________________ 408 प्रसन्नपदापरिभूषितम्- [4 अध्याये. २आह्निके स्वप्नान्तविकल्पे च हेतुवचनम् / " स्वमविषयाभिमानवत्" इतिब्रुवता स्वप्मान्तविकल्पे हेतुर्वाच्यः, कश्चित्स्वमो भगोपसंहितः कश्चित् प्रमोदोपसंहितः कश्चिदुभयविपरीतः कदाचित् स्वप्नमेव न पश्यतीति, निमित्तवतस्तु स्वमविषयाभिमानस्य निमित्तविकल्पाद् विकल्पोपपत्तिः // 33 // स्मृतिसंकल्पवञ्च स्वप्नविषयाभिमानः // 34 // पूर्वोपलब्धविषयः, यथा स्मृतिश्च संकल्पश्च पूर्वोपलब्धविषयौ न तस्य प्रत्याख्यानाय कल्पेते. तथा स्वप्ने विषयग्रहणं पूर्वोपलब्धविषयं न तस्य प्रत्याख्यानाय कल्पते इति. एवं दृष्टविषयश्च स्वप्मान्तो जागरितान्तेन / यः सुप्तः स्वप्नं पश्यति स एव जाग्रत् स्वप्नदर्शनानि प्रतिसंधत्ते- 'इदमद्राक्षम्' इति. तत्र जाग्रद्बुद्धिवृत्तिवशात् स्वमविषयाभिमानो मिथ्येति व्यवसायः= सति च प्रतिसंधाने या जाग्रतो बुद्धिवृत्तिस्तद्वशादयं व्यवसाय:- स्वप्नविषयाभिमानो मिथ्येति / सर्वशून्यवादेऽनुपपत्त्यन्तरमाह- स्वप्नान्तेति, सर्वशून्यवादिना स्वप्नान्तविकल्पे= स्वप्नानां वैविध्ये हेतुवचनम्= हेतुर्वक्तव्य इत्यन्वयः, सर्वशून्यवादे स्वप्नानां वैविध्यं नोपपद्यते- कार्यवैविध्यस्य कारणवैविध्याधीनत्वात. कारणवैविध्यं च नोपपद्यते- सर्वशून्यत्वस्वीकारात. कारणवैविध्यस्वीकारे च सर्वशून्यत्वानुपपत्तिरित्यर्थः / स्वयं व्याचष्टे- स्वप्नेति / स्वप्नविषयाभिमानस्य दृष्टान्तत्वेन स्वीकारे स्वप्नसिद्धिस्तथा च स्वप्नवैविध्यहेतुर वश्यं स्वीकार्य इति न सर्वशून्यत्वापत्तिरित्यर्थः / स्वप्नानां वैविध्यमुदाहरति-कश्चिदिति, उपसंहितः= युक्तः, उभयविपरीतः= भयप्रमोदोभयरहित:, विकल्पात्= वैविध्यात् , कदाचित् स्वप्नो भवति कदाचिच्च न भवतीति कादाचित्कत्वेन निमित्तवत्त्वम्= कारणजन्यत्वं स्वप्नविषयाभिमानस्य= स्वप्नस्य प्राप्तं तत्र स्वप्नवैविध्यं प्रत्यक्षं स्वप्नकारणवैविध्यादेवोपपद्यते कार्यकारणभावादिकं च सर्व सर्वशून्यवादे नोपपद्यते इतिदोष इत्यर्थः // 33 // सिद्धान्ती स्वसिद्धान्तमाह- स्मृतीति, यथा स्मृतिसंकल्पो पूर्वानुभूतपदार्थविषयको भवतस्तथा स्वप्नेपि विषयाभिमानः= विषयज्ञानं पूर्वानुभूतपदार्थविषयकं भवति पूर्वानुभूतश्च पदार्थो नाऽसन् संभवतीति न स्वप्नविषयाभिमानोऽसद्विषयको भवति यदृष्टान्तेन जाग्रद्विषयाभिमानस्याऽसद्विषयकत्वं सिध्येदिति न सर्वशून्यवाद उपपद्यते इतिसूत्रार्थः / व्याचष्टे- पूर्वेति, अत्र 'इतिशेषः' इतिशेषस्तथा च स्मृतिसंकल्पवत् स्वप्नविषयाभिमानः पूर्वोपलब्धविषय इत्यन्वयः / विशदयति- यथेति, तस्य= पूर्वोपलब्धस्य / प्रत्याख्यानाय= अभावसाधनाय / प्रकृतमाह- तथेति, तस्य पूर्वोपलब्धस्य, ज्ञानं स्वविषयस्य बाधकं न भवतीति न स्वप्नज्ञानेनापि तद्विषयस्य पूर्वोपलब्धस्य बाधः= असत्त्वं संभवतीत्यर्थः / पर्यवसितमाह- एवमिति, तथा च स्वप्नान्तः= स्वप्नो दृष्टविषयः जागरितान्तेन= जाग्रदवस्थायां यद् दृश्यते तद्विषयकः स्वप्नो भवति न त्वसद्विषयक इत्यर्थः किं वा दृष्टविषयः= समानविषयस्तथाच " जागरितान्तेन" इति युक्ता तृतीया / ननु यदि स्वप्नोपि सद्विषयक एव तदा स्वप्नस्य मिथ्यात्वं कथमुच्यते ? इत्याशङ्कय स्वप्नस्य मिथ्यात्वप्रकारमाह- य इति, जाग्रत्= जाग्रदवस्थायाम् , प्रतिसंधत्ते स्मरति / स्मरणमुदाहरति- इदमिति / पर्यवसितमाह- तत्रेति, जाग्रज्ज्ञानापेक्षयैव जाग्रज्ज्ञानविलक्षणत्वाद्वा स्वप्नस्य मिथ्यात्वं न तु स्वरूपेण विषयेण वेत्यर्थः / उक्तं विशदयति- सतीति, 'स्वप्नविषयाभिमानो मिथ्या' इतिव्यवसायो जाग्रबुद्धिवृत्तिवशादित्यन्वयः, स्मरणे सत्यपि जाग्रवस्थायां स्वाप्नविषया नोपलभ्यन्ते इतिहेतोरेव स्वप्नविषयज्ञानस्य मिथ्यात्वमुच्यते न तु स्वरूपेण-- स्वप्नकाले तत्सत्वस्य बाधकाभावात्, कचिदपि देशे काले वा वर्तमानस्य मिथ्यात्वासंभवादित्यर्थः / स्पष्टमन्यत् //