________________ 412 प्रसन्नपदापरिभूषितम्- [4 अध्याये. २आह्निके___दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः 4-2-1" इत्युक्तम्. अथ कथं तत्त्वज्ञानमुत्पद्यते ? इति समाधिविशेषाभ्यासात् // 38 // स तु प्रत्याहृतस्येन्द्रियार्थेभ्यो मनसो धारकेण प्रयत्नेन धार्यमाणस्यात्मना संयोगस्तत्त्वबुभुत्साविशिष्टः, सति हि तस्मिन्निन्द्रियार्थेषु बुद्धयो नोत्पद्यन्ते तदभ्यासवशात् तत्त्वबुद्धिरुत्पद्यते // 38 // यदुक्तम्- 'सति हि तस्मिन्निन्द्रियार्थेषु बुद्धयो नोत्पद्यन्ते ' इत्येतत् न- अर्थविशेषप्राबल्यात् // 39 // अनिच्छतोपि बुद्धयुत्पत्तेतद् युक्तम् , कस्मात् ? अर्थविशेषप्राबल्यादऽबुभुत्समानस्यापि बुद्धयुत्पत्तिदृष्टा यथा स्तनयित्नुशब्दप्रभृतिषु. तत्र समाधिविशेषो नोपपद्यते // 39 // क्षुदादिभिः प्रवर्तनाच // 40 // क्षुत्पिपासाभ्यां शीतोष्णाभ्यां व्याधिभिश्चानिच्छतोपि बुद्धयः प्रवर्तन्ते तस्मादैकाय्यानुपपत्तिरिति // 40 // मिथ्याज्ञानम्- तत्प्रयोजकाभावादित्याशयः / किं वा 'गन्धादिबुद्धिषु तत्त्वप्रधानयोश्च सामान्यग्रहणस्याभावाद् गन्धादिबुद्धयस्तत्वबुद्धय एव भवन्ति= सिद्धा इत्यन्वयः / उपसंहरति- तस्मादिति, प्रमाणप्रमेयबुद्धीनां मिथ्यात्वं न संभवति- यथार्थवादित्यर्थः। अत्र- “मिथ्याबुद्धया स्वनिमित्तं लक्ष्यते तेन मिथ्याज्ञाननिमित्तस्य द्वैविध्यमित्यर्थः, यत्र स्थाणौ पुरुष इतिज्ञानं भवति तत्र तत्त्वं स्थाणुरिति प्रधानं पुरुष इति " इति तात्पर्यटीका // 37 // __अग्रिमसूत्रमवतारयति- दोषेति, सूत्रमिदं पूर्वत्र व्याख्यातमेव, जिज्ञासामाह- अथेति / अथ= तत्र / समाधीति- तत्त्वज्ञानानुकूलसमाधेरभ्यासात्= पुनः पुनरनुष्ठानात् तत्त्वज्ञानमुत्पद्यते इति सूत्रान्वयः / व्याचष्टे- सत्विति, सः समाधिविशेषः, इन्द्रियार्थेभ्यः= गन्धादिविषयेभ्यः प्रत्याहृतस्यआकृष्टस्य धारकेण= निरोधकेन प्रयत्नेन योगोक्तेन धार्यमाणस्य विषयेभ्यो निरुद्धस्य मनसो यस्तत्त्वजिज्ञासाप्रयुक्त आत्मसंयोगः स समाधिरित्यन्वयः आत्ममनस्संयोगस्य ज्ञानकारणत्वात् / समाधिफलमाह- सतीति, तस्मिन् = समाधौ, इन्द्रियार्थेषु- इन्द्रियार्थविषयाः / पर्यवसितमाह- तदिति, तदभ्यासवशात्= समाध्यभ्यासात् // 38 // पूर्वपक्षी शङ्कते- यदुक्तमिति / ' इत्येतन्न' इत्येवं सूत्रेणान्वयः / उक्तं पूर्वपक्षी निराचष्टेनेति, 'समाधिनेन्द्रियार्थविषयकं ज्ञानं नोत्पद्यते' इतियदुक्तं तन्नोपपद्यते- अर्थविशेषस्य= गन्धादिविषयस्य प्राबल्यात् समाधौ सत्यपि विषयज्ञानसंभवादिति सूत्रार्थः / व्याचष्टे- अनिच्छतोपीति, एतत् गन्धादिविषयकज्ञानानुत्पत्तिः न युक्ता= न संभवति- अनिच्छतोपि= विषयज्ञानेच्छारहितस्यापि विषयज्ञानोत्पत्तेर्दर्शनादित्यर्थः / उक्ते हेतुमाह- अर्थेति, उदाहरति- यथेति, स्तनयित्नुः= मेघ:, जिज्ञासाया अभावेपि मेघादिगर्जनादिज्ञानं भवत्येवेत्यर्थः / उपसंहरति- तत्रेति, तत्र= एवं हि= विषयप्राबल्यादवश्यं तज्ज्ञानं स्यादेव तथा च समाध्यनुपपत्तिः-- विषयज्ञाने सति समाधेरसंभवात्. समाध्यसंभवे च तत्त्वज्ञानासंभव इत्यर्थः // 39 // पूर्वपक्षी समाध्यनुपपत्तौ हेत्वन्तरमाह-क्षुदादिभिरिति, क्षुदादिभिर्योगिनोपि बाह्यविषयेषु प्रवृत्तिः स्यादेव लथा च कुत: समाधिः कुतस्तरां च तत्त्वज्ञानसंभव इतिसूत्रार्थः / ब्याचष्टे- क्षुदिति, अन्नादिविषया बुद्धयः प्रवर्तन्ते= उत्पद्यन्ते / उपसंहरति- तस्मादिति, ऐकाग्र्यम्= समाधिः, स्पष्टं सर्वम् // 40 //