________________ परमाणुविवेचनम् न्यायभाष्यम्। मूर्तिमतां च संस्थानोपपत्तेः संयोगोपपत्तेश्च परमाणूनां सावयवत्वमितिहेत्वोः अनवस्थाकारित्वादनवस्थानुपपत्तेश्वाप्रतिषेधः // 25 // यावद मूर्तिमद् यावच्च संयुज्यते तत् सर्व सावयवमित्यनवस्थाकारिणाविमौ हेतू . सा चानवस्था नोपपद्यते. सत्यामनवस्थायां सत्यौ हेतू स्यातां. तस्मादप्रतिषेधोयं निरवयवत्वस्येति / विभागश्च विभज्यमानहानेर्नोपपद्यते तस्मात् प्रलयान्तता नोपपद्यते इति / अनवस्थायां च प्रत्यधिकरणं द्रव्यावयवानामानन्त्यात् परिमाणभेदानां गुरुत्वस्य चाग्रहणं समानपरिमाणत्वं चाऽवयवावयविनोः परमाण्ववयवविभागादूर्ध्वमिति // 25 // संयोग एकदेशवृत्तित्वाद् आश्रयम्= संयुक्तं परमाणुद्वयं न व्याप्नोतीति परमाणुसंयोगस्याव्यापकत्वाद् भागभक्तिः= परमाणौ भागोपचारो भवतीत्यन्वयः, संयुक्तव्यापनं चाकाशादौ प्रसिद्धम् / भागभक्ति व्याचष्टे- भागवानिवेति, अयम्= परमाणुः, इदं कुत्रोक्तमिति तु नावधार्यते। किं वैतत्प्रतिपादक संयोगोपपत्तेश्चेतिसूत्रभाष्यस्योत्तरपक्षभाष्यं विनष्टमित्यवधार्यम् / पूर्वोक्तं पुनः स्मारयति-विभागे इति / द्वितीयवाक्यमाह- तदिति, तदवयवस्य= परमाण्ववयवस्य, तदेतत् पूर्वत्र व्याख्यातम् / तथा च परमाणुविनाशासंभवान्न सर्वशून्यवाद उपपद्यते इत्याशयः // __अग्रिमसूत्रमवतारयति- मूर्तिमतामिति, परमाणूनां मूर्तिमताम्= मूर्तानां संस्थानोपपत्तेः= आकृतिमत्त्वात् 1 संयोगोपपत्तेः= संयुज्यमानत्वाञ्च 2 सावयवत्वमिति यौ हेतू पूर्वसूत्राभ्यामुक्तौ तयोरनवस्थाकारित्वात् सावयवत्वानवस्थासंपादकत्वादयुक्तत्वं विज्ञेयम्- ताभ्यां हेतुभ्यां परमाणुनिरवयवत्व. प्रतिषेधस्यासंभवादिति सूत्रेणान्वयः / उक्तसूत्रद्वयं सूत्रकारो निराकरोति- अनवस्थेति, परमाणुसावयवत्वसाधनायोक्तयोः “संस्थानोपपत्तेः" "संयोगोपपत्तेः” इति हेत्वोरनवस्थाकारित्वात्= सावयवत्वानवस्थासंपादकत्वात् अनवस्थानुपपत्तेः= सावयवत्वानवस्थायाश्चायुक्तत्वात् अप्रतिषेधः= परमाणूनां निरवयवत्वस्य प्रतिषेधो नोपपद्यते तथा च परमाणूनां निरवयवत्वेनाविनाशित्वात् सर्वशून्यता न संभवतीति सूत्रार्थः, यदि परमाल्पस्य परमाणोरपि सावयवत्वं स्यात्तदा कस्यापि निरवयवत्वं न स्यादित्युत्तरोत्तरं सावयवत्वप्रसत्त्या सावयवत्वानवस्था प्राप्नोति, एतादृशानवस्थायां च सुमेरुसर्षपयोः साम्यमापद्येत-- उभयोरप्यवयवानामानन्त्यात-सावयवत्वसमाप्तेरस्वीकारात, न च समेरुसर्षपयोः साम्यं कस्याप्यभीष्ट. मिति तन्निवृत्त्यर्थ परमाणौ सावयवत्वस्य समाप्तिः स्वीकार्येति परमाणोर्निरवयवत्वं सिद्धमित्याशयः / ___ व्याचक्षाणः पूर्वपक्षमनुवदति- यावदिति, यावत् यत् यत् मूर्तिमत्. यावत्= यद् यच्च संयुज्यते= संयुज्यमानं तदित्यन्वयः, सर्व सावयवम्- मूर्तिमत्= मूर्तत्वात् संयुज्यते= संयुज्यमानत्वाचेत्यर्थः / अत्र दोषमाह- इत्यनवस्थेति, इमौ= 'मूर्तत्वात् ' 'संयुज्यमानत्वाञ्च' इतीमौ / अस्त्वनवस्था को दोषः ? इत्याश याह- सेति, नोपपद्यतेन युक्ता-सदोषत्वात् , दोषश्चोक्त एव / यदि सावयवत्वानवस्था सती= उपपन्ना स्यात् तदोक्तौ हेतू सत्यौ= परमाणोः सावयवत्वसाधको स्यातामपि न चानवस्थोपपद्यते- सुमेरुसर्षपयोरपि साम्यप्रसङ्गादिति नोक्तौ हेतू सत्यौ तस्मादयम्= प्रकृतः परमाणुनिरवयवत्वस्य प्रतिषेधो नोपपद्यते इत्याह- सत्यामिति / परमाणोविभागेन स्वरूपहानिरेव स्यादिति परमाणुविभागो नोपपद्यते तस्मात् परमाणूनां नित्यत्वात प्रलयान्तता= सर्वशून्यता नोपपद्यते इत्याह-विभागश्चेति, अत्र “विभागस्य च विभज्यमानहानिनोंपपद्यते " इत्यपि पाठ उपलभ्यते, वार्तिकदर्शनेन तु " विभागस्य विभज्यमानैर्विनानुपपत्तेः" इतिपाठः प्रतिभाति संगतश्चायं पाठः / अनवस्थापक्षे दोषमाह- अनवस्थायामिति, परमाण्ववयवविभागादूध्वम्= परमाणूनामवयवविभागे स्वीकृते प्रत्यधिकरणम् प्रतिद्रव्यम्, द्रव्यावयवानामाऽऽनन्त्यापत्त्याऽवयवावयविनो: परिमाणभेदस्य गुरुत्वस्य= गुरुत्वभेदस्य च ग्रहणं न स्यात् तथा च सम