________________ शून्यवादनिरासः] - न्यायभाष्यमा 411 बुद्धेश्चैवं निमित्तसद्भावोपलम्भात् // 36 // मिथ्याबुद्धेश्वार्थवदप्रतिषेधः, कस्मात् ?, निमित्तोपलम्भात् सद्भावोपलम्भाच्च= उपलभ्यते मिथ्याबुद्धिनिमित्तं मिथ्याबुद्धिश्च प्रत्यात्ममुत्पन्ना गृह्यते- संवेद्यत्वात्. तस्मात् मिथ्याबुद्धिरप्यस्तीति // 36 // ___ तत्त्वप्रधानभेदाच मिथ्याबुद्धेर्दैविध्योपपत्तिः // 37 // ___ तत्त्वं स्थाणुरिति. प्रधानं पुरुष इति. तत्त्वप्रधानयोरलोपात= भेदात् स्थाणौ पुरुष इति मिथ्याबुद्धिरुत्पद्यते- सामान्यग्रहणात्, एवं पताकायां बलाकेति लोष्टे कपोत इति, न त्वऽसमाने विषये मिथ्याबुद्धीनां समावेशः- सामान्यग्रहणव्यवस्थानात् / यस्य तु निरात्मकम्= निरुपाख्यं सर्व तस्य समावेशः प्रसज्यते / गन्धादौ च प्रमेये गन्धादिबुद्धयो मिथ्याऽभिमतास्तत्त्वप्रधानयोः सामान्यग्रहणस्य चाभावात् तत्त्वबुद्धय एव भवन्ति, तस्मादयुक्तमेतत्- 'प्रमाणमप्रेयबुद्धयो मिथ्या' इति // 37 // मिथ्यात्वे इत्यर्थः, एतदपि व्याचष्टे- निरात्मेति, सर्वस्य निरात्मकत्वे= सर्वशून्यत्वे एतन्नोपपद्यते इति न सर्वशून्यवाद उपपद्यते इत्यन्वयः // 35 // पदार्थसत्त्वं प्रतिपाद्य मिथ्याबुद्धेरपि सत्त्वं प्रतिपादयति- बुद्धेरिति, एवम्= पदार्थवद् बुद्धेःमिथ्याबुद्धेरपि सत्त्वं विज्ञेयम्- निमित्तस्य= कारणस्य सादृश्यादिकस्य स्वरूपसद्भावस्य चोपलम्भादिति सूत्रान्वयः / व्याचष्टे-मिथ्येति, अप्रतिषेधः= प्रतिषेधो नोपपद्यते इत्यर्थः / उक्ते हेतुं जिज्ञासतेकस्मादिति / हेतुमाह-निमित्तेति / हेतुवाक्यं व्याचष्टे- उपलभ्यते इति / निमित्तमुक्त्वा सद्भावमाहमिथ्येति / मिथ्याबुद्धिग्रहणेपि हेतुमाह- संवेद्यत्वादिति, परकीया मिथ्याबुद्धिश्चानुमानादिना संवेद्या / उपसंहरति- तस्मादिति / सर्व स्पष्टमेव / / 36 / / / मिथ्याबुद्धिनिमित्तस्य द्वविध्यमाह- तत्त्वेति, मिथ्याबुद्धेः= मिथ्याबुद्धिनिमित्तस्य तत्त्वप्रधानभेदाद् द्वैविध्योपपत्तिरित्यन्वयः, स्थाणौ या पुरुषबुद्धिः सा मिथ्याबुद्धिः सा हि स्थाणुं विना पुरुषं विना च न भवतीति तयोः कारणत्वं सिद्धं तत्र धर्मिभूतं स्थाण्वादिकं तत्वं पुरुषादिकं चारोप्यं प्रधानं भवति तयोश्च परस्परं भेदाद् मिथ्याबुद्धिनिमित्तस्य द्वैविध्यं सिद्धं तेन मिथ्याबुद्धीनां सत्त्वं सिद्धम्असतः कारणासंभवादिति सूत्रार्थः / व्याचष्टे- तत्त्वमिति, स्थाणोस्तत्त्वत्वम्- वास्तवत्वात् . पुरुषस्य प्रधानत्वम्- मिथ्याबुद्धिविषयत्वात् / स्थाणुपुरुषयोरभेदे हि स्थाणौ पुरुषबुद्धिर्मिथ्याबुद्धिर्न स्यादित्याशयः / मिथ्याबुद्धेरुत्पत्तौ हेतुमाह- सामान्येति, सामान्यग्रहणात्= स्थाणुपुरुषयोः सादृश्यग्रहणात् / मिथ्याबुद्धचन्तरमाह- एवमिति, मिथ्याबुद्धिरुत्पद्यते इत्यनेनान्वयः / नेति- असमाने विषये= असमानविषयविषयाणां मिथ्याबुद्धीनां समावेशो न भवति असदृशविषया मिथ्याबुद्धिर्न जायते इत्यर्थःसामान्यग्रहणव्यवस्थानात्= सादृश्यग्रहणस्य व्यवस्थापकत्वात्= सादृश्यग्रहणस्य मिथ्याबुद्धिकारणत्वात्. न हि शुक्तौ सुवर्णत्वज्ञानं जायते तत् कस्य हेतोः ? शुक्तिसुवर्णयोः सादृश्यग्रहणासंभवादित्यर्थः / बौद्धमते बाधकमाह-यस्येति, यस्य बौद्धस्य मते सर्व शून्यमेव तस्य मते सादृश्यासंभवेन सादृश्यग्रहणस्यासंभवादऽसमानेपि विषये मिथ्याबुद्धीनां समावेशः स्यात्= असदृशविषयापि मिथ्याबुद्धिरुत्पद्यतेत्यर्थः तथा च शुक्तौ लोहबुद्धिरपि स्यात् न चैवमस्तीति न सर्वशून्यत्वमुपपद्यते इत्यर्थः / तत्त्वबुद्धीनां स्वरूपमाहगन्धादाविति, तस्मिन् तद्बुद्धिस्तत्त्वबुद्धिरेवेत्यर्थः, मिथ्याभिमता बौद्धेनेत्यर्थः / गन्धादौ गन्धादिबुद्धीनां तत्त्वबुद्धित्वे हेतुमाह-तत्त्वेति, तत्त्वप्रधानयो दः सामान्यग्रहणं च मिथ्याबुद्धिकारणं तदभावे जायमाना बुद्धिस्तत्त्वबुद्धिर्भवतीत्यर्थः, गन्धादौ गन्धात्वादिज्ञानं तु तत्त्वज्ञानमेव- तस्मिंस्तदितिज्ञानत्वात् , न तु