________________ प्रसन्नपदापरिभूषितम् 5 अध्याये. आह्निकलक्षणं तुसाधयंवैधाभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ // 2 // साधणोपसंहारे साध्यधर्मविपर्ययोपपत्तेः साधर्म्यणैव प्रत्यवस्थानमऽविशिष्यमाणं स्थापनाहेतुतः साधर्म्यसमः प्रतिषेधः, निदर्शनम्- ‘क्रियावानात्मा- द्रव्यस्य क्रियाहेतुगुणयोगात्. द्रव्यं लोष्टः क्रियाहेतुगुणयुक्तः क्रियावान् तथा चात्मा तस्मात् क्रियावान्' इति, एवमुपसंहृते परः साधम्र्येणैव प्रत्यवतिष्ठते- 'निष्क्रिय आत्मा- विभुनो द्रव्यस्य निष्क्रियत्वात्. विभु चाकाशं निष्क्रियं च तथा चात्मा तस्माद् निष्क्रियः' इति, न चास्ति विशेषहेतुः-क्रियावत्साधात् क्रियावता भवितव्यं न पुनरक्रियसाधा निष्क्रियेणेति, विशेषहेत्वभावात् साधर्म्यसमः प्रतिषेधो भवति / __ अथ वैधर्म्यसमः- 'क्रियाहेतुगुणयुक्तो लोष्टः परिच्छिन्नो दृष्टो न तथात्मा तस्मान्न लोष्टवत क्रियावान् ' इति. न चास्ति विशेषहेतुः- क्रियावत्साधात् क्रियावता भवितव्यं न पुनः क्रियावद्वैवादक्रियेणेति. विशेषहेत्वभावाद् वैधर्म्यसमः / ___ अग्रिमसूत्रमवतारयति- लक्षणमिति / विभक्तासु जातिषु साधर्म्यसमावैध→समयोर्लक्षणमाहसाधम्येति, साध्यस्य साधम्र्येण वा वैधम्र्येण वा वादिनोपसंहारे कृते तद्धर्मविपर्ययोपपत्तेः= उपसंहृतधर्मापेक्षया= साध्यापेक्षया विपरीतेन साधर्म्यण प्रत्यवस्थाने साधर्म्यसमा. विपरीतेन वैधर्येण प्रत्यवस्थाने वैधर्म्यसमा जातिरिति सूत्रान्वयः, तथा च साधर्म्यणोपसंहारे साधम्र्येण प्रत्यवस्थानं वैधम्र्येणोपसंहारे च साधर्म्यण प्रत्यवस्थानमिति साधर्म्यसमाया द्वौ भेदौ, एवं वैधम्यणोपसंहारे वैधयेंण प्रत्यवस्थानं साधम्र्येणोपसंहारे वैधर्येण प्रत्यवस्थानमिति च वैधर्म्यसमाया द्वौ भेदौ संजातौ / अन्यत्सर्वमुदाहरणेन स्पष्टं भविष्यति / अत्र- “साधर्म्यणोपसंहारे तद्विपरीतसाधर्म्यण प्रत्यवस्थानं वैधयेणोपसंहारे तद्विपरीतेन साधम्र्येण प्रत्यवस्थानं साधर्म्यसमः, एवं वैधयेणोक्ते हेतौ तद्विपरीतवैधम्र्येण प्रत्यवस्थानं साधम्येणोक्ते हेतौ तद्विपरीतवैधाण प्रत्यवस्थानं वैधर्म्यसमः' इतिवार्तिकम् / साधर्म्यसमं व्याचष्टे-साधम्र्येणेति, वादिना साध्यस्य साधयेणोपसंहारे कृते साध्यधर्मविपर्ययोपपत्तेः वादिनः साध्यलक्षणधर्मापेक्षया विपर्ययस्य= विपरीतधर्मस्योपपत्ते:-- उपपादने स्थापनाहेतुतः साधयेणाऽविशिष्यमाणम् सदृशं प्रत्यवस्थानं साधर्म्यसमः प्रतिषेधः= जातिरित्यन्वयः / उदाहरति-क्रियेति, न्यायमते आत्मनि क्रिया नास्ति आत्मनो विभुत्वादित्यनुसंधेयम् , आत्मा द्रव्यत्वात् लोष्टवत् क्रियाहेतुगुणयुक्तः क्रियाहेतुगुणयोगाच्च क्रियावानित्यर्थः, क्रियाहेतुगुणश्च संयोगादिः, उदाहरणमाह- द्रव्यमिति / उपनयमाह- तथेति, तथा= क्रियाहेतुगुणयुक्तः, निगमयति-तस्मादिति, तस्मात्= क्रियाहेतुगुणयोगात् / प्रकृतमाह- एवमिति, लोष्टसाधम्येणात्मनि क्रियावत्त्वे उपसंहृते / प्रत्यवस्थानमुदाहरति- निष्क्रिय इति, विभुद्रव्यत्वादिति हेत्वर्थः, उदाहरणमाह- विभिवति, उपनयमाह- तथेति, तथा= विभुद्रव्यम् , निगमयति- तस्मादिति, तस्मात्= विभुद्रव्यत्वात्। तथा चात्र लोष्टसाधयेणात्मनि क्रियावत्त्वस्योपसंहारे वादिना कृते प्रतिवादिनाप्याका. शसाधम्र्येणैवाऽऽत्मनि निष्क्रियत्वस्य प्रत्यवस्थानं कृतमिति साधर्म्यसम इति लक्षणसमन्वयः। एवं विरोधे प्राप्ते विनिगमनाविरहमाह- न चेति / समत्वहेतुमाह- विशेषहेत्वभावादिति, उक्तोभयोरप्यनुमानयोरुक्तरीत्या विशेषो नास्तीति समत्वं प्राप्तं तेनात्र समशब्दप्रयोग इत्यर्थः / अत्र- “साधर्म्यमेव समं वैधर्म्य मेवसममिति समार्थः= समीकरणार्थः प्रयोगो द्रष्टव्यः, विशेषहेत्वभावो वा समार्थ:- न भवता विशेषहेतुः कश्चिदपदिश्यते इति" इतिवार्तिकम् / वैवर्म्यसमामुदाहरति- अथेति, अत्रापि “क्रियावानात्मा" इतिपूर्वोक्तः प्रयोगः प्रथममध्याहार्यः, तथा चात्मनि लोष्टसाधाण क्रियावत्त्वे उपसंहृते प्रतिवादी लोष्टवैधhणात्मनि निष्क्रियत्वस्य प्रत्यव