________________ तत्त्वज्ञानसिद्धिप्रकारः] न्यायभाष्यम्। 415 तस्य= अपवर्गस्याधिगमाय यमनियमाभ्यामात्मसंस्कारः, यम:= समानमाश्रमिणां धर्मसाधनम् , नियमस्तु विशिष्टम् , आत्मसंस्कारः पुनरधर्महानं धर्मोपचयश्च, योगशास्त्राचाध्यात्मविधिः प्रतिपत्तव्यः स पुन:- तपः प्राणायामः प्रत्याहारो ध्यानं धारणेति, इन्द्रियविषयेषु प्रसंख्यानाभ्यासो रागद्वेषप्रहाणार्थः, उपायस्तु योगाचारविधानमिति // 46 // __.. ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः // 47 // " तदर्थम्" इतिप्रकृतम् / ज्ञायतेऽनेनेति ज्ञानम्= आत्मविद्याशास्त्रं तस्य ग्रहणम्= अध्ययनधारणे, अभ्यास:= सततक्रिया= अध्ययनश्रवणचिन्तनानि, तद्विद्यैश्च सह संवाद इति प्रज्ञापरिपाकार्थ. परिपाकस्तु संशयच्छेदनम् अविज्ञातार्थबोधः अध्यवसिताभ्यनुज्ञानमिति, समापवादः संवादः // 47 // विध्युपायैश्चात्मसंस्कारः संपाद्य इतिसूत्रान्वयः, इदं हि सूत्रकारस्य सूत्रनिर्माणकौशलम् / अत्र" आत्मविधिः= आत्मसाक्षात्कारविधायकवाक्यम्- आत्मा वा अरे द्रष्टव्यः आत्मानं चेद्विजानीयादित्यादि. योगादिति प्रतिपाद्यत्वं पञ्चम्यर्थस्तथा च योगशास्त्रोक्तात्मतत्त्वाधिगमसाधनैश्वात्मसंस्कारः कर्तव्य इत्यर्थः" इति विश्वनाथभट्टाः / व्याचष्टे- तस्येति / यमपदार्थमाह- यम इति, यमपदार्थानामहिंसादीनां सर्वाश्रमसाधारणत्वाद् यमस्यैतल्लक्षणम् / नियममाह- नियम इति, आश्रमिणां विशिष्टम्= असाधारणं धर्मसाधनं नियम इत्यर्थः / आत्मसंस्कारमाह- आत्मेति / अध्यात्मविधिसाधनमाह- योगशास्त्रादिति / अध्यात्मविधिस्वरूपमाह- स पुनरिति, सः= अध्यात्मविधिः / इन्द्रियविषयेषु= शब्दस्पर्शादिषु स्त्रीशरीरादिषु च यः प्रसंख्यानस्य= तत्त्वज्ञानस्याभ्यासः स रागद्वेषनिवृत्त्यर्थः- तत्त्वज्ञानेन तत्स्वरूपसाक्षात्कारात् तत्र रागद्वेषौ न भवत इत्यर्थः / योगाचारविधानम्= योगशास्त्रोक्ताचारस्याऽनुष्ठानमेव उपायः आत्मसंस्कारोपाय इत्यर्थः, स्पष्टमन्यत् / अत्र सूत्रे " अध्यात्मविध्युपायैः" इत्यत्र 'अध्यात्मविधिरुपायैः' इत्येवं पाठो युक्तः / अत्र- " यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावक्षानि "" अहिंसा सत्याऽस्तेयब्रह्मचर्यापरिग्रहा यमाः" "शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः" " स्थिरसुखमासनम् " " तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः" " स्वविषयासंप्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः" " देशबन्धश्चित्तस्य धारणा" " तत्र प्रत्ययैकतानता ध्यानम्" " तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः" इतियोगसूत्राणि अनुसंधेयानि. व्याख्यानं चैषां योगभाष्यादौ द्रष्टव्यमित्यलम् / प्राणायामः प्रसिद्धः, चित्तस्य बाह्यविषयेभ्यो निरोधः प्रत्याहारः, एकत्र संलग्नता= एकपरायणता ध्यानम् , तस्यातिशयः समाधिः / अत्र- " योगाचारः= एकाकिता आहारविशेषः एकत्रानवस्थानमित्यादि यतिधोक्तम् " इतितात्पर्य- . टीका / " तपः= द्वन्द्वसहनम्" इतियोगभाष्यम् , द्वन्द्वश्च शीतोष्णादिकमिति प्रसिद्धमेव // 46 // तत्त्वज्ञानपरिपाकोपायमाह- ज्ञानेति, तत्त्वज्ञानसिद्धयर्थ ज्ञानस्य= आत्मविद्यायाः न्यायशास्त्रस्य ग्रहणाभ्यासौ कर्तव्यौ, तस्वज्ञानपरिपाकाथै च तद्विद्यैः= न्यायशास्त्रज्ञैः सह संवादः कर्तव्यः इतिसूत्रान्वयः, अन्यत्सर्वं भाष्ये स्पष्टमेव / व्याचष्टे- तदर्थमिति / प्रकृतम् पूर्वसूत्रादनुवर्तनीयम् / ज्ञानपदार्थमाह- ज्ञायते इति / तस्य= आत्मविद्याशास्त्रस्य / ग्रहणपदार्थमाह- ग्रहणमिति / अभ्यासपदार्थमाहअभ्यास इति / अध्ययनम्= वाक्याध्ययनम् , श्रवणम्= वाक्यार्थाध्ययनमिति विवेकः, चिन्तनम्= मननम् / प्रज्ञा= तत्त्वज्ञानम् / परिपाकपदार्थमाह- परिपाक इति / अध्यवसिते= स्वनिश्चिते आत्मादिपदार्थस्वरूपे अभ्यनुज्ञानम्= परानुमतिसंपादनम् / संवादपदार्थमाह- समेति, समस्य शास्त्रस्य संवादकर्तुर्वाऽपवादः संवादः= वादः किं वा समेन विदुषाऽपवादः मननमेव संवाद इत्यर्थः, अत्र “समाय बादः संवादः" इतिपाठान्तरम् , अन्यत् सर्व स्पष्टम् // 47 //