्य परस्परमविशेषात् साध्यसाधनभावो नोपपद्यते इति प्राप्तिसमा जातियथा वह्निमान् धूमादित्यत्र वह्निधूमयोः संयोगस्य समानत्वाद् धूमवद् वढेरपि हेतुत्वं स्यात् किं वा वन्हिवद् धूमस्यापि साध्यत्वं स्यादिति / हेतोः साध्यमप्राप्य= असंयुज्य साध्यसाधकत्वपक्षे अप्रात्याऽअसाधकत्वात्= संबन्धाभावे साधकत्वासंभवात् साध्यसाधनभावो नोपपद्यते इति अप्राप्तिसमाजातियथा वह्नयसंयुक्तस्य धूमस्य वह्निसाधकत्वं नोपपद्यते इति स्पष्टमेवेति सूत्रार्थः / व्याचष्टेहेतुरिति, प्राप्य= संयुज्य, प्रथमकल्पासंभवमाह- नेति, प्राप्त्याम= संबन्धे= संयोगे, अविशिष्टत्वात्= विशेषाभावात् / उक्तं व्याचष्टे-द्वयोरिति, द्वयोः= साध्यसाधनयोः, प्राप्तौ= संयोगे, तथा च यथा वह्निमान् धूमादिति संभवति तथा धूमवान् वह्नरित्यपि स्यादित्यर्थः / द्वितीयकल्पासंभवमाहअप्राप्येति / अत्र दृष्टान्तमाह- नेति / तथा च वह्नयसंयुक्तस्यापि धूमस्य वह्निसाधनत्वं नोपपद्यते इत्यर्थः। निर्वचनमाह-प्राप्त्येति. अप्राप्त्येति च // 7 // अग्रिमसूत्रमवतारयति- अनयोरिति, अनयोः प्राप्तिसमाऽप्राप्तिसमयोः। घटादीति-घटादि. कारणानि मृदादिकमुपादानं प्राप्य= संयुज्य घटादिकं संपादयन्तीति कारणसंयोगात् घटादिनिष्पत्तिदर्शनात् प्राप्तस्य साधनस्य साधकत्वं नानुपपन्नम् , " श्येनेनाभिचरन् यजेत " इतिश्रुत्या श्येनस्याऽभिचारसाधनत्वमुक्तं तत्रासंयुक्तेनैव श्येनयागेन शत्रुपीडा साध्यते इति अभिचारात् यत् पीडनं जायते तत्र " अप्राप्य साधकं न भवति " इतिनियमस्य व्यभिचार इति प्राप्तस्याऽप्राप्तस्य च साधनस्य साधकत्वप्रतिषेधो नोपपद्यते इतिसूत्रार्थः / व्याचष्टे- उभयथेति, उभयथा प्राप्य चाप्राप्य चेत्युभयथापि, प्रतिषेधः= साधकत्वप्रतिषेधः / प्राप्यसाधकत्वमाह- कीति, अधिकरणम् चक्रादिकम् / तथा च प्राप्य साधकत्वं सिद्धम् , संयोगस्य विशेषाभावेपि साधनत्वधर्मेण व्यप्यत्वादिना विशिष्टस्यैव साधनत्वमिति न विनिगमनाविरह इत्यर्थः / अप्राप्य साधकत्वमाह- अभिचारादिति, अभिचारात्= श्येनादियागात् / सति- सिद्धे / इयेनादीनामप्राप्य साधकत्वं दृष्टमित्यप्राप्तस्यापि साधकत्वं नानुपपन्नं स्पष्टमन्यत् // 8 //