________________ 416 प्रसन्नपदापरिभूषितम्- [4 अध्याये. २आह्निके" तद्विद्यैश्च सह संवादः" इत्यविभक्तार्थ वचनं विभज्यतेतं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोर्थिभिरनसूयुभिरभ्युपेयात् // 48 // एतन्निगदेनैव नीतार्थमिति // 48 // यदि मन्येत- पक्षप्रतिपक्षपरिग्रहः प्रतिकूलः परस्येति प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्वे // 19 // " तमभ्युपेयात्" इतिवर्तते, परतः प्रज्ञामुपादित्समानस्तत्त्वबुभुत्साप्रकाशनेन स्वपक्षमनवस्थापयन् स्वदर्शनं परिशोधयेदिति // 49 // अन्योन्यप्रत्यनीकानि च प्रावादुकानां दर्शनानि स्वपक्षरागेण चैके न्यायमतिवर्तन्ते. तत्रतत्त्वाध्यवसायसंरक्षणार्थ जल्पवितण्डे बीजप्ररोहसंरक्षणार्थ कण्टकशाखावरणवत् // 50 // अनुत्पन्नतत्त्वज्ञानानामहीणदोषाणां तदर्थं घटमानानामेतदिति / / 50 / / विद्यानिर्वेदादिभिश्च परेणावज्ञायमानस्य अग्रिमसूत्रमवतारयति- तद्विधैरिति / तद्विद्यानां विभागो न कृत इति तेषामनेन सूत्रेण विभागः क्रियते इत्यर्थः / तमिति- तम्= संवादम् , सब्रह्मचारी= सतीर्थः, विशिष्टः= स्वापेक्षयाधिकविद्यावान श्रेयो = मोक्षाभिलाषी एतैरनुसूयुभिः संवादं अभ्युपेयात्= कुर्यादिति सूत्रान्वयः / व्याचष्टे- एतदिति, निगदः= वाक्यव्यक्तिस्तया एतत्सूत्रम् नीतार्थम्= गृहीतार्थम्= व्याख्यातम् . स्पष्टार्थमित्यर्थः // 48 / / ___अग्रिमसूत्रमवतारयति- यदीति, परस्य= गुर्वादेः पक्षप्रतिपक्षपरिग्रहः= स्वपक्षस्थापनं तत्पक्षप्रत्याख्यानं च प्रतिकूलं तथा च संवादो न संभवति-प्रतिकूलाचारस्यानिष्टत्वादिति यदि मन्येत जिज्ञासुरित्यर्थः। अत्रोपायमाह-प्रतिपक्षेति, अर्थित्वे संवादार्थित्वे सति प्रयोजनार्थम्= तत्त्वज्ञानपरिपाकलक्षणस्वप्रयोजनसिद्धयर्थ प्रतिपक्षरहितमपि संवादं कुर्यादिति सूत्रान्वयः ।व्याचष्टे- तमिति, तम्= संवादम् / वर्तते= अनुवर्तते / परतः= गुर्वोदितः प्रज्ञाम्=तत्त्वज्ञानमुपादित्समानः-ग्रहीतुंप्रवृत्तः स्वपक्षमनवस्थापयन्= पक्षप्रतिपक्षौ परित्यज्य तत्त्वबुभुत्साप्रकाशनेन= तत्त्वज्ञानग्रहणेच्छां प्रकाश्य= जिज्ञासुरहमस्मि न प्रतिवादीत्युक्त्वा स्वदर्शनं परोपदेशेन शोधयेदित्यन्वयः / स्वदर्शनम्= स्वकीयं तत्त्वज्ञानम् / स्पष्टमन्यत् / / 49 / / ___ अग्रिमसूत्रमवतारयति- अन्योन्येति, प्रावादुकानाम्= पूर्वाचार्याणाम् / स्वपक्षरागेण स्वपक्षाऽऽग्रहेण एके वादकर्तारः।अतिवर्तनम्= उल्लङ्घनम् / तत्र=न्यायातिवर्तने।न्यायातिवर्तने जल्पवितण्डयोः प्रयोगमाह- तत्त्वेति, यथा बीजप्ररोहसंरक्षणार्थम् = शस्यरक्षार्थ कण्टकशाखाभिरावरणं क्रियते तथा परेण न्यायातिवर्तने कृते परपक्षखण्डनेन तत्वाध्यवसायस्य= स्वपक्षस्य संरक्षणार्थ जल्पवितण्डे प्रयोक्तव्ये इति सूत्रार्थः / अत्र- " ननु यत्र वादस्यैव दशेयमीहशी तत्त्वनिर्णये दत्तजलाञ्जली तर्हि जल्पवितण्डे इत्यत पाह- स्वपक्षरागेण चैके” इतितात्पर्यटीका / व्याचष्टे- अनुत्पन्नेति, तदर्थम्= तत्त्वज्ञानोत्पत्त्यर्थ दोषनिवृत्त्यर्थं च किं वा तत्त्वज्ञानवस्वनिर्दोषत्वसिद्धयर्थ घटमानानाम्= यतमानानाम् = वादं कुर्वताम् , एतत्= जल्पवितण्डाभ्यां निराकरणमित्यर्थः / किं च तत्त्वज्ञानरहिताः सदोषाश्च पुरुषाः स्वदोषनिवृ. त्यर्थ स्वदोषाच्छादनार्थ वा जल्पवितण्डयोः प्रयोगं कुर्वन्ति न तु निर्दोषा अपि निदोषाणां वादेनापि स्वपक्षरक्षासंभवादित्यनुसंधेयम् // 50 // अप्रिमसूत्रमवतारयति- विद्येति, विद्यानिवेंदादिभिः= स्वविद्याकुत्सनादिभिः, परेण स्वविद्याकुत्सने कृतेपि जल्पवितण्डाभ्यां कुत्सकपक्षनिराकरणं कर्तव्यमित्यर्थः प्रतिभाति, कर्तृत्वं षष्ठयर्थः /