________________ 422 प्रसन्नपदापरिभूषितम्- [5 अध्याये. १आह्निकेवैधाद् गोत्वादेव गौः सिध्यति न गुणादिभेदात् , तच्चैतत् कृतव्याख्यानमवयवप्रकरणे, प्रमाणानामभिसंबन्धाच्चैकार्थकारित्वं समानं वाक्ये इति, हेत्वाभासाश्रया खल्लियमऽव्यवस्थेति॥३॥ साध्यदृष्टान्तयोधर्मविकल्पादुभयसाध्यत्वाच उत्कर्षापकर्ष वर्ष्यावर्ण्यविकल्पसाध्यसमाः॥ 4 // दृष्टान्तधर्म साध्ये समासजत उत्कर्षसमः- यदि क्रियाहेतुगुणयोगाल्लोष्टवत् क्रियावा. नात्मा ( तदा ) लोष्टवदेव स्पर्शवानपि प्रामोति. अथ न स्पर्शवान् लोष्टवत् क्रियावानपि न प्रामोति, विपर्यये वा विशेषो वक्तव्य इति / धात् संप्रतिपन्नगोदृष्टान्तात् जातिविशेषाद् गोत्वाद् हेतुतः गौः सिध्यति यथा 'इयं गौः गोत्वात् संप्रतिपन्नगोवत्' इति, न तु सास्नादिसंबन्धमात्रात्- तेषां व्यभिचारित्वात्= सास्नादीनां पश्वन्तरेपि संभवात् , एवमश्वादिवैधात् अश्वादिव्यतिरेकदृष्टान्तादपि गोत्वादेव गौः सिध्यति न तु गुणादिभेदात्- गुणादिभेदस्यापि पश्वन्तरे संभवेन व्यभिचारित्वात् यथा 'अयं गौः गोत्वाद् यो न गोत्ववान स न गौः यथाऽश्वादिः ' इति, तथा च नात्मनि आकाशवैधर्येण वा लोष्टसाधर्म्यमात्रेण वा उक्तरीत्या सक्रियत्वं संभवति. एवं साध्यान्तरेष्वपि विज्ञेयम् / एतत् पूर्वमपि विचारितमित्याह- तच्चेति, अवयवप्रकरणे= प्रथमाध्यायप्रथमाह्निके " उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः 34 " इत्यादिसूत्रेषु द्रष्टव्यम् / अनुमानवाक्यस्यैकसाध्यसाधकत्वमाह- प्रमाणानामिति, प्रमाणानाम्= अवयवानां वाक्ये= एकवाक्यघटकानामभिसंबन्धात्= परस्परं संबन्धादेकार्थकारित्वम्= एकसाध्यसाधकत्वं समानम् = सर्वानुमानप्रयोगसाधारणं भवति यथा 'पर्वतो वह्निमान् धूमात् ' इतिवाक्यघटकानां प्रतिज्ञाद्यवयवानां वह्निसाधकत्वं भवति तथा चैकत्र विरुद्धधर्मापत्तिर्न संभवति- परस्परविरुद्धधर्मसाधकयोर्हेत्वोर्मध्ये एकस्यैव हेतोः सद्धेतुत्वेन साध्यसाधकत्वसंभवादित्याशयः प्रतिभाति / इयं चाव्यवस्था हेत्वाभासनिष्ठा= हेत्वाभासेन भवति यथा 'वह्निमान् जलात् ' इत्युक्ते जलदस्यापि वह्निमत्त्वं प्रसज्यते तथा चात्मनि सक्रियत्वसाधको हेतुर्हेत्वाभास एवेति न तेनात्मनि सक्रियत्वप्रसक्तिरित्यर्थः प्रतिभाति तदाह- हेत्वाभासाश्रयेति / " कृतव्याख्यानम् " इत्यत्र " कृतव्यवस्थानम् " इतिपाठान्तरम् / अत्र-" सास्नादीत्यतद्गुणसंविज्ञानो बहुव्रीहिस्तेन व्यभिचारिणः शृङ्गादयो गृह्यन्ते " इति तात्पर्यटीका // 3 // उत्कर्षसमाऽपकर्षसमवय॑समाऽवर्ण्यसमविकल्पसमसाध्यसमानां (3-8) लक्षणमाह- साध्येति, साध्यदृष्टान्तयोः= पक्षदृष्टान्तयोरुभयोधर्मविकल्पात्= धर्मभेदात् उत्कर्षापकर्षवर्ध्यावर्ण्यविकल्पसमा जातयो भवन्ति, उभयसाध्यत्वात्= पक्षदृष्टान्तयोरुभययोरपि प्रदर्शनीयधर्मस्य साध्यत्वे साध्यसमा जातिरित्यन्वयः सूत्रस्य, अन्यदुदाहरणसमन्वये स्पष्टम् , अत्रत्या वृत्तिरपि द्रष्टव्या। तथाह्यत्र- " वावर्ण्यसाध्येति भावप्रधानो निर्देशः वर्ण्यत्वादिना समो वर्ण्यसमादिः, अविद्यमानधर्मारोप उत्कर्ष: विद्यमानधर्मापचयोऽपकर्षः वर्ण्यत्वं वर्णनीयत्वं तच्च संदिग्धसाध्यकत्वादि, तदभावोऽवर्ण्यत्वं, विकल्पो वैविध्यं, साध्यत्वं पञ्चावयवसाधनीयत्वम् , साध्यदृष्टान्तयोधर्मविकल्पादिति पञ्चानामुत्थानबीजम् उभयसाध्यत्वादिति षष्ठस्य, उभय पक्षदृष्टान्तौ तद्धर्मों हेत्वादिस्तत्साध्यत्वम्=तदधीनानुमितिविषयत्वम्” इत्यादिवृत्तिः / अत्र- "दृष्टान्ते दृष्टस्य पक्षेऽनिष्टस्य धर्मस्य साध्येन सहापादनमुत्कर्षसमः, दृष्टान्ते विद्यमानधर्माभावापादनमपकर्षसमः, दृष्टान्तसादृश्यमात्रेण साध्यापादनं वर्ण्यसमः, पक्षसादृश्यमात्रेण दृष्टान्ते साध्याभावापादनमवर्ण्यसमः, पक्षदृष्टान्तयोधर्मान्तरेण वैसादृश्यात् साध्यसाधनमसाध्यसाधनं वा विकल्पसमः, दृष्टान्ते दृष्टस्यापि साध्यत्वापादनं साध्यसमः, इति षड् जातयः" इतिश्रीगुरुचरणाः। क्रमेण भाष्यकारो व्याचष्टे- दृष्टान्तेति, दृष्टान्तधर्मम्= साध्यविशेषम्. साध्ये= पक्षे, समामानतः आपादयतः= आपदने इतियावत् / उदाहरति- यदीति, क्रियाहेतुगुणयोगादित्यादि साधर्म्य