________________ // 402 प्रसन्नपदापरिभूषितम्- [4 अध्याये. २आह्निकेमूर्तिमतां च संस्थानोपपत्तेरवयवसद्भावः // 23 // परिच्छिन्नानां हि स्पर्शवतां संस्थानं त्रिकोणं चतुरस्रं समं परिमण्डलमित्युपपद्यते यत्तत् संस्थानं सोऽवयवसंनिवेशः परिमण्डलाथाणवस्तस्मात् सावयवा इति // 23 // संयोगोपपत्तेश्च // 24 // .. मध्ये सन्नष्णुः पूर्वापराभ्यामणुभ्यां संयुक्तस्तयोर्व्यवधानं कुरुते. व्यवधानेनाऽनुमीयतेपूर्वभागेन पूर्वेणाणुना संयुज्यते परभागेन परेणाणुना संयुज्यते. यौ तौ पूर्वापरौ भागो तावऽस्याऽवयवो. एवं सर्वतः संयुज्यमानस्य सर्वतो भागा अवयवा इति // 24 // ____ यत्तावत्- " मूर्तिमतां संस्थानोपपत्तेरवयवसद्भावः 23" इति. अत्रोक्तम् / किमुक्तम् ?, 'विभागाल्पतरप्रसङ्गस्य यतो नाल्पीयस्तत्र निवृत्तेः, अण्ववयवस्य चाणुतरत्वप्रसङ्गादणुकार्यप्रतिषेधः' इति / यत्पुनरेतत्- " संयोगोपपत्तेश्व" इति ?, स्पर्शवत्त्वाद् व्यवधानम्. आश्रयस्य चाऽव्याप्त्या भागभक्तिः उक्तं चात्र- स्पर्शवानणुः स्पर्शवतोरण्वोः प्रतिघातात् व्यवधायको न सावयवत्वात् , स्पर्शवत्वाच्च व्यवधाने सत्यऽणुसंयोगो नाश्रयं व्यामोतीति भागभक्तिर्भवति= भागवानिवायमिति, उक्तं चात्र- 'विभागेऽल्पतरप्रसङ्गस्य यतो नाल्पीयस्तत्रावस्थानात् . तदवयवस्य चाणुतरत्वप्रसङ्गादणुकार्यप्रतिषेधः' इति // पूर्वपक्षी प्रकारान्तरेण परमाणोः साक्यत्वमुपपादयति- मूर्तिमतामिति, मूर्तिमताम्= मूर्तपदार्थानां संस्थानोपपत्तेः= आकृतिमत्त्वाद् अवयवसद्भावः= सावयवत्वं प्राप्नोति- सावयवत्वं विना संस्थानासंभवात्- अवयवसंनिवेशविशेषस्यैव संस्थानपदार्थत्वात् , परमाणुरपि मूर्तपदार्थः मूतत्वात् ससंस्थानत्वं तेन सावयवत्वं तेन विनाशित्वं तेन सर्वशून्यत्वं सिद्धमिति सूत्रार्थः। व्याचष्टे- परिच्छिन्नानामिति, परिच्छिन्नस्यापि घटाकाशस्य ससंस्थानत्वं नास्तीति तद्व्यवच्छेदार्थ स्पर्शवतामिति / संस्थानविशेषमाहत्रिकोणमिति, चतुरस्त्रम् चतुष्कोणम् , परिमण्डलम् वर्तुलम् , इत्यादि संस्थानं मूर्तत्वादुपपद्यते / संस्थानस्य सामान्यस्वरूपमाह- यत्तदति / निगमयति- परिमण्डला इति, परमाणूनां वर्तुलत्वात् ससंस्थानत्वं प्राप्तं तेन च सावयवत्वं तेन विनाशित्वं सिद्धमित्याह- तस्मादिति / / 23 / / ___ पूर्वपक्षी परमाणोः सावयवत्वे हेत्वन्तरमाह-संयोगेति, परमाणोः संयोगोपपत्तेः= परमाण्वन्तरेण सं. युज्यमानत्वादपि सावयवत्वं सिद्धम्- स्वावयवेनैव परसंयोगसंभवादिति सूत्रान्वयः, अन्यद्भाष्ये स्पष्टमेव / व्याचष्टे- मध्ये इति, मध्ये=परमाणुद्वयमध्ये सन्= स्थितः, तयोः पूर्वापरयोः परमाण्वोः / पर्यवसितमाहयाविति / अस्य= परमाणोः ये भागास्तेऽवयवा एव तथा च सावयवत्वाद्विनाशित्वं सिद्धमित्यर्थः / / 24 // ___ उक्तपूर्वपक्षं भाष्यकारो निराकरोति- यत्तावदित्यादिना / पूर्वपक्षमनूद्य तन्निरासस्य कृतत्वमाहअत्रेति, उक्तम्= पूर्वमेवेदं निरस्तमित्यर्थः / उक्तं जिज्ञासते-किमिति / उक्तमनुवदति- विभागेति, यतो नाल्पीयस्तत्र= तस्माद् विभागैरल्पतरत्वप्रसङ्गस्य निवृत्तिर्भवति परमाणुश्च परमाल्पीयानिति न परमाणोरवयवविभागः सावयवत्वं च संभवतीत्यर्थः, तदेतत् “न प्रलयः 16" इतिसूत्रभाष्ये द्रष्टव्यम् / अन्यदप्युक्तं स्मारयति- अण्ववयवस्येति, एतत् “अव्यूहाविष्टम्भविभुत्वानि 22" इतिसूत्रभाष्ये द्रष्टव्यम् / प्रकृतसूत्रोक्तं परिहरति- यत्पुनरिति / स्ववक्तव्यमाह- स्पर्शेति, परमाणुना यत् परमाण्वोर्व्यवधानं क्रियते तत् स्पर्शवत्वादेव न तु सावयवत्वादित्यर्थः / आश्रयस्य= संयोगाश्रयस्य= संयुज्यमानस्याऽध्यापनादेव परमाणौ भागभक्तिः= भागोपचारो भवति न तु वस्तुतो भागवत्त्वम्= सावयवत्वमित्याहआश्रयस्येति / अत्राप्युक्तमतिदिशति- उक्तं चात्रेति, स्पर्शवान् परमाणु: प्रतिघातात्= निरोधकत्वादेव परमाणुद्वयव्यवधायको भवति न तु सावयवत्वात् तत्र स्पर्शवत्त्वाद व्यवधाने सति- कृतेपि तस्य परमाणो: