________________ शून्यवादनिरासः] न्यायभाष्यम् / उभयाविशेषे तु साधनानर्थक्यम् / ____ यस्य स्वमान्तजागरितान्तयोरविशेषस्तस्य " स्वमविषयाभिमानवत् " इति साधनमनर्थकम्- तदाश्रयप्रत्याख्यानात्= अतस्मिंस्तदिति च व्यवसायः प्रधानाश्रयः= अपुरुष स्थाणौ पुरुष इति (यः) व्यवसायः स प्रधानाश्रयः- न खलु पुरुषेऽनुपलब्धे पुरुष इत्यपुरुषे व्यवसायो भवति, एवं स्वमविषयस्य व्यवसाय:- 'हस्तिनमद्राक्षम् "पर्वतमद्राक्षम् ' इति प्रधानाश्रयो भवितुमर्हति // 34 // एवं च सतिमिथ्योपलब्धिविनाशस्तत्त्वज्ञानात् स्वमविषयाभिमान * प्रणाशवत् प्रतिबोधे // 35 // स्थाणौ 'पुरुषोयम्' इतिव्यवसायो मिथ्योपलब्धिः= अतस्मिंस्तदितिज्ञानम , स्थाणौ 'स्थाणुः' इतिव्यवसायस्तत्त्वज्ञानम् , तत्त्वज्ञानेन च मिथ्योपलब्धिर्निवयते- नार्थः स्थाणुपुरु स्वप्नजायज्ज्ञानयोरुभयोरपि मिथ्यात्वेन साम्ये भाष्यकारो दूषणमाह- उभयेति, उभययोः= जाग्रत्स्वप्नयोरविशेषे= अविशेषेण मिथ्यात्वे सिद्धे साधनानर्थक्यम्= साध्यसाधनभावः= दृष्टान्तदार्टान्तिकभावो न संभवति- साध्यसिद्धिविहीनस्यैव दान्तिकत्वसंभवादित्यर्थः / स्वयं व्याचष्टेयस्येति, यस्य बौद्धस्य मते इत्यर्थः, तस्य बौद्धस्य, साध्यतेऽनेनेति साधनमत्र दृष्टान्तः, जाग्रद्विषयाभिमानस्य मिथ्यात्वे सिद्धे तत्साधनार्थम् " स्वप्नविषयाभिमानवत्" इत्युदाहरणमनर्थकमित्यर्थः / उक्ते हेतुमाह- तदाश्रयेति, तदाश्रयस्य स्वप्नमूलस्य जाग्रद्विषयाभिमानस्य प्रत्याख्यानात्= बाधनात् , जाप्रद्विषयाभिमानं विना स्वप्नविषयाभिमानो न संभवतीति जाग्रद्विषयाभिमानस्य स्वप्नविषयाभिमानमूलत्वं प्राप्तम् , तत्र मूलभूतस्य जाप्रद्विषयाभिमानस्य बाधे स्वप्नविषयाभिमानोऽसिद्धः सन् साधको न संभवतीत्यर्थः / उक्तं व्याचष्टे- अतस्मिन्निति, अतस्मिन्= पुरुषभिन्ने तदिति= पुरुष इति व्यवसाय:= प्रत्ययः प्रधानाश्रयो भवति / प्रधानाश्रयत्वं व्याचष्टे- अपुरुषे इति, योऽपुरुषे= पुरुषभिन्ने स्थाणौ 'पुरुषोयम् ' इतिव्यवसायः स प्रधानाश्रयः= पुरुषे पुरुषप्रत्ययमूलकः, पुरुषे पुरुषप्रत्ययो हि प्रधानम् , अपुरुषे पुरुषप्रत्ययश्चाप्रधानम / विपक्षे बाधकमाह-नेति, पुरुषेऽनुपलब्धे= पुरुषे पुरुषप्रत्ययं विना अपुरुषे= पुरुषभिन्ने 'पुरुषोयम्' इतिव्यवसायो न भवतीति अतस्मिंस्तदितिव्यवसायस्य प्रधानव्यवसायमूलकत्वं सिद्धमित्यर्थः / प्रकृतमाह- एवमिति, 'हस्तिनं स्वप्नेऽद्राक्षम् ' इत्यादिः स्वप्नविषयव्यवसायोपि प्रधानाश्रयः= जाग्रद्विषयाभिमानमूलको भवितुमर्हति, तत्र प्रधानाप्रधानयोश्च साम्यं नोपपद्यते इति प्रधानस्य जाप्रद्विषयाभिमानस्य स्वाप्नविषयाभिमानतुल्यं मिथ्यात्वं न संभवतीत्यर्थः। किं वा तदाश्रयेण= स्वातविषयाभिमानमूलेन जाग्रद्विषयाभिमानेनैव स्वाप्नविषयाभिमानस्य प्रत्याख्यानात्= बाधनादित्यर्थः / भाष्यकारोयं कामसूत्रकारो वात्स्यायनमिश्र एवेत्यलम् / किं वा स्वमूलबाधकत्वं नोपपद्यते इति स्वाप्नविषयाभिमानस्यापि स्वमूलभूतजाग्रद्विषयाभिमानबाधकत्वं नोपपद्यते इत्यानर्थक्यमित्याशयः, अनर्थकम् = असमर्थ व्याहतं वेत्यर्थः / वस्तुतस्तु तदाश्रयप्रत्याख्यानादितिहेतोः स्वप्नविषयाभिमानानर्थक्यसाधकत्वं न प्रतिबुध्यते / / 34 // . अग्रिमसूत्रमवतारयति- एवमिति, एवं च सति= मिथ्याज्ञानस्य तत्त्वज्ञानमूलकत्वे सिद्धे इत्यर्थः, मिथ्येति- यथा प्रतिबोधे= जाग्रदोधेन स्वप्नविषयाभिमानस्य नाशो भवति तथा तत्त्वज्ञानादू मिथ्योपलब्धेः= मिथ्याज्ञानस्य= शरीरादावात्मत्वाद्यभिमानस्य विनाशो भवतीति सूत्रान्वयः / व्याचष्टे- स्थाणाविति / मिथ्योपलब्धि ब्याचष्टे- अतस्मिन्निति / तत्त्वज्ञानेन मिथ्योपलब्धिनिवृत्तौ हेतुमाह- नार्थ