________________ प्रसन्नपदापरिभूषितम्- [4 अध्याये. २आह्निकेतेन सर्वशास्त्राणि सर्वकर्माणि सर्वे च शरीरिणां व्यवहारा व्याप्ताः- परीक्षमाणो हि बुद्धयाऽध्यवस्यति- 'इदमस्ति इदं नास्ति' इति. तत्र च न सर्वभावानुपपत्तिः // 29 // प्रमाणानुपपत्त्युपपत्तिभ्याम् // 30 // एवं च सति सर्व नास्तीति नोपपद्यते, कस्मात् ?. प्रमाणानुपपत्त्युपपत्तिभ्याम्= यदि सर्व नास्तीति प्रमाणमुपपद्यते ? सर्व नास्तीत्येतद् व्याहन्यते, अथ प्रमाणं नोपपद्यते ? सर्व नास्तीत्यस्य कथं सिद्धिः?, अथ प्रमाणमन्तरेण सिद्धिः? सर्वमस्तीत्यस्य कथं न सिद्धिः॥३०॥ __ स्वप्नवविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः // 31 // यथा स्वप्ने न विषयाः सन्ति अथ चाभिमानो भवति. एवं न प्रमाणानि प्रमेयाणि च सन्ति अथ च प्रमाणप्रमेयाभिमानो भवति // 31 // मायागन्धर्वनगरमृगतृष्णिकावदा // 32 // हेत्वभावादसिद्धिः // 33 // फलमाह- येति, उपलब्धिरेव विवेचनं तेन= विवेचनेन व्याप्ताः= विवेचनाधीना इत्यर्थः / उक्ते हेतुमाह- परीक्षमाण इति, यतो परीक्षमाणः= विवेचकः 'इदमस्ति / 'इदं नास्ति' इत्यध्यवस्यति तदनन्तरं च शास्त्रोपदेशः कर्म च व्यवहारश्च भवतीति, तत्र= एवं प्राप्ते सर्वभावानामनुपपत्तिः= मिथ्यात्वं न संभवति- अध्यवसायविषयत्वादित्यर्थः // 29 // सर्वशून्यवादे बाधकान्तरमाह- प्रमाणेति, यदि प्रमाणस्यानुपपत्तिः= मिथ्यात्वं तदा सर्वशून्यत्वसाधकस्य प्रमाणस्याभावादेव सर्वशून्यत्वं न संभवति, यदि प्रमाणस्योपपत्तिः= सत्त्वं तदा प्रमाणस्थ सत्वादेव सर्वशून्यत्वं न संभवतीति सूत्रार्थः / व्याचष्टे- एवं चेति, यतः पदार्थानां सत्त्वासत्त्वे प्रमाणत एव सिध्यतस्तस्मात् सर्वशून्यत्वं नोपपद्यते इत्यर्थः / उक्ते हेतुं जिज्ञासते- कस्मादिति / हेतुमाहप्रमाणेति / हेतुवाक्यं व्याचष्टे- यदीति, इतिप्रमाणम्= सर्वाभावसाधकं प्रमाणम् , व्याहन्यते= नोपपद्यते- सर्वाभावसाधकप्रमाणस्य सत्त्वापातादित्यर्थः / अथ= यदि च सर्वाभावसाधकं प्रमाणमपि नास्ति तदा सर्व नास्तीत्यस्य= सर्वाभावस्य सिद्धिर्न संभवति- मेयसिद्धेर्मानाधीनत्वादित्यर्थः / अथ= यदि च प्रमाणं विनैव सर्वाभावस्य सिद्धिः स्यात्तदा सर्वमस्तीत्यस्य= सर्वसत्त्वस्यापि प्रमाणं विना कथं न सिद्धिः स्यात् ? विपक्षे विनिगमनाविरहादित्युभयतः पाशारज्जुरिति न कथमपि सर्वशून्यत्वं सिध्यतीत्यर्थः // 30 // पूर्वपक्षी सर्वमिथ्यात्वं समाधत्ते- स्वप्नेति, यथा स्वप्ने विषयाभिमानः= पदार्थज्ञानं मिथ्या भवति तथा अयम्= जाग्रत्कालिकोपि विषयाभिमानो मिथ्यैवेत्यन्वयः, यथा स्वप्ने विषयं विनैव तज्ज्ञानं जायते तथैव जाग्रदवस्थायामपि विषयं विना तज्ज्ञानं संभवतीति सर्वशून्यत्वं सिद्धमिति सूत्रार्थः / ब्याचष्टेयथेति, अथ च= अथापि, अभिमानः= विषयज्ञानम् / प्रकृतमाह- एवमिति, जाग्रदवस्थायामपीतिशेष: तथा च सर्वशून्यत्वं सिद्धमित्यर्थः, स्पष्टं सर्वम् // 31 // पूर्वपक्षी सर्वमिथ्यात्वे साधकान्तरमाह-मायेति, इन्द्रजालादौ माया प्रसिद्धा, यथा मायादीनां मिथ्यात्वेपि तज्ज्ञानं जायते गन्धर्वनगरे मृगतृष्णिकायां चापि मिथ्याज्ञानं प्रसिद्धमेव तथा सर्वत्र विषयाणां मिथ्यात्वं तेन सर्वशून्यत्वं विज्ञेयमिति सूत्रान्वयः / अत्र भाष्यं नास्ति / / 32 // सिद्धान्ती शून्यवादं निराकरोति- हेत्वभावादिति, शून्यवादस्य= सर्वशून्यत्वस्य सिद्धिर्न संभवति- हेत्वभावात्= साधकाभावात् प्रत्यक्षविरोधाचेति सूत्रान्वयः / व्याचष्टे-स्वप्नान्ते इति, स्वप्नान्ते=