________________ 424 प्रसन्नपदापरिभूषितम्- [5 अध्याये. १आह्निकेएतेषामुत्तरम् किंचित्साधादुपसंहारसिद्धेधादप्रतिषेधः // 5 // अलभ्यः सिद्धस्य निह्नवः, सिद्धं च किंचित्साधादुपमानम्- 'यथा गौस्तथा गवयः' इति, तत्र न लभ्यो गोगवययोधर्मविकल्पश्चोदयितुम्, एवं साधके धर्मे दृष्टान्तादिसामर्थ्ययुक्ते न लभ्यः साध्यदृष्टान्तयोधर्मविकल्पात्= वैधात् प्रतिषेधो वक्तुमिति // 5 // साध्यातिदेशाच दृष्टान्तोपपत्तेः॥६॥ यत्र लौकिकपरीक्षकाणां बुद्धिसाम्यं तेनाऽविपरीतोऽर्थोऽतिदिश्यते प्रज्ञापनार्थम्. एवं साध्यातिदेशाद् दृष्टान्ते उपपद्यमाने साध्यत्वमनुपपन्नमिति // 6 // सादृश्यमाह- यदीति / एवं सादृश्यं प्रदर्य साध्यसमामुदाहरति- साध्य इति, साध्यः= क्रियावत्त्वेन साध्यः, लोष्टात्मनोः परस्परं सादृश्यमस्तीति आत्मनि क्रियावत्त्वे साध्ये लोष्टेपि क्रियावत्त्वं साध्यमेव स्यादित्यत्र लोष्टस्य दृष्टान्तत्वानुपपत्तिरित्यर्थः / विपक्षे बाधकमाह- अथेति, यदि लोष्टे क्रियावत्त्वं न साध्यं किं तु सिद्धमेव तदा लोष्टात्मनोः सादृश्यं नोपपद्यते- धर्मभेदादित्याह- नेति / तथा चात्र साध्यस्य क्रियावत्त्वस्योभयत्र= पक्षदृष्टान्तयोः साध्यत्वमापादितमिति साध्यसमा जातिरिति लक्षणसमन्वयः / पूर्वत्र तु पञ्चस्वपि जातिषु पक्षदृष्टान्तयोधर्मविकल्पः= धर्मभेदः प्रदर्शित इतिसूत्रोक्तलक्षणसमन्वयः // 4 // ___ अग्रिमसूत्रमवतारयति- एतेषाम्= उक्तानामुत्कर्षसमादीनां षण्णां जातीनाम् / किंचिदितिकस्यचित्साधात् उपसंहारसिद्धेः= साध्योपसंहारे सिद्ध कस्यचिद्वैधात् साध्यस्य प्रतिषेधो न संभवतीति सूत्रान्वयः / व्याचष्टे- अलभ्य इति, अलभ्यः= अशक्यः, निह्नवः अपलापः / दृष्टान्तस्वरूपमाहसिद्धमिति, किंचित्साधर्म्यात्= किंचित्साधर्म्यविशिष्टं यत् सिद्धं भवति तदुपमानम्= दृष्टान्तो भवति न त्वसिद्धं वा सर्वधर्मविशिष्टं वेत्यर्थः / दृष्टान्तमुदाहरति- यथेति / प्रकृतमाह- तत्रेति, तत्र= गोगवययोः सादृश्ये सिद्धे धर्मविकल्प:= धर्मभेदः= सादृश्याभावश्चोदयितुम्= उपपादयितुं न लभ्यः= न शक्य इत्यन्वयः / परमं प्रकृतमाह- एवमिति, साधके धर्मे= हेतौ दृष्टान्तादिसामर्थ्ययुक्ते= दृष्टान्तादिसाहाय्ययुक्ते सति साध्यदृष्टान्तयोः= पक्षदृष्टान्तयोधर्मविकल्पात्= वैधात्= धर्मान्तरभेदात्= धमान्तरेण वैसादृश्यादपि साध्यप्रतिषेधो वक्तं न शक्य इत्यन्वयः, तथा चोदाहृतस्थलेषु पक्षदृष्टान्तयोः किंचिद्वैधात् साध्यप्रतिषेधो न संभवतीत्यर्थः, यथोत्कर्षसमोदाहरणे स्पर्शवत्त्वाभावेनात्मनि क्रियावत्त्वाभावो न संभवति / अपकर्षसमायां लोष्टस्याविभुत्वेनात्मन्यविभुत्वं न संभवति- पक्षसपक्षयोः सर्वात्मना साधासंभवात् , वर्ण्यसमावर्ण्यसमयोश्च पक्षसपक्षयोर्यो धर्मविपर्यास उक्तः स नोपपद्यते / दृष्टान्तसाहश्येन पक्षे साध्ये सिद्धे साध्याभावो नोपपद्यते इति विकल्पसमानुपपत्तिः, दृष्टान्ते साध्यनिश्चयसत्त्वादेव साध्यसमाया अनुपपत्तिरित्येवं योज्यम् // 5 // वावर्ण्यसाध्यसमानां समाधानान्तरमाह- साध्येति, अत्र- " वावर्ण्यसाध्यसमानामपरं प्रत्याख्यानमाह " इति तात्पर्यटीका, साध्यातिदेशात्= साध्यसत्त्वप्रदर्शनेन दृष्टान्तस्य दृष्टान्तत्वमुपपद्यते तथा च लोष्टे क्रियावत्त्वस्य साध्यस्य प्रत्यक्षत्वात् लोष्टस्य दृष्टान्तत्वमुपपद्यते न त्वात्मन इतिसूत्रान्वयः / अत्र- " न हि दृष्टान्तदृष्टसकलधर्मयोगित्वं पक्षस्य सुवचं तथा सति दृष्टान्तदान्तिकभावस्यैवानुपपत्तेः किं तु दृष्टान्तदृष्टसाध्यव्याप्यहेतुमत्तानिश्चयेन साध्यमानं पक्षे सिध्यति न तत्समानाधिकरणं धर्मान्तरं नापि पक्षप्रसिद्धधर्मवत्ता दृष्टान्ते- साधकाभावादिति भावः” इति श्रीगुरुचरणास्तथा च लोष्टवृत्तिस्पशादीनामात्मन्यतिप्रसङ्गो न संभवतीत्यर्थः / व्याचष्टे- यत्रेति, यत्र लौकिकपरीक्षकाणां बुद्धिसाम्यं स दृष्टान्तस्तेन= दृष्टान्तेनाऽविपरीतः= अनुकूल:= सदृशोर्थः प्रज्ञापनार्थम्= परं प्रति बोधनार्थमतिदिश्यते यथा महानसबद् वह्निमानिति, किं वा तेन- उक्तबुद्धिसाम्येनानुकूलोों