________________ प्रसन्नपदापरिभूषितम्- [4 अध्याये. २आह्निकेपसामान्यलक्षणः, यथा प्रतिबोधे या ज्ञानवृत्तिस्तया स्वमविषयाभिमानो निवर्त्यते- नार्थो विषयसामान्यलक्षणः, तथा मायागन्धर्वनगरमृगतृष्णिकाणामपि या बुद्धयः (ता:) अतस्मिंस्तदितिव्यवसायास्तत्राप्यनेनैव कल्पेन मिथ्योपलब्धिविनाशस्तत्त्वज्ञानाद. नार्थप्रतिषेध इति / उपादानवच्च मायादिषु मिथ्याज्ञानम्. प्रज्ञापनीयसरूपं च द्रव्यमुपादाय साधनवान् परस्य मिथ्याध्यवसायं करोति सा माया, नीहारप्रभृतीनां नगरसरूपसंनिवेशे दूराद् नगरबुद्धिरुत्पद्यते विपर्यये तदभावात , सूर्यमरीचिषु भौमेनोष्मणा संसृष्टेषु स्पन्दमानेदकबुद्धिर्भवति- सामान्यग्रहणात. अन्तिकस्थस्य विपर्यये तदभावात् , कचित् कदाचित् कस्यचिच्च भावाद् नानिमित्तं मिथ्याज्ञानम् / दृष्टं च बुद्धिद्वैतं मायाप्रयोक्तः परस्य च दूरान्तिकस्थयोर्गन्धर्वनगरमृगतृष्णकासु सुप्तप्रतिबुद्धयोश्च स्वप्नविषये. तदेतत् सर्वस्याभावे निरुपाख्यतायाम् निरात्मकत्वे नोपपद्यते इति // 35 // इति, दृश्यमानः पदार्थः स्थाणुपुरुषोभयसामान्यस्वरूपस्तु नास्ति येन तत्त्वज्ञानेन मिथ्याज्ञाननिवृत्तिन स्यादित्यर्थः / दृष्टान्तमाह- यथेति / उक्तनिवृत्तौ हेतुमाह- नार्थ इति, " विषयसामान्यलक्षणः” इत्यत्र 'उभयसामान्यलक्षणः' किं वा 'सामान्यलक्षणः' इतिपाठो युक्तस्तथा च पदार्थः स्वप्नजाग्रदुभयसामान्यलक्षणो न भवतीति जाग्रबोधेन स्वप्नज्ञानं बाध्यते- यथार्थस्य बाधकत्वादित्यर्थः, किं वा सामान्यलक्षणः= सादृश्यलक्षणोर्थस्तु तत्त्वज्ञानेन न निवर्त्यते इत्यर्थः / प्रकृतमाह- तथेति, मायादिबुद्धिं व्याचष्टे-- अतस्मिन्निति, कल्पेन= न्यायेन, यथार्थस्य बाधकत्वादित्यर्थः / स्वाभिप्रायमाह- नार्थेति, मिथ्याबुद्धेरेव तत्त्वज्ञानाद् बाधो भवति न तु मिथ्याबुद्धिविषयस्यापि तस्यान्यत्र सत्त्वादेव तथा च स्वप्ने दृश्यमानानामपि विषयाणां सत्त्वादेव नाऽसत्त्वं संभवतीति न सर्वशून्यवादः संभवतीत्यर्थः / किं च मायादिषु= मायादिविषयकं मिथ्याज्ञानमुपादानवत्= कारणवत्= कारणविशेषजन्यमेवेति न शून्यस्वरूपं भवितुमर्ह. तीत्याह- उपादानेति / मिथ्याज्ञानस्य कारणवत्त्वमुपपादयति-प्रज्ञापनीयेति, प्रज्ञापनीयसरूपम= प्रदर्शनीयसदृशम् , यथा सर्प प्रदर्शनीये मायावी सर्पसदृशं दण्डमुपादाय साधनवान् = सर्पप्रदर्शनसाधनविशिष्टः= इन्द्रजालोक्ततन्त्रयुक्तः परस्य मिथ्याज्ञानं सर्पादिविषयकं जनयति सैव मायेत्युच्यते / गन्धर्वनगरज्ञानस्य कारणवत्त्वमाह- नीहारेति, नीहारादीनां नगरसदृशे संनिवेशे जाते तत्र दूरान्नगरबुद्धिर्जायते. विपर्यये= नीहारादीनां नगरसदृशसंनिवेशाभावे च तदभावात्= नगरबुद्धिर्न जायते इति गन्धर्वनगरज्ञानस्यापि सकारणकत्वं सिद्धं तेन शून्यरूपत्वं न संभवतीत्यर्थः / मृगतृष्णाज्ञानस्य कारणवत्त्वमाहसूर्येति, स्पन्दमानेषु= प्रकाशनक्रियाविशिष्टेषु जलत्वज्ञानं जायते. स्पष्टमन्यत् , हेतुमाह- सामान्येति, सामान्यग्रहणात्= जलसूर्यकिरणयोः शुक्लत्वसादृश्यग्रहणात्, किं वा सामान्यरूपेण ग्रहणादित्यर्थः, अन्तिकस्थस्य= तद्देशसमीपस्थस्य विपर्यये= जलसूर्यकिरणयोः सामान्यग्रहणाभावे तदभावात्= जलज्ञानं न जायते इति मृगतृष्णाज्ञानस्यापि सकारणकत्वं सिद्धमिति न शून्यरूपत्वं संभवतीत्यर्थः / मिथ्याज्ञानस्य सकारणकत्वं निगमयति-कचिदिति, भावात्= जायमानत्वात् , अकारणकस्य कचिदित्यायुक्तं कादाचित्कत्वं न संभवतीत्यर्थः / मिथ्यात्वामिथ्यात्वभेदेन ज्ञानानां द्वैविध्यमाह- दृष्टमिति, तथा च न ज्ञानमात्रस्य मिथ्यात्वं संभवतीत्याशयः, मायाप्रयोक्तुर्ज्ञानं यथार्थ भवति दण्डे दण्डत्वज्ञानात् . परस्य= मायाद्रष्टुश्च ज्ञानं मिथ्या भवति दण्डे सर्पत्वज्ञानादिति द्वैविध्यम् , गन्धर्वनगरादिषु च दूरस्थस्य मिथ्याज्ञानं भवति गन्धर्वनगरादित्वज्ञानात्, अन्तिकस्थस्य= समीपस्थस्य च यथार्थ ज्ञानं भवति-नीहारादित्वज्ञानादिति द्वैविध्यम् , स्वाप्नविषयविषयकं च ज्ञानं सुप्तस्य यथार्थ भवति प्रतिबुद्धस्य च यथार्थ न भवति. किं वा सुप्तस्य स्वाप्नज्ञानं मिथ्या भवति- अयथार्थे यथार्थत्वज्ञानात् . प्रतिबुद्धस्य च स्वाप्नज्ञानं मिथ्या न भवति- अयथार्थस्याऽयथार्थत्वज्ञानादित्यर्थस्तथा च ज्ञानानां मिथ्यात्वाऽमिथ्यात्वभेदेन द्वैविध्यं सिद्धम् / उपसंहरति-- तदेतदिति, एतत्- उक्तद्वैविध्यम्, अभावपदार्थमाह-निरुपाख्येति, सर्वस्य