________________ शून्यवादनिरासः] न्यायभाष्यम्। 407 'स्वप्मान्ते विषयाभिमानवत् प्रमाणप्रमेयाभिमानो न पुनर्जागरितान्ते विषयोपलब्धिवत्' इत्यत्र हेतु स्ति. हेत्वभावादसिद्धिः / स्वप्नान्ते चासन्तो विषया उपलभ्यन्ते इत्यत्रापि हेत्वभावः // प्रतिबोधेऽनुपलम्भादितिचेत् ? प्रतिबोधविषयोपलम्भादप्रतिषेधः / यदि प्रतिबोधेऽनुपलम्भात् स्वमे विषया न सन्तीति ? तर्हि ये इमे प्रतिबुद्धेन विषया उपलभ्यन्ते (ते) उपलम्भात् सन्तीति- विपर्यये हि हेतुसामर्थ्यम्= उपलम्भाभावे सति अनुपलम्भादभावः सिध्यति, उभयथा त्वभावे नानुपलम्भस्य सामर्थ्यमस्ति. यथा प्रदीपस्याभावाद् रूपस्यादर्शन मिति, तत्र भावेनाभावः समर्थ्यते इति / स्वप्नावस्थायाम् , जागरितान्ते= जाग्रदवस्थायाम् , अत्र- " अन्तःशब्दोऽवयववचनोप्याश्रि(त)त्वमात्रेणावस्थायां प्रयुक्तस्तेन स्वप्नावस्थायां आगरितावस्थायामित्यर्थः” इतितात्पर्यटीका / तथा च प्रमाणप्रमेयज्ञानं स्वाप्रिकविषयज्ञानतल्यं मिथ्याभतमस्ति जाग्रदवस्थागतविषयज्ञानतल्यं यथार्थ नास्तीत्यक्त हेतुः= विनिगमना नास्तीत्यर्थः / हेतुं विना च कस्यापि सिद्धिनं भवतीति हेत्वभावात् शून्यवादस्याऽसिद्धिरित्याह- हेत्वभावादिति / किं च यदि स्वप्नेप्यसतां विषयाणामुपलब्धिः स्यात्तदा तद्दृष्टान्तेन जागरिते दृश्यमानानामसत्त्वं स्यादपि न चैवमस्ति- हेत्वभावात्. किं तु जागरितेऽनुभूतानां यर्थार्थानामेव विषयाणां स्वप्ने स्मृतिर्भवति न च सा स्मृतिमिथ्या नापि स्मर्यमाणा विषया मिथ्याभूता इति न स्वप्नेपि मिथ्याविषयोपलब्धिरुपपद्यते इत्याह- स्वप्नान्ते चेति / / ____ ननु स्वप्ने दृश्यमानानां पदार्थानां प्रतिबोधे= जाग्रदवस्थायामनुपलम्भादेवासत्त्वं प्राप्नोति यदि खानपदार्थाः सत्याः स्युस्तदा प्रतिबोधेप्युपलभ्येरन्नित्याशङ्कते- प्रतिबोधे इति / परिहरति-प्रतिबोधेति, यदि स्वाप्नविषयाः प्रतिबोधेऽनुपलम्भादेव मिथ्याभूतास्तदा प्रतिबोधविषयाणाम् जाग्रदवस्थायां दृश्यमानविषयाणां प्रतिबोधे उपलम्भात् सत्यत्वं सिद्धमिति तत्सत्यत्वस्य प्रतिषेधो नोपपद्यते इति सर्वशून्यत्वानुपपत्तिरित्यर्थः / स्वयं व्याचष्टे- यदीति, स्वप्ने विषया: स्वाप्नविषयाः, नसन्ति= मिथ्याभूताः। परिहरतितहीति, एवं हि जाग्रदवस्थायां ये विषया उपलभ्यन्ते ते उपलभ्यमानत्वात् सन्ति= सत्यभूताः सिद्धा इति न सर्वशून्यत्वमुपपद्यते इत्यर्थः / उक्ते हेतुमाह-विपर्यये इति, हि= यतो विपर्यये= उपलम्भस्य विपर्यये= उपलम्भाभावे एवाऽनुपलम्भादितिहेतुनाऽनुपलभ्यमानस्य स्वाप्नविषयस्याभावः सिध्यति न तूपलम्भेपि तथा च जाग्रदवस्थागतविषयाणामुपलम्भादेव सत्त्वं सिद्धमित्यर्थः / हेतुसामर्थ्यम्= हेतोः साध्यसाधकत्वम् / उक्तं व्याचष्टे- उपलम्भाभावे इति / विपक्षे बाधकमाह- उभयथेति, उभयथा= उभयत्र स्वप्नावस्थायां जाग्रदवस्थायां चेत्युभयत्र किं वा उभयथा नाम यदि जाग्रदवस्थागतविषयाणां सत्त्वमस्ति यदि च नास्तीत्युभयथापि, असत्त्वपक्षे व्यतिरेकदृष्टान्तस्याभावादित्याशयः, इत्युभयथापि विषयाणामभावे अनुपलम्भस्य= अनुपलम्भादितिहेतोः सामर्थ्यम्= विषयाभावसाधकत्वं नास्ति न संभवतियत एकत्रोपलम्भेन सत्त्वसंभवे एवान्यत्रानुपलम्भेनासत्त्वमुपपद्यते तथा च स्वाप्नविष सत्त्वं साधयता जाग्रद्विषयाणामुपलम्भात सत्त्वं स्वीकार्यमेवेति न सर्वशून्यत्वमुपपद्यते इत्यर्थः / उक्ते दृष्टान्तमाह- यथेति, यथा प्रदीपस्याभावाद्रूपस्याऽदर्शनसिध्या प्रदीपसत्त्वे रूपदर्शनं सिध्यति तथा स्वाप्नपदार्थानामनुपलम्भेनाभावसिद्धया जाग्रत्पदार्थानामुपलम्भात् सत्त्वं सिध्यत्येव. किं वा यथा प्रदीपेन रूपदर्शनसिद्धचैव प्रदीपाभावेन रूपदर्शनाभावः सिध्यति तथा जाग्रद्विषयाणामुपलम्भात् सत्त्वसिद्धथैव स्वाप्नविषयाणामनुपलम्भादभावः सिध्यति नान्यथेत्यर्थः / उपसंहरति- तत्रेति, तत्र एवं हि भावेनाभवस्य सिद्धिः संभवतीति सिद्धं तथा च जाग्रदवस्थायां पदार्थानां भावेनैव स्वप्नावस्थायामभावः सिध्यति नान्यथेत्यर्थः।