________________ तत्त्वज्ञानोत्पत्तिप्रकारः] न्यायभाष्यम्। 413 अस्त्वेतत् समाधिव्युत्थाननिमित्तं समाधिपत्यनीकं च. सति त्वेतस्मिन्. पूर्वकृतफलानुबन्धात् तदुत्पत्तिः // 41 // पूर्वकृतः= जन्मान्तरोपचितस्तत्त्वज्ञानहेतुर्धर्मप्रविवेकः फलानुबन्धः= योगाभ्याससामर्थ्य, निष्फले ह्यभ्यासे नाभ्यासमाद्रियेरन्. दृष्टं हि लौकिकेषु कर्मस्वाभ्याससामर्थ्यम् // 41 // प्रत्यनीकपरिहारार्थ च अरण्यगृहापुलिनादिषु योगाभ्यासोपदेशः // 42 // योगाभ्यासजनितो धर्मो जन्मान्तरेप्यनुवर्तते, प्रचयकाष्ठागते तत्त्वज्ञानहेतौ धर्मे प्रकृष्टायां समाधिभावनायां तत्त्वज्ञानमुत्पद्यते इति, दृष्टश्च समाधिनार्थविशेषप्राबल्याभिभवः- 'नाहमेतदश्रौषम् नाहमेतदज्ञासिपम्- अन्यत्र मे मनोऽभूत्' इत्याह लौकिक इति // 42 // यद्यर्थविशेषप्राबल्यादनिच्छतोपि बुद्धयुत्पत्तिरनुज्ञायते? सिद्धान्तसूत्रमवतारयति- अस्त्विति, एतत्= पूर्वोक्तं पदार्थप्राबल्यं क्षुदादिकं च समाधिव्युत्थाननिमित्तम् समाधिविघातकं समाधिप्रत्यनीकम्= समाधिविरुद्धं चास्तु. सति त्वेतस्मिन्= उक्ते समाधिप्रतिबन्धके सत्यपि पूर्वछतफलानुबन्धात्तदुत्पत्तिरिति सूत्रेणान्वयः / पूर्वेति- पूर्वकृतस्य= पूर्वजन्मन्यऽनुष्ठितस्य समाधेः फलानुबन्धात्= संस्कारानुरोधात्= संस्कारसमवायात् तदुत्पत्तिः= अत्र जन्मनि समाधिसिद्धिः संभवतीति न प्रतिबन्धकवशात् समाध्यभाव उपपद्यते. समाधिना च तत्वज्ञानसंभव इतिसूत्रार्थः / अत्र- "पूर्वकतः समाधिस्तस्य फलं संस्कारस्तस्यानुबन्धः स्थमा तस्मादिति सूत्रार्थः" इतितात्पर्यटीका / किं वा पूर्वकृतस्य पुण्यविशेषस्य फलानुबन्धात्= आत्मसमवेतादृष्टसामर्थ्यात् समाधिसिद्धिः संभवतीतिसूत्रार्थः / व्याचष्टे- पूर्वकृत इति, अत्र- "प्रविविच्यते= विशिष्यतेऽनेनेति प्रविवेकः धर्मश्चासौ प्रविवेकश्चेति धर्मप्रविवेकः= प्रकृष्टः संस्कारः स त्वात्मधर्मः" इति तात्पर्यटीका, धर्मप्रविवेकस्य फलानुबन्धमाह- फलेति, फलानुबन्धः= पूर्वकृतयोगाभ्यासस्य सामर्थ्य तस्मात् समाधिसिद्धिर्भवतीत्यर्थः, अभ्यासस्य साफल्यमाह-निष्फले इति / अभ्याससामध्ये प्रत्यक्षं प्रमाणयति- दृष्टभिति, सामर्थ्यम्= संस्कारः, अभ्यासेन संस्कारोत्पत्तिः प्रत्यक्षैव तथा च पूर्वकृतयोगाभ्यासेन वा पूर्वकृतसुकृतेन वा संस्कार उत्पद्यते तेन च संस्कारेणात्र समाधिसिद्धिः संभवतीत्यर्थः // 41 // अग्रिमसूत्रमवतारयति- प्रत्यनीकेति / अरण्येति-प्रत्यनीकस्य= समाधिप्रतिबन्धकस्य परि. हारार्थमेव अरण्ये गुहायां पुलिनादिषु= नदीतीरादिनिर्जनप्रदेशे एव योगाभ्यासस्य= समाध्यनुष्ठानस्य योगशास्त्रेणोपदेशः क्रियते तत्र समाधिविघातो न संभवति- विषयसांनिध्यासंभवादिति सूत्रार्थः / तथा च भगवद्गीतम्- "योगी युञ्जीत सततमात्मानं रहसि स्थितः" इति / व्याचष्टे- योगाभ्यासेति, धर्मःसंस्कारः, प्रचयकाष्ठागते इति- अत्र- "प्रचयकाष्ठा प्रचयावधिर्यतः परमपरःप्रचयो नास्ति तत्सहकारिशालितया प्रकृष्टायां समाधिभावनायां समाधिप्रयत्नः समाधिभावना तस्यामित्यर्थः" इति तात्पर्यटीका, प्रचयकाष्ठागते= अतिशयेन संधीभूते धर्मे= पूर्वकृतयोगाभ्यासजन्यसंस्कारे / प्रकृष्टायाम्= सिद्धायाम् / तत्त्वज्ञानोत्पत्तिप्रकारमुक्त्वा प्रतिबन्धकाभावमाह- दृष्टश्चेति / उदाहरति-नाहमिति, अग्रहणे हेतुमाहअन्यत्रेति, यथा हि मनसोऽन्यत्र संलग्नत्वादिन्द्रियसंयुक्तस्यापि विषयस्य ग्रहणं न भवति तथा मनसि समा घिसंलगेप्यर्थप्राबल्यमकिंचित्करमिति न समाध्यनुपपत्तिर्नतरां तत्त्वज्ञानोत्पत्त्यनुपपत्तिरित्यर्थः // 42 // अग्रिमसूत्रमवतारयति- यदीति, एषा पूर्वपक्षिमते शङ्का- पूर्वपक्षिणा बौद्धेनापि मोक्षावस्थायां विषयज्ञाननिवृत्तिस्वीकारात् . उक्तं च बौद्धैः " नीलादिज्ञानसंतानवासनोच्छेदसंभवा / चतुर्णामपि बौद्धानां मुक्तिरेषा प्रकीर्तिता // " इति /