________________ 404 प्रसन्नपदापरिभूषितम्- [4 अध्याये. २आह्निकेयदिदं भवान् बुद्धिराश्रित्य 'बुद्धिविषयाः सन्ति' इति मन्यते मिथ्याबुद्धय एताः, यदि हि तत्त्वबुद्धयः स्युर्बुद्धया विवेचने क्रियमाणे याथात्म्यं बुद्धिविषयाणामुपलभ्येत बुद्धया विवेचनात्तु भावानां याथात्म्यानुपलब्धिस्तन्त्वपकर्षणे ___पटसद्भावानुपलब्धिवत्तदनुपलब्धिः // 26 // यथा 'अयं तन्तुरयं तन्तुः' इति प्रत्येकं तन्तुषु विविच्यमानेषु नार्थान्तरं किंचिदुपलभ्यते यत् पटबुद्धेविषयः स्यात्- याथात्म्यानुपलब्धेः, असति विषये पटबुद्धिर्भवन्ती मिथ्याबुद्धिर्भवति, एवं सर्वत्रेति // 26 // व्याहतत्वादहेतुः // 27 // यदि बुद्धया विवेचनं भावानाम् ? न सर्वभावानां याथात्म्यानुपलब्धिः, अथ सर्वभावानां याथात्म्यानुपलब्धिः ? न बुद्धया विवेचनं भावानाम् , बुद्धया विवेचनं च याथात्म्यानुपलब्धिश्चेति व्याहन्यते. तदुक्तम्- "अवयवावयवप्रसङ्गश्चैवमाऽऽप्रलयात् 15" इति // 27 // परिमाणत्वं स्यात् न चैतत् कस्याप्यभीष्टमिति सावयवत्वानवस्थानिवृत्त्यर्थं परमाणोनिरवयवत्वं स्वीकार्य तथा च परमाणूनामविनाशित्वान्न सर्वशून्यवादसंभव इत्यर्थः // 25 // // इति परमाणोर्निर वयवत्वसमर्थनं समाप्तम् // अग्रिमप्रकरणमुपक्रमते- यदिदमिति, इदं बुद्धी:= 'घटोस्ति पटोस्ति' इत्याद्या बुद्धीराश्रित्य बुद्धिविषयाणां घटपटादीनां सत्त्वं न संभवति-- तादृशबुद्धीनां मिथ्यात्वात् / विपक्षे बाधकमाह- यदीति, यदि घटादिबुद्धयः सत्याः स्युस्तदा बुद्धिविषयाणां बुद्धया विवेचने कृते याथात्म्यम्= सत्त्वमुपलभ्येत न चोपलभ्यते इति बौद्धस्य पूर्वपक्षः / अत्र सूत्रमाह-बुद्धयेति, भावानाम्= घटादिपदार्थानां बुद्धया विवेचनाद् याथात्म्यम्= सत्त्वं नोपलभ्यते यथा तन्तूनामपकर्षणे कृते नाम तन्तुभ्योतिरिक्तस्य पटस्य सद्भावः= सत्त्वं नोपलभ्यते तथा तदनुपलब्धिः= घटादीनां सत्त्वस्यानुपलब्धिरिति मिथ्यात्वं सिद्धमिति सूत्रान्वयः / अत्र " तदनुपलब्धिः" इतिपाठो व्यर्थ एव / पूर्वपक्षोयं शून्यवादेन संगच्छते स चान्यत्र द्रष्टव्यः, उक्तं हि तै: " न सतः कारणापेक्षा व्योमादेवि युज्यते / / ___ कार्यस्यासंभवो हेतोः खपुष्पादेरिवासतः / / " " यथा यथाऽर्थाश्चिन्त्यन्ते विशीयन्ते तथा तथा / " इत्यादि। व्याचष्टे- यथेति, प्रत्येकम् तेषु तेषु तन्तुषु विविच्यमानेषु पृथक् पृथक् क्रियमाणेषु, अर्थान्तरम्= तन्त्वतिरिक्तम् / उक्ते हेतुमाह- याथात्म्येति / उपसंहरति- असतीति, भवन्ती= जायमाना, यथा शुक्तिरजतस्याभावात् शुक्तिरजतज्ञानं मिथ्या भवति तथैव घटादीनामभावाद् घटादिज्ञानमपि मिथ्यैवेत्यर्थः, घटादीनां मिथ्यात्वं च बुद्धया विवेचने कृते सत्त्वानुपलब्ध्या सिद्धम् , एतादृशविवेचनं चाद्वैतग्रन्थेषु सविस्तरमुपलभ्यते इति नेह प्रत्यन्यते / उक्तं सर्वत्रातिदिशति- एवमिति, एवं सर्वत्र बुद्धीनां मिथ्यात्वं विज्ञेयम्- पदार्थमात्रस्यासत्त्वादित्यन्वयः, स्पष्टमन्यत् / यथाशब्दस्य एवंशब्देनान्वयः, एवम्= तथा // 26 // उक्तं सिद्धान्ती प्रत्याचष्टे- व्याहतत्वादिति, उक्तः पूर्वपक्षः सर्वशून्यत्वस्य अहेतुः= असाधक:व्याहतत्वात्= पूर्वापरव्याघातदोषाक्रान्तत्वादिति सूत्रान्वयः, अन्यद् भाष्ये स्पष्टम् / व्याचष्टे- यदीति, यदि भावनां बुद्धया विवेचनं संभवति तदा तादृशबुद्धिविषयत्वादेव भावानां याथात्म्यानुपलब्धिः= मिथ्यात्वं न संभवति, शुक्तिरजतज्ञानस्याप्यन्यथाख्यातित्वस्वीकारेण मिथ्याविषयकत्वास्वीकारात् , अथ= यदि च सर्वभावानां मिथ्यात्वमस्ति तदा न तेषां बुद्धया विवेचनं संभवति- मिथ्याभूतस्य शशविषाणादेर्बुद्धिविषयत्वासंभवात् बुद्धथऽविषयस्य च विवेचनासंभवादित्यन्वयः / पर्यवसितमाह