________________ 414 प्रसन्नपदापरिभूषितम्- [4 अध्याये. २आह्निके अपवर्गेप्येवं प्रसङ्गः // 43 // मुक्तस्यापि वाह्यार्थसामर्थ्याद् बुद्धय उत्पद्येरनिति // 43 // न-निष्पन्नावश्यम्भावित्वात् // 44 // कर्मवशान्निष्पन्ने शरीरे चेष्टेन्द्रियार्थाश्रये निमित्तभावादवश्यम्भावी बुद्धीनामुत्पादः, न च प्रबलोपि सन् बाह्योऽर्थ आत्मनो बुद्धयुत्पादे समर्थो भवति- तस्येन्द्रियेण संयोगाद् बुद्धयुत्पादे सामर्थ्य दृष्टमिति // 44 // तदभावश्वापवर्गे // 45 // तस्य= बुद्धिनिमित्ताश्रयस्य शरीरेन्द्रियस्य धर्माधर्माभावादभावोऽपवर्गे. तत्र यदुक्तम्" अपवर्गेप्येवं प्रसङ्गः 43" इति तदयुक्तम् , तस्मात् सर्वदुःखविमोक्षोपवर्गः / यस्मात् सर्वदुःखबीजं सर्वदुःखायतनं चापवर्गे विच्छिद्यते तस्मात् सर्वेण दुःखेन विमुक्तिरपवर्गः. न निर्वीज निरायतनं च दुःखमुत्पद्यते इति // 45 // तदर्थ यमनियमाभ्यामात्मसंस्कारो योगाचाध्यात्मविध्युपायैः॥४६॥ सूत्रेण शङ्कते- अपवर्गति, एवम्= उक्तादर्थप्राबल्यादपवर्गपि विषयज्ञानं प्रसज्येत तेन च रागद्वेषानुत्पत्त्याऽपवर्गस्यापर्गत्वक्षति: संसारतुल्यतापत्तिश्च स्यात् न चैवमस्तीत्यर्थप्राबल्यमकिंचित्करमिति न समाध्यनुपपत्तिरिति सूत्रार्थः / व्याचष्टे- मुक्तस्येति, बाह्यार्थप्राबल्यस्वीकारे इतिशेषः, आक्षेपवाक्यमिदम् , सर्व स्पष्टम् // 43 / / पूर्वपक्षी समाधत्ते- नेति, विषयबुद्धेरुत्पत्तिं प्रति निष्पन्नस्य= कर्मणोत्पन्नस्य शरीरादेवश्यम्भावित्वात्= अविनाभावात्= कारणत्वनियमात् मुक्तस्य च शरीराद्यभावात् न विषयबुद्धेरुत्पत्तिसंभव इति सूत्रार्थः / अत्र- " पूर्वपक्षिणः सिद्धान्तसूत्रम्" इतितात्पर्यटीका / व्याचष्टे- कमेंति, शरीरस्य चेष्टाद्याश्रयत्वं स्पष्टमेव, अर्थाश्रये= अर्थभोगाश्रये शरीरे शरीरस्य, एतादृशे शरीरे सत्येव विषयबुद्धिरुत्पद्यते नान्यथा- शरीरस्य विषयबुद्धिं प्रति कारणत्वात् तस्मिन् शरीरे च सति विषयबुद्धीनामुत्पादोऽवश्यम्भावीति संसारावस्थायां विषयज्ञाननिवृत्तिन संभवति, मोक्षे च विषयज्ञानापत्तिर्नास्ति- कारणीभूतस्य शरीरस्याभावादित्यर्थः / प्रकृतमाह-न चेति, मोक्षावस्थायामितिशेषः / उक्ते हेतुमाह- तस्येति, तस्यबाह्यार्थस्य= विषयस्येन्द्रियेण संयोगे सत्येव तद्विषया बुद्धिरुत्पद्यते इति दृश्यते मुक्तस्य च शरीरेन्द्रियादिकं नास्तीति न मुक्तस्य विषयबुद्धेरुत्पत्तिप्रसङ्ग इत्यर्थः // 44 // उक्तसूत्रस्य शेषमाह- तदिति, अपवर्गे तदभावः= विषयबुद्धिकारणीभूतस्य शरीरादेरभाव इति न मुक्तस्य विषयबुद्धेरुत्पत्तिप्रसङ्ग इति सूत्रान्वयः / अत्र पूर्वसूत्रेण पूर्वपक्षिणा विषयबुद्धिं प्रति शरीरादेः कारणत्वे उपपादिते अनेन सूत्रेण सिद्धान्तिनापवर्गे शरीराद्यभाव उपपादितस्तथा च यथापवर्गावस्थाया- . मर्थप्राबल्यमकिंचित्करं तथा समाध्यवस्थायामपीति न समाध्यनुपपत्तिरित्येवं ग्रन्थसंगतिर्विज्ञेया / व्याचष्टे- तस्येति, बुद्धिनिमित्तस्य बुद्ध्याश्रयस्य चेत्यन्वयस्तत्र बुद्धिनिमित्तमिन्द्रियादिकं बुद्धयाश्रयश्च शरीरमित्यर्थः / अपवगें धर्माधर्मयोरभावाच्छरीराभावः शरीराभावाद् विषयबुद्धयभाव इत्यर्थः / पूर्वपक्षं निराकरोति- तत्रेति / उपसंहरति- तस्मादिति / निगमयति- यस्मादिति, सर्वदुःखबीजं कर्म, सर्वदुःखायतनं शरीरम् / विपक्षे बाधकमाह- नेति, दुःखस्य बीजमायतनं चापवर्गे विच्छिद्यते इति नापवर्ग दुःखभोगापत्तिरिति सर्वदुःखविमोक्षोऽपवर्ग इत्यन्वयः, स्पष्टमन्यत् // 45 // तदर्थमिति- तदर्थम्= अपवर्गसिद्धयर्थ किं वा समाधिसिद्धयर्थ यमनियमाभ्यामात्मसंस्कार:आत्मनः समाधियोग्यता= एकाग्रता संपाद्या, अपवर्गपक्षे अपवर्गप्राप्तियोग्यता संपाद्या, योगाचाध्यात्म