________________ शून्यवादनिरासः ] न्यायभाष्यम्। तदाश्रयत्वादऽपृथगग्रहणम् // 28 // कार्यद्रव्यं कारणद्रव्याश्रितं तत्कारणेभ्यः पृथङ् नोपलभ्यते. विपर्यये पृथग ग्रहणात्= यत्राऽऽश्रयाश्रितभावो नास्ति तत्र पृथग् ग्रहणमिति, बुद्धया विवेचनात्तु भावानां पृथग् ग्रहणम्= अतीन्द्रियेष्वणुषु यदिन्द्रियेण गृह्यते तदेतया बुद्धया विविच्यमानमन्यदिति // 28 // प्रमाणतश्वार्थप्रतिपत्तेः / / 29 // बुद्धया विवेचनाद् भावानां याथात्म्योपलब्धिः= यदस्ति यथा च यन्नास्ति यथा च तत्सर्व प्रमाणत उपलब्ध्या सिध्यति, या च प्रमाणत उपलब्धिस्तद् बुद्धया विवेचनं भावानां बुद्धथेति, विषयाणां बुद्धया विवेचनमपि मिथ्यात्वमपीति च परस्परं विरुद्धम् , मिथ्याभूतानां बुद्धया विवेचनं न संभवतीति बुद्ध्या विवेचनादेव भावानां सत्त्वं सिद्धमिति न सर्वशून्यत्वमुपपद्यते इत्यर्थः / अत्र पूर्वोक्तं स्मारयति- तदुक्तमिति, अवयवायवप्रसङ्ग इतिसूत्रभाष्ये " उभयथा च " इत्यारभ्य "स आश्रयं व्याघनात्मघाताय कल्पते " इत्यादिना व्याघातदोषः प्रदर्शित इत्यर्थः // 27 // यदुक्तम्- "तन्त्वपकर्षणे पटसद्भावानुपलब्धिवत्" इति तत्समाधत्ते- तदाश्रयत्वादिति, तदाश्रयत्वात्= पटस्य तन्त्वाश्रितत्वात्= तन्तुपटयोरुपादानोपादेयभावादेव पटस्य तन्तुभ्यः पृथग् ग्रहणं न भवति न तु मिथ्यात्वात् , न चापृथग्ग्रहणात्सर्वभावानां मिथ्यात्वं संभवतीति सूत्रार्थः / व्याचष्टे-- कार्येति, कार्यद्रव्यं पटादिकं कारणद्रव्याश्रितम्= स्वकारणीभूततन्त्वाद्याश्रितत्वादेव तत्कारणेभ्यः= स्वसमवायिकारणेभ्यः पृथक् नोपलभ्यते न तु मिथ्यात्वात् , किं वा तत्= तस्मादित्यर्थः, विपर्यये= उपादानोपादेयभावाभावे पृथग् ग्रहणमपि भवत्येव यथा घटपटयोरित्याह-विपर्ययेति / उक्तं व्याचष्टे- यत्रेति, आश्रयाश्रितभावः= उपादानोपादेयभावः / बुद्धयति- भावानां बुद्धया विवेचनात् पृथग्ग्रहणं भवति- तन्तुपटयोरैक्यासंभवात् , किं च कार्यस्य कारणापेक्षया पृथगऽग्रहणेपि कार्यापेक्षया कारणस्य तु पृथग ग्रहणं संभवत्येव- कारणस्य कार्यात्मकत्वाभावात् तथा चातीन्द्रियाणामणूनां कार्यत्वाभावादनुमानबुद्धया पृथग्ग्रहणं संभवति यतः अतीन्द्रियेष्वणुषु(सत्सु)= परमाणूनामऽतीन्द्रियत्वादिन्द्रियेण ग्रहणं न संभवतीति यद् घटादिकमिन्द्रियेण गृह्यते तद् घटादिकम् एतया बुद्धया= प्रत्यक्षबुद्धया विविच्यमानम् अन्यत्= अतीन्द्रियेभ्यः परमाणुभ्यो भिन्नमेवेति सर्वभावानां पृथगग्रहणमपि संभवत्येवेत्याशयः प्रतिभाति / यदि परमाणुभ्यो घटादीनां पृथग्ग्रहणं न स्यात्तदोभयोरपि समानबुद्धिवेद्यत्वं स्यात्. न चैवमस्ति- न हि घटबुद्धिविषयत्वं परमाणूनां परमाणुबुद्धिविषयत्वं वा घटादीनां दृश्यते- परमाणूनामनुमितिविषयत्वाद् घटादीनां च प्रत्यक्षविषयत्वादिति बुद्धिभेदादेव बुद्धिविषयाणां पृथग्ग्रहणं सिद्धं तेन च सत्त्वं सिद्धं तेन च बुद्धीनामपि यथार्थत्वं सिद्धमित्यर्थः / अत्र- "भाष्यम्- बुद्धया विवेचनात्तु भावानां पृथगग्रहणमतीन्द्रियेष्वणुषु. यत्र खल्ववयवावयविनावैन्द्रियको तत्र पृथग्ग्रहणमविवेचकानामस्फुटतरमऽतीन्द्रियेभ्योणुभ्य आनुमानिकेभ्यः प्रत्यक्षदृश्यानां तदाश्रितानामवयविनां पृथग्ग्रहणमित्यतिस्फुटमित्यर्थः” इति तात्पर्यटीका / / 28 // सिद्धान्ती भावानां सत्त्वे हेतुमाह-प्रमाणत इति, अर्थानाम्= पदार्थानां प्रमाणतः प्रतिपत्तिर्भवति तथा च प्रमितिविषयत्वात् सत्त्वं सिद्धमिति न सर्वशून्यवाद उपपद्यते इतिसूत्रान्वयः / व्याचष्टेबुद्धयेति, भावानां बुद्धथा विवेचनाद् याथात्म्यम्= सत्त्वमेवोपलभ्यते यथा मृदा घट उत्पाद्यते तेन जलमानीयते तच्च पीयते पानेन तृप्यते तदनेनोत्तरोत्तरं फलोपलम्भेन भावानां सत्त्वमध्यवसीयते- असता फलोपलम्भासंभवादित्यर्थः / उक्तं विशदयति- यदस्तीति, यच्च घटादिकं यथा= यद्रूपमस्ति तत्सर्व प्रमाणत उपलब्ध्या सिध्यति. यच्च शशविषाणादिकं यथा= यद्रूपम्= शशीयविषाणत्वेन रूपेण नास्ति तदपि सर्व प्रमाणत उपलब्ध्या सिध्यतीत्यन्वयः, भावानां सत्त्वासत्त्वे प्रमाणेन सिध्यतः इत्यर्थः / उक्तस्य