________________ 3-4-5-6-7-8 जातिनिरूपणम् ] न्यायभाष्यम् / 423 साध्ये धर्माभावं दृष्टान्तात् प्रसजतोऽपकर्षसमः- लोष्टः खलु क्रियावानऽविभुष्टः काममात्मापि क्रियावानविभुरस्तु. विपर्यये वा विशेषो वक्तव्य इति / ख्यापनीयो वर्यो विपर्ययादवर्ण्यः तावेतौ साध्यदृष्टान्तधर्मों विपर्यस्यतो वावर्ण्यसमौ भवतः। ___ साधनधर्मयुक्ते दृष्टान्ते धर्मान्तरविकल्पात् साध्यधर्मविकल्पं प्रसजतो विकल्पसमःक्रियागुणहेतुयुक्तं किंचिद् गुरु यथा लोष्टः किंचिच्च लघु यथा वायुरेवं क्रियाहेतुगुणयुक्तं किंचित् क्रियावत् स्याद् यथा लोष्टः किंचिदक्रियं यथाऽऽत्मा. विशेषो वा वाच्य इति / हेत्वाद्यवयवसामर्थ्ययोगी धर्मः साध्यस्तं दृष्टान्ते प्रसजतः साध्यसमः- यदि 'यथा लोष्टस्तथाऽऽत्मा ? प्राप्तस्तर्हि ' यथात्मा तथा लोष्टः' इति. साध्यश्चायमात्मा क्रियावानिति कामं लोष्टोपि साध्यः, अथ नैवम् ? न तर्हि ' यथा लोष्टस्तथात्मा' (इति) // 4 // समायां व्याख्यातम् / प्रकृतमाह-लोष्टवदेवेति, अत्र तदेतिशेषः / विपक्षे बाधकमाह- अथेति / विपर्यये= आत्मा लोष्टवत् क्रियावानस्ति स्पर्शवान्नास्तीत्यत्र, इत्यनेन विनिगमाविरहः प्रदर्शितस्तेन विशेषहेत्वभावः समत्वहेतरुपलब्ध इत्यत्कर्षसमः- आत्मनि स्पर्शवत्त्वलक्षणोत्कर्षस्य आधिक्यस्य साधनात् , अत्र दृष्टान्तधर्मस्य= लोष्टधर्मस्य स्पर्शवत्त्वस्यानिष्टस्यात्मन्यापादनं स्पष्टमेव / अपकर्षसमं व्याचष्टे- साध्ये इति, दृष्टान्तात्= दृष्टान्तसादृश्यात् साध्ये= पक्षे विद्यमानधर्मस्याऽभावमापादयतोऽपकर्षसमः / उदाहरति- लोष्ट इति, अत्रात्मनि विद्यमानं यद्विभुत्वं तदऽभावस्याऽविभुत्वस्यापादनं लोष्टसादृश्यात् स्पष्टमेवेत्यपकर्षसमः- अपकर्षापादनात्, अन्यत् पूर्ववदेव व्याख्येयम् / वावर्ण्यसमौ व्याचष्टे- ख्यापनीय इति, विपर्ययात्= वर्ण्यविपरीतोऽख्यापनीयोऽवर्ण्य इत्यर्थः, वर्ण्यत्वम्= संदिग्धसाध्यकत्वं तच्च साध्यस्य पक्षस्य धर्मस्तविपर्यस्यतः= तद्विपर्यये= पक्षस्य निश्चितसाध्यकत्वे वर्ण्यसमः, ख्यापनीयः- उपपाद्यः= साध्यः, अवर्ण्यत्वम्= निश्चितसाध्यकत्वं तच्च दृष्टान्तधर्मस्तद्विपर्यये= दृष्टान्तस्यानिश्चितसाध्यकत्वे चाऽवर्ण्यसम इत्यन्वयः / यथा- 'घटोऽनित्यः कृतकत्वात् शब्दवत् यदि शब्दो नानित्यस्तदा घटोप्यनित्यो न स्यात् ' इत्यत्र घटेऽनित्यत्वसंशयो नास्ति शब्दे चानित्यत्वसंशयोस्तीति पक्षदृष्टान्तौ विपरीतौ जाताविति पक्षस्य घटस्य संदिग्धसाध्यकत्वाभावात् वर्ण्यसमा जातिः. दृष्टान्तस्य शब्दस्य निश्चितसाध्यकत्वाभावादवर्ण्यसमा जातिः. साध्यं चात्रानित्यत्वमित्याशयः प्रतिभाति / किं वा 'अनित्यो घटः कृतकत्वात् पटवत्' इत्यत्र वर्ण्यसमा- घटे पक्षेऽनित्यत्वसंशयाभावात् , 'बुद्धिरनित्या कृतकत्वात् शब्दवत् ' इत्यत्र दृष्टान्ते शब्देऽनित्यत्वनिश्चयाभावादवर्ण्यसमा जातिरित्येवं पृथक् पृथगुदाहार्यम् / .. विकल्पसमं व्याचष्टे- साधनेति, साधनधर्मयुक्ते= हेतुयुक्ते, तथा हि- 'क्रियावानात्मा क्रियाहेतुगुणयोगात् लोष्टवत्' इत्युक्ते विकल्पसमामुदाहरति- क्रियेति, अत्र दृष्टान्ते लोष्टे साधनधर्मयुक्ते= हेतुयुक्ते= क्रियाहेतुगुणयुक्ते धर्मान्तरविकल्पात्= क्रियाहेतुगुणयुक्तस्य लघुत्वालघुत्वधर्मभेदात् पक्षे साध्यधर्मविकल्पम्= साध्यधर्मभेदम्= साध्यधर्माभावम्= क्रियावत्त्वाभावं प्रसजतः= आपादने विकल्पसमाजातिरिति लक्षणसमन्वयः, प्रकृते क्रियाहेतुगुणयुक्तस्यापि वायोर्यथा लोष्टवन्न गुरुत्वं तथा क्रियाहेतुगुणयुक्तस्याप्यात्मनो लोष्टवन्न क्रियावत्त्वप्रसङ्गः- पदार्थानां विकल्पात्= वैविध्यादित्यर्थः / विनिगमनाविरहमाह- विशेष इति, विशेष:= आत्मा क्रियावानेवास्तीत्यत्र विशेषहेतुर्वा वाच्यः / विशेषहेत्वभावश्च समत्वायोजक इति विकल्पसमः- विकल्पस्य= दृष्टान्तधर्माभावस्य= क्रियावत्वाभावस्यापादनात् / साध्यसमं व्याचष्टे- हेत्वादीति, हेत्वाद्यवयवानां सामर्थ्ययोगी सामथ्र्येनोपपाद्यमानः साध्यः, तम्= साध्यम्= साध्यस्य धर्मस्य दृष्टान्ते साध्यत्वं प्रसजतः= आपादयत इत्यर्थः, किं वा तं साध्यं दृष्टान्ते साध्यत्वेनापादयत इत्यर्थः, 'क्रियावानात्मा क्रियाहेतुगुणयोगात् लोष्टवत् / इत्युक्ते प्रथमं लोष्टात्मनोः