________________ 1-2 जातिनिरूपणम् ] न्यायभाष्यम्। 421 वैधर्येण चोपसंहारे- ' निष्क्रिय आत्मा- विभुत्वात्. क्रियावद् द्रव्यमविभु दृष्टं यथा लोष्टः न च तथात्मा तस्माद् निष्क्रियः' इति, वैधर्येण प्रत्यवस्थानम्- 'निष्क्रियं द्रव्यमाकाशं क्रियाहेतुगुणरहितं दृष्टं न तथात्मा तस्मान निष्क्रियः' इति. न चास्ति विशेषहेतु:-क्रियावद्वैधाद निष्क्रियेण भवितव्यं न पुनरक्रियवैधात् क्रियावतेति. विशेषहेत्वभावाद् वैधर्म्यसमः / अथ ( पुनः ) साधर्म्यसमः- ‘क्रियावान् लोष्टः क्रियाहेतुगुणयुक्तो दृष्टः तथा चात्मा तस्मात् क्रियावान् ' इति. न चास्ति विशेषहेतुः- क्रियाववैधाद् निष्क्रियो न पुनः क्रियावत्साधात् क्रियावानिति. विशेषहेत्वभावात् साधर्म्यसमः // 2 // अनयोरुत्तरम् गोत्वाद्गोसिद्धिवत्तत्सिद्धिः॥३॥ साधर्म्यमात्रेण वैधर्म्यमात्रेण च साध्यसाधने प्रतिज्ञायमाने स्यादव्यवस्था सा तु धर्मविशेषे नोपपद्यते, गोसाधाद् गोत्वाजातिविशेषाद् गौः सिध्यति न तु सास्नादिसंबन्धात्. अश्वादिस्थानं करोति- क्रियेति, तस्माद्वैधर्म्यसमः, वैधयं च परिच्छिन्नत्वापरिच्छिन्नत्वाभ्याम्- लोष्टः परिच्छिन्न आत्मा चापरिच्छिन्न इति, न तथा= न परिच्छिन्नः / तस्मात्= अपरिच्छिन्नत्वात् / एवं विरोधे प्राप्ते विनिगमनाविरहमाह- न चेति, क्रियावतो लोष्टस्य द्रव्यत्वलक्षणसाधात्. क्रियावतो लोष्टस्य अपरिच्छिन्नत्वलक्षणवैधादित्यन्वयः / समत्वहेतुमाह- विशेषेति / वैधये॒णोपसंहारे वैधम्र्येण प्रत्यवस्थानाद् वैधर्म्यसममुदाहरति-वैधयेणेति, निष्क्रिय आत्मा' इत्यादिनात्मनि लोष्टवैधम्र्येण निष्क्रियत्वस्योपसंहारे कृते= निष्क्रियत्वे साधिते 'निष्क्रियम्' इत्यादिनाऽऽकाशवैधयेणात्मनि निष्क्रियत्वाभावस्य प्रत्यवस्थानं कृतमिति वैधर्म्यसमः / पूर्वप्रयोगे न च तथात्मा= नाऽविभुरात्मेत्यर्थः, द्वितीयप्रयोगे च न च तथात्मा= न क्रियागुणहेतुरहित आत्मेत्यर्थः / तस्मात् क्रियाहेतुगुणयुक्तत्वात्। आत्मा क्रियाहेतुगुणसहित आकाशश्च क्रियाहेतुगुणरहित इतिवैधर्म्यम् / एवं विरोधे विनिगमनाविरहमाह-न चेति, क्रियावद्वैधात्= लोष्टादिवैधात् , अक्रियवैधात्= आकाशादिवैधात् / समत्वहेतुमाह-विशेषेति / वैधयेणोपसंहारे साधम्र्येण प्रत्यवस्थानात् साधर्म्यसममुदाहरति-क्रियावानिति, अत्र " निष्क्रिय आत्मा " इतिपूर्वोक्तः प्रयोगः प्रथममध्याहार्यस्तथा चात्रात्मनि लोष्टवैधयेण निष्क्रियत्वस्योपसंहारे कृते " क्रियावान् " इत्यादिना लोष्टसाधर्म्यणात्मनि क्रियावत्त्वस्य प्रत्यवस्थानं कृतमिति साधर्म्यसमः / तथा क्रियाहेतुगुणयुक्तः, तस्मात्= क्रियाहेतुगुणयुक्तत्वात् / एवं विरोधे विनिगमनाविरहमाह-न चेति / समत्वहेतुमाह-विशेषेति / स्पष्टमन्यत् , प्रथमोदाहरणे च सर्व व्याख्यातमेवेत्यलम् / वस्तुतस्त्वेतदपि साधर्म्यसमोदाहरणमिति “अथ वैधय॑समः" इत्यतः पूर्वमेव वक्तव्यमासीत् // 2 // ___अग्रिमसूत्रमवतारयति- अनयोरिति, अनयोः= साधर्म्यसमवैध→समयोः / गोत्वादिति- यथा गोत्वादेव गोस्वरूपसिद्धिर्भवति न तु वचनमात्रेण उक्तं च- "गौः स्वरूपेण न गौ प्यगौः गोत्वाभिसंबन्धात्तु गौः” इति, तथा व्याप्यहेतुनैव तत्= तस्य साध्यस्य सिद्धिर्भवति न तु येन केनापि हेतुना वचनमात्रेण वेति न पूर्वोक्तरीत्या लोष्टादिसाधर्म्यमात्रेणात्मनि सक्रियत्वादिकं सिध्यतीति निष्क्रियत्वसिद्धिरिति सूत्रार्थः / व्याचष्टे- साधर्म्यमात्रेणेति, प्रतिज्ञायमाने= क्रियमाणे, अव्यवस्था= अनिष्टधर्मप्रसक्तिः, यदि साधर्म्यमात्रेण वैधय॑मात्रेण वा साध्यसिद्धिः स्यात्तदा लोष्टसाधादाकाशवैधाद्वात्मन्यऽनित्यत्वमपि सिध्यत न चैतद यक्तमित्याह-सेति. सा= अव्यवस्था धर्मविशेषे गृह्यमाणे नोपपद्यते तथा चात्मनि विभुत्वधमें गृह्यमाणे सक्रियत्वं न संभवतीत्यर्थः, किं वा धर्मविशेषे=धर्मविशेषस्याव्यवस्था नोपपद्यते तथा च सक्रियत्वं धर्मः परिच्छिन्नेषु संभवति न तु विभावात्मनीत्यर्थः / उदाहरति- गोसाधादिति, गोसा